________________
३।७४-७५] ३ प्रवचनप्रस्तावः
३५५ प्रत्यक्षस्य निरवशेषसूक्ष्मान्तरितदूरार्थेषु तद्विषयस्यास्मदादीनामसम्भवात् । अनुमानसम्भवस्तु सुनिश्चिततत्त्वपरिणामा'विनाभावस्वभावस्य "सत्त्वकृतकत्वादेरशेष व्यापिवस्तुधर्मस्य 'सुविवेचितप्रामाण्यतर्कज्ञानबलेन तत्र सर्वत्राप्यध्यवसायात् । तदियमानुमानिकी बुद्धिः सर्वत्रसामान्यविशेषपरिणामं तद्विपर्ययव्युदासेन व्यवस्थापयन्ती सर्वथैकान्तशासनानां मिथ्यात्वनिवेदनेन तद्विषयमादरं प्रेक्षावतां प्रतिक्षिपतीति 'न पुरुषार्थानुयोगः; तत्परि- ५ णामस्य तदात्मन एव श्रेयोमार्गस्योपपतेः ।।
___ कथं पुनः शासनत्वाविशेषेऽपि शासनान्तरपरिहारेण भगवदर्हच्छासनस्यैव - प्रामाण्यमित्यारेकायां तथा तद्दर्शयन्नाह
आप्तवादः स एवायं यत्रार्थाः समवायिनः ।
प्रमाणमविसंवादात् [प्रणेता यदि शङ्कयते ] ॥७४॥ इति ।। . १०
यत्र यस्मिन् अर्था अनेकात्मपरिणाममार्गतद्विषयलक्षणाः समवायिनोऽभिधेयत्वेन 'सम्बद्धाः स एवायमाप्तवादः आगमः प्रमाणं नापरः । कुत एतत् ? अविसंवादादस्यैव इति विभक्तिव्यत्ययेन सम्बन्धः निरूपितश्चान्ययोगव्यवच्छेदेनाऽस्याविसंवादः। स्यान्मतम्भागासिद्धो हेतुः प्रत्यक्षानुमानविषय एव भावात्, न देशादिविप्रकृष्टेष्वत्यन्तपरोक्षेषु इति ; तन्न; तत्रापि तदनुसारेण तस्य प्रतिपत्तेः। नहि प्रत्यक्षादिविषयमशेषमप्यविसंवादा- १५ धिष्ठानमादिशतः पुरुषस्य तदपरत्रान्यथोपदेशे कारणमस्ति रागादेरभावात् । भावे तद्विषयेऽपि तन्नियमाभावप्रसङ्गात्, रागादिमतां तत्रापि प्रायोविप्रलम्भस्योपलम्भात् । अथवा कस्मादयमेवागमः॥ आप्तवादो न प्रत्यागमोपि ? इत्यत्रेदमाह-आप्तवाद इत्यादि । “यत्रार्था निरूपितरूपाः समवायिनः स एवायमाप्तस्य रागादिदोषविकलस्य वादो नापरः । कस्मात् ? अयमेव प्रमाणं यतः इति । न ह्यनाप्तवादत्वेऽस्य प्रामाण्यम्, अपौरुषेयत्वस्य प्रत्याख्यानात्, २० प्रामाण्यमपि अविसंवादात् । न हि प्रत्यागमेषु तल्लेशोऽप्यस्ति । ततोऽनाप्त एव सुगतादिः विसंवादिवचनत्वादुन्मत्तादिवत् । न चेदमसिद्धम् ; प्रत्यक्षादिनिबद्धनिश्चयेऽपि बहिर्भावहेतुफलभावतत्परिणामतत्त्वादौ तद्वचनस्यान्यथैव भावादिति निरूपितत्वान्नेह प्रतन्यते ।
कथं पुनः दृष्टागमविरोधविकलतया प्रमाणमप्यनेकान्तवादो विगलितनिखिलदोषकलापस्य सकलवेदिन एवेति निश्चयः ? सम्भवति हि तदपरस्यापि तादृशी वचनवृत्तिः, २५ सरागाणामपि वीतरागवद्वयवहारोपपत्तेः। कथं वा यथोक्तगुणोपपन्नोऽपि क्वचिन्मिथ्यावचनानामप्रणेतैवेति निर्णयो वीतरागाणामपि सरागवच्चेष्टासम्भवात् ? एतदेव दर्शयति
प्रणेता यदि शहन्यते । इति । प्रणेता प्रवचनस्य प्रवक्ता शङक्यते दोषवानपि तस्य प्रणेता दोषविकलोऽपि भवति मिथ्यावादीति संशय्यते । यदि इति पराभिप्रायद्योतने । तत्र प्रथमशङ्कायामुत्तरमाह- ३०
__आत्मा योऽस्य प्रवक्तायमपरालीढसत्पथः । इति । १ 'बसः'-ता० टि० । बहुव्रीहिसमास इत्यर्थः। २-तपरिणा-श्रा०, ब०, प० । ३ -मादिनाभाव-श्रा०, ब०, प०। ४ तत्त्वकृत-श्रा०, ब०, प०। ५-पस्यापि श्रा०, ब०, प० । ६ सुविवेचयत्येव प्रा-पा०, ब०, प० । ७ तदीय- प्रा०, ब०, प० । 'तत् इयमिति पदच्छेदः'-ता० टि०। ८ नापुरु - प्रा०, ब०, प०। ९ सम्बन्धाः श्रा०, ब०, प० । १०-दे सामान्यावि-श्रा०, ब०।-दे साम्यवि-५०। ११'तस्यानृतकारणं नास्ति'-ता०टि० । १२-पि यस्मिन्नर्था प्रायो श्रा०, ब०, प०।१३ -मः प्राप्ताप्तवादो श्रा०, ब०, प० । १४ यत्रानिरूपित-श्रा०, ब०, प० ।