________________
३५४ न्यायविनिश्चयविवरणे
[३१७१-७३ मव'गच्छता व्याख्यातून प्रति विफलमपि तद्वादप्रणयनं तदवगमविकलप्रतिपत्रपेक्षया सफलं तथा स्यात्कारादिनिपातप्रयोगोऽपि । के तहि स्याद्वादमनुरुन्धते यदि तत्र सौगतादयो जडवृत्तय इति चेत् ? अत्राह--
सर्वथैकान्तविश्लेषतत्त्वमार्गव्यवस्थिताः ।
व्याख्यातारो विवक्षातः स्याद्वादमनुरुन्धते ॥७१।। इति । . व्याख्यातारः परप्रत्यायनप्रवृत्ताः स्याद्वादं स्याच्छब्दम् , उपलक्षणमिदं तेनैवकारमपि अनुरुन्धते स्वीकुर्वन्ति विवक्षातो विवक्षया तेन विषयावद्योतनेच्छया। कीदृशास्ते ? सर्वथैकान्तविश्लेषो व्यपोहो यस्मिस्तत्त्वे तस्य मार्गोऽन्वेषणं प्रत्यक्षादिरूपं तत्र व्यवस्थिता इति ।
जात्यन्तरं तत्त्वमेकान्तव्यवच्छेदेन प्रत्यक्षादिना निश्चिन्वन्तो व्याख्यातारः तदवद्योतनाय १० स्याद्वादमवलम्बन्त इति यावत् ।। प्रमाणप्रसिद्धत्वादेवानेकान्ते संशयादिदोषप्रसङ्गोऽपि प्रेक्षावतां नावतरतीत्याह
अनेकलक्षणार्थस्य प्रसिद्धस्याभिधानतः ।
संशयादिप्रसङ्गः किं स्याद्वादेऽमूढचेतसः ॥७२।। इति । संशय आदिर्यस्य विरोधादेस्तस्य प्रसङ्गः किं नैव । क्व कस्य ? स्याद्वादेऽनेकान्त१५ वादे अमूढचेतसः प्रबुद्धबुद्धेः । कुतः स न ? इति चेत्, अनेकलक्षणस्य क्रमाक्रमानेकरूपस्य
अर्थस्य चेतनेतरवस्तुनः प्रसिद्धस्य प्रमाणनिर्णीतस्य अभिधानतः स्याद्वादेन प्रतिपादनात् । ततस्तत्र संशयादिकमुपलोकयन्नर्चतादि'रमूढचे ता न भवतीति मन्यते। हेयोपादेयतत्त्वमेव सोपायं प्रयत्नतः प्रतिपादयितव्यं पुरुषार्थोपयोगात् किमनेकान्त प्रतिपादनेन विपर्ययात्
इति चेत् ? नास्ति विपर्ययः सर्वस्यापि वस्तुतत्त्वस्यानेकान्तपर्यवसितत्वज्ञापनेन एकान्त२० शासनेषु हेयादि तत्त्वसत्त्वाभावनिवेदनार्थत्वात् तत्प्रतिपादनस्य । तदेवाह
साकल्येनेह सामान्यविशेषपरिणामधीः ।
मिथ्र्यकान्तप्रवादेभ्यो विदुषो विनिवर्तयेत् ॥७३॥ इति । मिथ्र्यकान्ताः सर्वथैकान्ताः तेषां प्रवादाः सर्वमपि तत्त्वं सामान्यरूपमेव विशेषात्मैव परस्परविविक्तोभयस्वभावमेव विचारायोगादुपप्लुतमेव सांवृतमेव' इत्यादयो वचन२५ प्रबन्धाः तेभ्यो विदुषो विद्वज्जनान् विनिवर्तयेत् निःश्रेयसाथितया तत्प्रतिपादितोपायानुष्ठाने
प्रवृत्तान् प्रतिनिवर्तयेत् । का पुनरेवमिति चेत् ? सामान्यविशेषपरिणामधीरेव । सामान्य द्विविधं तद्भवसामान्यं तिर्यक्सामान्यं च, विशेषोऽपि द्विविधः एकद्रव्यगतोऽनेकद्रव्यगतश्च५ तावेव परिणामस्तस्य बुद्धिः । क्व सा तादशीति चेत् ? इह अस्मिन चेतनेतरात्मन्यर्थकलापे । कथम् ? साकल्येन सामस्त्येन । तदनेनानुमानिकी "तबुद्धिरिति प्रतिपादितं भवति,
१ गच्छतौ श्रा०, ब०, प० । २ स्तत्त्वे स तस्य प्रा०, ब०, ५०। ३ तस्य श्रा०, ब०, १० । ४ द्रष्टव्यम् -हेतुवि० टी० पृ० ९८, १०४ । अक० टि० पृ० १८२ । ५-न्तप्रवादेन प्रा०, ब०, प० । ६"पुरुषार्थानुपयोगात्" -ता० टि०। ७-तत्त्वगत्वा-श्रा०, ब०, प० । ८ वादः प्रा०, ब०, प० । ह-पास्मभावमेव श्रा०, ब०प०। १०-प्रसङ्गाः श्रा०, ब०, प० । ११-नाद्विनिव-श्रा०, ब०, १०। १२ प्रवृत्ता प्रवर्त-प्रा०, ब०, प० । १३ -धीरेवं श्रा०, ब०, प० । १४ तद्भाव सा-श्रा०, ब०, प० । १५-तश्च परि-पा०, ब०, प० । १६ बुद्धे : प्रा०, ब०, प० । १७ तदबुद्ध रिति श्रा०, ब०, प० ।