________________
३६१-६३] ३ प्रवचनप्रस्तावः
३४७ हेयोपादेयतत्त्वार्थविपरीतव्यवस्थितेः ।
मिथ्याज्ञानमनात्मज्ञं मैत्र्यादिप्रतिरोधतः॥६१॥ इति । सौगतेन हि यदनात्मज्ञम् आत्मवेदनविमुखं ज्ञानं विज्ञानमभ्यनुज्ञातं तन्मिथ्येव । कुत एव तत् (एतत्) तत्त्वेन तद्भावेनार्थ्यते इति तत्त्वार्थों, हेयोपादेयौ च तो तत्त्वाथों च तयोः या तद्विज्ञानबलात् विपरीता हेयस्योपादेयतया उपादेयस्य हेयतया व्यवस्थितिः तत ५ इति । न चेयं नास्त्येव सर्वथा फलविकलतया कथञ्चित्तद्वत्तया च यथाक्रमं त्याज्योपादेययोश्चित्तसन्ताननिमलोच्छेदावस्थानयोस्तज्ज्ञानेन विपरीतस्थितेरवकल्पनात् । अथवा तद् - ज्ञानं मिथ्येत्यसम्भवीति व्याख्येयम् । अत्र निमित्तमाह-'मैन्यादिप्रतिरोधतः' इति । मैत्री तत्त्वमात्रे समताभावनम् आदिर्यस्य गुणोत्कृष्टादिविषयस्य प्रमोदादेः तस्य यः प्रतिरोधः तज्ज्ञानसम्भवे प्रतिनिवृत्तिः तत इति । तथाहि-न तावत्तज्ज्ञानं विनेयानां स्वत एव; सुगत- १० कल्पनावैफल्यप्रसङ्गात् । सुगतादेव तत्तेषामादितः परार्थानुमानरूपमिति चेत् ; न; ततोऽपि तज्ज्ञानवतः तदसम्भवात् । स हि कृपया तत्तेषामुपदिशति । न च तज्ज्ञानवतः कृपा विषयाभावात्, सर्वस्यापि तेन विनेयवर्गस्य तत्त्वतो नीरूपतयैव ज्ञानात् । तदध्यारोपस्यापि तदभावतत्त्वज्ञानवत्यसम्भवात् । ततो यदि सुगतस्य करुणावत्त्वमप्रतिरोधं न तस्य तदभावज्ञानम् ।। तथा विनेयलोकस्यापि, इति युक्तं तस्यासम्भवित्वम्, असम्भवतश्चानभ्यासभूमित्वेनानिर्वाण- १५ मार्गत्वमपीति । साम्प्रतं स्वमते प्रमोदादेविषयभावादिना विधानमुपपन्नमिति दर्शयन्नाह
तत्त्वार्थदर्शनज्ञानचारित्रेषु महीयसाम् ।
आत्मीयेषु प्रमोदादिरत एव विधीयते ॥६२।। इति । तत्त्वेनार्यन्त इति तत्त्वार्था जीवादयः तेषां यानि दर्शनज्ञानचारित्राणि श्रद्धानाधिगम- २० तत्स्थिरीभावलक्षणानि तेषु प्रमोदादिः हर्षादिः, आदिपदात् मैत्रीपरिग्रहः स विधीयते "मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि च सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु" [ त० सू० ७।११] . इति प्रवचनेन । कुतः स तेषु विधीयते ; इति चेत्; अत एव अतोऽस्मात्तत्त्वार्थदर्शनादीनां भावात् परमते च तद्विषयस्याभावात्, तस्य च चारित्रविकल्पत्वेन निःश्रेयसकारणत्वात् । एवकारानिमित्तान्तरव्युदासः । केषां स विधीयते ? महीयसां प्रत्यासन्ननिःश्रेयससम्पदाम् । २५ तेषामेव सांसारिकभोगनिस्पृहव्यापारतया महीयस्त्वोपपत्तेः । कीदृशेषु तेषां स विधीयत इति चेत् ? आत्मीयेषु । उपलक्षणमिदम्, तेन परकीयेषु चेति प्रतिपत्तव्यम् । न चैवमवस्थितस्यापि सुगतस्य क्वचिन्मच्यादिकं सम्भवति इत्याह
यस्तावत् [ करुणावत्त्वात्तिष्ठत्येव हि चेतसाम् ।
सन्तानः स परोच्छेदान्न समत्वं प्रपद्यते ] ॥६३॥ इत्यादि। ३० - नन्विदमुक्तमेव पूर्व किमर्थ पुनरुच्यते इति चेत् ? बालधियां परिचयस्थैयार्थम् । एवमुत्तरत्रापि । न चैवं सर्वत्रप्रसङ्गः अनयैव दिशाऽन्यत्रापि तत्स्थैर्याभ्यासस्य कर्त्तव्यतायाः
१ विज्ञानमस्य तु ज्ञान-प्रा०, ब०, प० । २ च तत्त्वार्थी प्रा०, ब०, प० । ३ तज्ज्ञानममिथ्ये -प्रा०, ब०, प० । ४-रोधान्न श्रा०, ब०, प० । ५-न च नि-श्रा०, ब०, प० । ६-भ्यासकर्त -श्रा०, ब०, प०।