________________
३।६०]
३ प्रवचनप्रस्तावः
यद्यप्यनात्मविज्ञानभावनासम्भवस्ततः ।
न निरोध निरोधे वा न प्रयोजनमीक्ष्यते ॥ ६० ॥ इति ।
३४५
'आत्मेति कथञ्चिदन्वयः, तदभावे भावानां नैरात्म्यस्याभिमतस्यावश्यम्भावात्, स न विद्यते येषां तानि च तानि विज्ञानानि च तेषां सम्बन्धिनी भावना क्षणभङ्गनैरंश्या'द्यनुमानाभ्यासवृत्तिः तस्या यद्यपि सम्भवः अपिशब्दस्तदभ्युपगमं सूचयन् ५ वस्तुतस्तदभावं निवेदयति । ततस्तत्सम्भवात्, न निरोधो न विनाशो "मिथ्यारोपस्य । तन्निरोधाय हि तत्सम्भवः परस्याभिमतः “मिथ्याध्यारोपहानार्थं यत्नः" [प्र० वा० १।१९४] इति वचनात् । न चानुमानात्तन्निरोधः तस्यावस्तुविषयत्वात् । वस्तुविषयस्य' हि ज्ञानस्य तदन्यत्प्रतिनिरोधकत्वं यथा रज्जुज्ञानस्य सर्पवेदनं प्रति, नावस्तुवेदनस्य यथा तस्यैव सर्पज्ञानस्य सम्भ्रमान्तरं प्रति । सामान्यावलम्बनत्वेनावस्तुवेदनस्यापि तस्य वस्तुनि प्रतिबन्धात्, भावनापरिकलितस्य तदध्या रोपप्रत्यनीक वस्तुस्वलक्षणदर्शनप्रत्युपस्थापनद्वारेणोपपद्यत एव तन्निरोधकत्वमिति चेत्; न; प्रतिबन्धस्यैव प्रमाणाभावेन प्रतिक्षिप्तत्वात् । तन्न ततो भाव्यमानादपि वस्तुस्वलक्षणस्य दर्शनम् अपि तु तद्विषयस्यैव मिथ्याकारस्य । अथापि कथञ्चित् ततस्तद्दर्शनं तथा वैराग्यदर्शनमपि दुःखभावनायां किन्न भवेत् ? यत इदं दुरुक्त ं न भवेत् -
१०
"दुःखभावनयाप्येष दुःखमेव विभावयेत् ।”
[ प्र०वा० १।२४०] इति । तन्न मिथ्याज्ञानाभ्यासवतोऽपि मिथ्यात्वस्य निवृत्तिः मद्यपानान्मदस्येव, तदुक्तम्अतत्त्वं भावयन् भिक्षुः कथं तत्त्वेन युज्यते । पिबन्मद्यं मदाभावं कथन्नु प्रतिपद्यते ॥” [
१५
१ “ श्रात्मशब्दस्य कथमन्वयवाचकत्वम् ? इति चेदुच्यते श्रतति सातत्येन गच्छतीत्यात्माऽन्वयः " - ता० टि० । २ - मतः श्रवश्य - ता० । ३ - श्यादनु प० । ४ " अध्याहार्यमिदम् " - ता० टि० । ५ - यस्याभिज्ञान -आ०, ब०, प० । ६ " विभ्रमानन्तरम्" - ता० टि० । ७ -षु तत्वज्ञानस्यास्यैव श्रा०, ब०, प०८ -नं तत्वेन श्रा०, ब०, प० । ९ स्वत प्रा०, ब०, प० । १० तस्य भावात् आ०, ब०, प० ।
४४
२०
] इति ।
अथवा ततो न निरोधो निरोध्यस्याभावात् । कथं पुनस्तस्याभावः ? सुखदुःखहर्षविषादादिपरापरचित्तक्षणेषु एकत्वज्ञानस्यैव निरोध्यत्वादिति च ेत्; सत्यम्; यदि तस्यारोपितविषयत्वम्, न चैवम्, भेदज्ञानवत्तस्यापि निर्बाधत्वेन तत्त्वविषयत्वात् । न च तत्त्वज्ञानमेव निरोध्यम्, भेदज्ञानस्यापि तत्त्वापत्तेः । न किञ्चित्तत्त्वज्ञानं विचारासहत्वात् २५ सामान्यं तु व्यवहारेण ततो भेदज्ञानमपि निरोध्यमेवेति चेत्; उच्यते - तद् ज्ञानं यदि वस्तुतो नास्ति न भावनासम्भवतस्तस्य निरोधः स्वत एव भावात् । अस्ति च ेत्; कथन्न तत्त्वज्ञानं तत् ? तेन स्वरूपस्य 'सत एव प्रतिवेदनात् । न च तस्य सन्तानस्य निरोधः ; चरमवत्तिनः सजातीयानवक्लृप्तौ विजातीयेऽप्यनुपयोगात् नित्यवद वस्तुत्वापत्तौ तदुपादानप्रवाहस्यापि तत्त्वापत्तेः । तत्र चोक्तम् - स्वत एव तस्याभावात् किं तन्निरोधप्रयासेन इति । तन्न तस्य निरोधः । निरोधे वा यत्किञ्चिन्मुमुक्षुप्रयासस्य फलं परिशुद्धपरापरचित्तलक्षणं प्रयोजनं पराभिमतं तत् न सम्भवति । संवृत्या सम्भवति तत एव तस्य
३०