________________
३४८
न्यायविनिश्चयविवरणे
[३६४
सूचनात् । तावदिति वाक्यालङ्कारे । यश्चेतसां सन्तानः सुगतानामा तिष्ठत्येव न निर्वाति । कुतः ? करुणावत्त्वात् स समत्वं मैत्रीरूपम् उपलक्षणमिदम्, तेन प्रमोदादिकमपि न प्रपद्यते न कर्तृत्वेन प्राप्नोति विषयाभावात् । अस्त्येव सन्तानान्तरं विषयः तत्र सत्त्वमात्रे मैया व्रतचारिणि प्रमोदस्य क्लेशवति करुणाया निघृणादावुपेक्षायाश्च तेन प्रपत्तेंरिति
चेत्, न; तत्र सर्वत्रापि तेन नैरात्म्यज्ञानप्रधानेनोच्छेदस्यैव करणात् । न च तद्गोचरं मैग्यादिकं व्योमकुसुमादिवत् । न यदा मैत्र्यादिकं तदा तत्रोच्छेद: पश्चादेव तस्य भावादिति चेत् ; न; वस्तुसति पश्चादपि तद्भावस्य निषेधात् । अवस्तुसतश्च पूर्वमपि कस्तस्योच्छेदाद्विशेषः यतो मैयादेविषयः स्यात् ? अध्यारोपतः सत्त्वमिति चेत्, न; अवस्तुसति तस्यैवाभावात् । तस्यापि ततो भावेऽनवस्थापत्तेः । सुगतस्यैव तदध्यारोप इति चेत् ; तेन तहि तत्र सत्त्वमध्यारोप्य पुनस्तदुच्छेदकरणात्तदेव नाध्यारोपयितव्यम्, “प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्” [प्र. वार्तिकाल० १११४७ ] इति न्यायात् । तन्न अवस्तुसतः पूर्वमपि तद्विषयत्वम् । वस्तुसत्त्वे तु कथं तत्रैव मैत्र्यादिरुच्छेदश्च विरोधात् ? न विरोधः, रागादिदुःखोपशमरूपत्वेनोच्छेदस्यैव परेषामिष्टत्वादिति चेत् ; न; अभीष्टत्वेऽपि स्वसन्तान
वद्वस्तुसत्युच्छेदस्याशक्यत्वात् । तन्न तदुच्छेदात्मा मोक्षः सम्भवति । कस्तहि वक्तव्य १५ इत्याह
तस्मात् [ निरास्रवीभावः संसारान्मोक्ष उच्यते ।
सन्तानस्यात्मनो वेति शब्दमात्रं तु भिद्यते ] ॥६४॥ इत्यादि । तस्मात् उक्तस्य मोक्षस्यासम्भवात् निरास्रवीभावो मिथ्याज्ञानरागादेरास्रवादनिष्क्रान्तस्य निष्क्रान्तस्य भावो भवनं संसारान्मोक्ष उच्यते मोक्षवेदिभिः । भवतु सन्तानस्य २० इति परः । तत्रोत्तरम्-आत्मनो वा इति, आत्मन एवेत्यर्थः । वाशब्दस्यावधारणार्थत्वात्
आत्मन एव 'कथञ्चित् संवेदनान्वयरूपस्य सन्तानत्वोप पत्तेः, निरन्वयज्ञानप्रवाहस्याशक्यकल्पनत्वेन निरूपितत्वात् । कस्तहि सन्तानात्मनोभैंद इति चेत् ? न कश्चिदर्थतः । केवलं सन्तान इति आत्मेति च 'शब्दमानं तु भिद्यते' इति । कथं पुनर्निरास्रवस्याप्यात्मनः
परापरशरीरसञ्चाराभावः, तत्सञ्चारकारिण एव तस्य "प्राग्लब्धत्वात् । पश्चादतत्कारित्वे २५ तु परापरज्ञानपर्यायकारित्वमपि न भवेदिति स एवोच्छेदभावः पुनरप्यागत इति चेत् ; न;
तत्र कारणाभावात् । न हि आत्मैव तत्सञ्चारे कारणम्, अपि तु अविद्यातृष्णादिरपि । तत्त्वज्ञानपरिपाकवतश्च तदभावेन सामग्रीवैकल्यान्न युक्तं तत्सञ्चारकारणत्वम् । आत्मनः परापरपरिशुद्धज्ञानपर्यायापेक्षया तु निरपेक्षत्वेन कारणत्वस्यैवोपपत्तेः न तदुच्छेदवादप्रत्यावृत्तिरपि ।
न चैवं तस्यानवस्थितपरापरपरिमाण स्याप्यवकल्पनम्, तत्रापि कर्मसचिवस्यैव तस्य कारणत्वात्, अधिगतनिःश्रेयसस्य च कर्माभावात् । ततः परित्यक्तकायपरिच्छिन्नतया अवस्थितमेव तस्य परिमाणम् । तदपि कर्माधिपत्येनोपनिबद्धं तदभावे कथमिति चेत् ?
१ प्रतिपत्ते-पा०, ब०, प०।२-पिन नैरा-पा०, ब०, प०। ३ -णायां न चरद्गो-श्रा०, ब०, प० । ४ मैन्यादिवि-श्रा०, ब०, प० । ५-पि भावे-श्रा०, ब०, प० । ६ कर्तव्य इ-श्रा०, ब०, प० । ७ -स्य भवनं प्रा०, ब०। -स्य निष्क्रान्तस्य भवनं प० । पूर्वमनिष्क्रान्तस्य पश्चानिष्क्रान्तस्य । ८ कथं चेत् आ०, ब०, प०। ९-पत्तेरन्वय-पा० ब०, प० । १० प्रारबद्धत्वात् आ०, ब०, प० । ११ तत्सञ्चारिका -प्रा०, ब०, प०। १२ -णस्याप्यक -प्रा०, ब०, प० ।