________________
५
३४६
न्यायविनिश्चयविवरणे
[ ३६०
मोक्षत्वेन, तत्फलत्वं च वस्तुतः पुनस्तस्यापि निरोध एव मोक्ष इति चेत्; न तर्हि तस्य प्रणीतत्वम्, तद्धि मोक्षान्तरप्रतिक्षेपेण तस्यैवेष्टत्वम् । सम्प्रति तदन्तरस्यापि प्रतिपादनेन तस्य तल्लक्षणाभावात् । यदि वा निरोधे वा मोक्षे तत्र प्रयोजनं प्रमाणं 'प्रयुज्यते प्रकर्षेण युक्तं क्रियतेऽनेनेति प्रयोजनम्' इति व्युत्पत्तेः तन्नेक्ष्यते न सम्भवति । सम्भवे तत्रैव तन्न भवेत्, नापि तस्यायुक्ति विकलत्वं तदविकलत्वादेव 'सांवृतत्वोपपत्तेः । ततो दुर्भाषितमिदम्
१०
यस्य सम्भवत्यपरापरः ।
"परितुष्ट [:]क्षणो तस्य मोक्षः प्रणीतोऽसौ भ्रान्त्ययुक्तिविनाकृतः ॥ " [ प्र० वार्तिकाल० १।२०३ ] इति ।
भवतु तर्हि नीरूपस्यैव निरोधस्य प्रणीतत्वेन मोक्षत्वमिति च ेत्; अत्रोत्तरं निरोधे वा इत्यादि । एतदुक्तं भवति-निरोधमभ्युपगच्छता तत्परिच्छित्तये प्रमाणं वक्तव्यम्, अन्यथा तीर्थान्तरमोक्षवत्तस्य प्रणीतत्वाव्यवस्थितेः । तच्च न तावन्मुक्तस्यैव, निःसरणाभावानुषङ्गात् । निःसरणं हि मुक्तस्य पुनः संसाराभावः । न च प्रमाणे सति तदभावः तस्यैव निरोधिनः संसारत्वात् । तन्न मुक्तस्य प्रमाणम् । संसारिण इति चेत्; १५ तदपि न प्रत्यक्षम् तस्य तद्बलभाविन' एव तद्विषयत्वम्, निरोधस्य च नीरूपत्वेन बलवैकल्यात् । अतदाकारस्य च न तद्विषयत्वम्, आकारवादव्यापत्तेः । तदाकारत्वे च न प्रत्यक्षत्वमभावत्वात् । पुनः प्रत्यक्षान्तरेण तत्प्रतीतिकल्पनायामनवस्थापत्तेः । तन्न प्रत्यक्षं तत् । नाप्यनुमानम्; प्रत्यक्षाभावे तस्याप्यनवकल्पनात् । नापि प्रमाणान्तरम् ; अनभ्युपगमात् । तन्न निर्वाणस्य निरोधाकारः प्रमाणाभावात् । अत एव न तत्र रागाद्युपशमरूपः शान्ताकारः; २० प्रमाणपथातिवर्तिनि " तस्मिंस्तदाकारस्याशक्यकल्पनत्वात् प्रणीतत्वाद्याकारवत् । ततो यदुक्तम् - १२ निरोधः शान्तता प्रणीतता "निःसारभावश्चेति चतुराकारं निरोध सत्यम्” [ ] इति तत् प्रतिव्यूढम् । तन्न सन्ताननिरोधो निर्वाणम् । सि वा तस्मिन्न प्रयोजनं फलं मुमुक्षूणामीक्ष्यते । न च निष्फले तस्मिन् प्रेक्षावतामभिरुचिरुपपन्ना तद्वत्ताविरोधात् । अन्यथा ब्रह्मविदां जीवविनाशलक्षणे" मोक्षे तद्वदभिरुच्युपपत्तेः । यत्तत्र प्रहसनं प्रज्ञाकरस्य " न च तादृशा मोक्षेण किञ्चित् प्रयोजनमित्यहो महत्प्रेक्षापूर्वकारित्वं योगिनाम्" [ प्र० वार्तिकाल० १ २३४ ] इति तन्न युक्तं भवेत् । तन्न सौगतकल्पितो मोक्षः, तदभावात् न तन्मार्गत्वम् अनात्मविज्ञानाभियोगस्य नैरात्म्यज्ञानस्य मिथ्यात्वाच्च न तदभ्यासस्य मार्गत्वमित्यादर्शयति
२५
१ पुरः ता० । २ तद्विमोक्षा श्रा०, ब०, प० । ३ तदन्तवत्तस्यापि निरोधे श्रा०, ब०, प० । ४ प्रणीतत्वलक्षणाभावात् । प्रणीतत्वम् " श्रतः परोऽपि संभवति मोक्षताऽतिक्षेपेण प्रणीतत इत्याकारः । " -प्र० वार्तिकाल० १।७९१ । ५ - तेऽसम्भवे श्रा०, ब०, प० । ६ - विकल्पत्वं आ०, ब०, प० । ७ तद्विकलत्वा श्र०, ब०, प० । श्रयुक्तथ विकलत्वादेव । साम्प्रतत्वो-श्रा०, ब०, प० । ९ " नाकारणं विषय इति सौगतैरभिधानात् " - ता० टि० । १० - तद्विषयवत्समाकार - प्रा०, ब०, प० । ११ - पदातिवर्तीति त - आ०, ब०, प० । १२ "निरोधतः, शान्ततः प्रणीततः, निःसरणतश्चेति चत्वार श्राकाराः " - प्र० वार्तिकाल० १।१९१ । निरोधः शान्ततः प्रणीता निःसारतश्चेति श्र०, ब०, प० । १३ निःसंसार - ता० । १४ - लक्षणेऽपि मोक्षे श्रा०, ब०, प० ।