________________
३।५८-५९]
३ प्रवचनप्रस्ताव वान्तर्भावप्रत्यायनात् । तदेवं क्लेशकर्मकतिपयव्यक्तिविशेषगतस्य कार्यकारणभावस्यानुमानतः परापरभेदात् प्रतिपत्तावनादिरेव स व्यवतिष्ठते, तदनुमानबलभाविना तर्कज्ञानेन तथैव तत्र प्रतिपत्तेः । तत्प्रामाण्यस्य च निरूपितत्वात् ।।
साम्प्रतं तत्त्वज्ञानेत्यादिनोक्तमपि कर्मनिर्जरणं विनेयानुजिघृक्षया स्पष्टमभिधित्सुराह
सात्मीभावाद्विपक्षस्य सतो दोषस्य संक्षये ।
कर्माश्लेषः [प्रवृत्तानां निवृत्ति: फलदायिनाम् ] ॥५८॥ इति ।। भवति हि सतो विद्यमानस्य दोषस्य रागादेः संक्षयः सामस्त्येन विनाशः, तद्विपक्षस्य रागादिप्रत्यनीकस्य निरूपितस्य तपसः सात्मीभावात्, अनात्मरूपस्यात्मरूपतया भावनात् । सति च तत्संक्षये कर्मभिरागन्तुभिरश्लेषोऽसम्बन्धः आत्मनः, तेषां दोषनिदानत्वेन १० दोषाभावेऽनुत्पत्तेः, अनुत्पन्नैश्च सम्बन्धस्यासम्भवात् । प्रवृत्तानां तर्हि कर्मणां कथं निवृत्तिः ? इत्यत्राह
प्रवृत्तानां निवृत्तिः फलदायिनाम् । इति । प्रवृत्तानां पूर्वोपात्तानां कर्मणां निवृत्तिरात्मनो विश्लेषः। कीदृशानाम् ? फलदायिनाम् । विशेषणमप्येतद्धेतुत्वेन द्रष्टव्यं फलदायित्वादिति । दृश्यते च फलदायित्वेनो- १५ पात्तस्यापि मदिरादेविनिवृत्तिः तथा कर्मणामपि । फलञ्च तेषां स एव रागादिर्दोषः, तथाऽन्तरमेव निरूपणात् । तदेवमात्मनः कर्मसम्बन्धाभावे तत्सम्बन्धतिरोहितस्यानन्तज्ञानादिस्वभावस्याविर्भावात् भवत्येव परमा निर्वृतिः । कथं पुनरात्मन: कर्मसम्बन्धाभावे कर्तृत्वभोक्तृत्वे तयोस्तदुपनिबन्धनत्वात् ? तदभावे चात्मैव न भवेत्, तस्य तल्लक्षणत्वात्, अतो न तत्सम्बन्धाभावेन तस्य निःश्रेयसकल्पनमात्मवादिनामुपपन्नमिति चेत्'; तन्न; यथावस्थि- २० तस्वपरविषयपरिशुद्धज्ञानस्यैव तल्लक्षणत्वात् । तत्र च "प्रभास्वरमिदं चित्तम्" [ प्र० वा. १।२१०] इति ब्रुवतः सौगतस्यापि विवादाभावात् । चित्तस्यैव कथञ्चिदन्वयिनः आत्मत्वेन व्यवस्थापनात् । ततः क्रियाभोगयोरभावेऽपि न परिहाणिरिति दुर्व्याहृतमेतत्
"आत्मीयमेव यो नेच्छेद्भोक्ता इव न विद्यते। .. आत्मापि न तदा तस्य क्रियाभोगौ हि लक्षणम् ॥"
[प्र. वा० १।२५७ ] इति । कुतः पुनर्विपक्षस्य सात्मीभाव इत्याह
प्रतिपक्षस्थिरीभावः प्रायः संस्कारपाटवात् । इति । प्रतिपक्षो रागादीनां तत्त्वज्ञानभावनारूपं तपः तस्य स्थिरीभावः आत्ममयत्वं संस्कारस्य तद्भावनोपनीतवासनाविशेषस्य पाटवात् । स च ततः प्रायो बाहुल्येन कदाचिद- ३० सत्यपि तस्मिन् क्षयोपशमविशेषादेव भावात् । के पुनस्ते दोषा येषां तद्भावना विपक्षभावेनोपक्षिप्यते ? इति चेत् ; अत्राह-.
. निर्हासातिशयौ येषां तत्प्रकर्षापकर्षयोः ॥५६॥ इति । तस्य तत्त्वज्ञानाभ्यासस्य प्रकर्षापकर्षावुपचयापचयौ तयोः सतोर्येषां रागादीनां निासातिशयौ हानिवृद्धी तेषां स विपक्ष इति प्रतीयते, अन्यथा तत्प्रकर्षादौ तनि सादेरनु- ३५
१-शः स च त-पा०, ब०, प० । २ -दायित्वमिति श्रा०, ब०, प० । ३ तद्भावे श्रा०, ब०, प० । ४ चेन प०।५-वात्तस्यैव श्रा०, ब०, प० ।
२५