________________
१०
३४४ न्यायविनिश्चयविवरणे
[३२५९ पपत्तेः । तथा च यत् यत्पाटवे सत्यपहीयते तत्तस्यात्यन्तपाटवान्निर्मूल मपहीयते यथा दहनपाटवाच्छीतस्पर्शः, तत्त्वज्ञानपाटवादपहीयन्ते च रागादय इति सिद्धः संवरस्तत्त्वज्ञानात्मा। ततश्च दोषापहानादनागतकर्मानुत्पत्तौ उत्पन्नानाञ्च तदपहातव्यक्लेशमात्रफल
प्रदानेनापक्रमाद्भवति परिशुद्धिः, या सिद्धिरात्मनः काष्ठागतात्तत्त्वज्ञानपाटवात् दोषाणां ५ समूलतलप्रहाणादात्मनोऽपि स्यात् अव्यतिरेकात्, अन्यथा दोषाणामपि न भवेदिति चेत् ; न;
आत्मन एव तद्रूपस्य प्रहाणात् । प्रहीणस्य कथमवस्थितिः, यतः कैवल्यमिति चेत् ? तथापि प्रतीतेरेव । निरूपितं च स्थित्यादित्रयात्मकत्वं सर्वस्यापि भावस्य । ततो नेदं जैनं प्रति दूषणम्"यस्यात्मा वल्लभस्तस्य स नाशं कथमिच्छति ।"
__ [प्र. वा० १।२३६ ] इति। सन्नेव ह्यात्मा कस्यचिद्वल्लभः । न च कौटस्थ्ये तस्य सत्त्वम्, तत्र क्षणभङ्गैकान्तवदर्थक्रियाशक्तिवैकल्यस्य निरूपणात् । परिणामिनि च विनाशस्यावश्यम्भावात् तमिच्छत एव तद्वल्लभत्वोपपत्तेः। न तत्र कथमिति प्रश्नोपपत्तिः, अनुपपत्तिविषय एव तदुपपत्तेः ।
अथ सौगतेनापि तत्त्वज्ञानं भावनाधिष्ठितं निःश्रेयसनिबन्धनमभिहितं कस्मान्नेष्यते ? १५ इति चेत् किं पुनस्तस्य तत्त्वज्ञानम् ? "सत्त्वादिलिङ्गोपजनितमनुमानमिति चेत्, कुतः
तत्सिद्धम् ? असिद्धस्य ज्ञानत्वानुपपत्तेः । स्वसंवेदनादिति चेत्, न; तस्य प्रत्यक्ष विशेषत्वेन स्वलक्षणविषयत्वात्, अनुमानस्य च सामान्याकारत्वात्, अन्यथा शब्दसम्बन्धयोग्यत्वानुपपत्तेः। स्वतः स्वलक्षणात्मैवानुमानं सामान्याकारस्तु तत्र विकल्पान्तरोपनीत इति चेत् ; न ; तदन्तरस्याप्यविदितस्याज्ञानत्वात्, स्वसंवेदनाच्च सामान्याकारत्वेन विदितत्वा
योगात् । तत्रापि तदाकारस्य विकल्पान्तरोपनीतत्वकल्पनायां प्रकृतप्रसङ्गानतिवृत्तः • अनवस्थापत्तेश्च । सत्यपि तत्र स्वसंवेदने कथमनारोपात्तत्प्रतिपत्तिः न चारोपस्यैवानुत्पत्तिः "परोक्षा नो बुद्धिः" [
] इति ब्रुवतां तत्रास्वसंवेदनसमारोपस्य प्रादुर्भावात् । स्वसंवेदनेनैव तदुत्पत्तेः प्रतिबन्धादिति चेत्, न; "अनन्वयेऽपि चित्त
"प्रबन्धे तेनैवैकत्वारोपजन्मनः प्रतिबन्धात्, अनारोपप्रतीतिभावेनानुमानवैकल्योपनिपातात् । २५ अनुमानान्तरात्तत्राप्यनारोपप्रतीतिकत्वकल्पनायाम् अनवस्थानम् अन्मानपरम्पराया "अपरिसमाप्तेः । ततो नानुमानस्य सम्भवो निरारोपायास्तत्प्रतीतेरभावात् ।
सम्भवतोऽपि कस्तस्य भावयिता ? विना तेन भावनाऽनुपपत्तेः । न चित्तक्षण एव; कस्यचित्तस्य परापरकालावस्थायित्वेन परमताप्रसिद्धेः । क्षणविनाशिनश्च भूयो
वृत्या "तद्भावकत्वानुपपत्तेः। सन्तान इत्यपि न युक्तम् ; अन्वयिनस्तस्यापि वस्तुवृत्ते३० नाभावात् अवस्तुवृत्या सम्भवतश्च भावनादौ वन्ध्यास्तनन्धयवदनुपयोगात् । तन्न तस्य
भावना। तत्सम्भवेऽपि न किञ्चित् फलमित्यावेदयति
१ यथा च प०।२-मुपजायते श्रा०, ब०, प०। ३ सिद्धिः श्रा०, ब०, प० । ४ तदा हातव्य श्रा०, ब०, प०। ५ वा सि-ता०। ६ प्रश्नोपपत्तेः। ७ स्वत्वादि प्रा०, ब०, प० । ८ विषयत्वेन श्रा०, ब०, प०। ९स्तत्र वि-प० ।-रस्तु वि -प्रा०, ब०। १०-पादस्यैवा -प०। ११ "तस्मादप्रत्यक्षा बद्धिः"-मी० भा० ११५। १२ "मीमांसकानाम्"-ता० टि०। १३ -स्य विदितस्य प्र-प्रा०, ब०, प०।१४ अन्वयेपि प्रा०,ब०,प० । १५ प्रबन्धेनैवैक -प्रा०,ब०,प० । १६ एकत्वारोपोत्पत्तेः-ता०टि० । १७ अपि स -श्रा०,ब०,५०। १८ "सौगतमतेऽप्रसिद्धः"-ता० टि०। १९ तद्बाधकत्वा-श्रा०,ब०,प० ।