________________
३४२
न्यायविनिश्चयविवरणे
[ ३५७
भावेऽपि मोहादौ तद्विपर्ययात् वातादिप्रभवत्वं न मोहादौ शक्यकल्पनम् । ततोऽन्यदेव तस्य कारणं वक्तव्यम्, अहेतुकत्वे कालदेशस्वभावभेदानुपपत्तेः । तच्चाभ्यास 'एव । मोहाद्यभ्यासादेव हि मोहादि:; तत्पाटवाद्यनुविधायिनस्तस्य प्रतिपत्ते: अतद्धेतुकत्वे तदनुपपत्तेः । अतः सजातीयाभ्यासनिबन्धना एव मोहादय इति सौगतः; सोऽपि न युक्तवादी; दीर्घनिद्रादिना ७५ अभ्यासव्यवधाने पुनस्तदुत्पादाभावप्रसङ्गात् । व्यवहितस्यापि हेतुत्वान्न तत्प्रसङ्ग इति चेत्; कथमिदानीं गतेऽपि जन्मदोषसमुद्भवलक्षणा पुनरावृत्तिर्न भवेत् । तद्धेतोः आत्मदर्शनस्य तदानीमभाविनोऽपि चिरापक्रान्तस्य तद्धेतुत्वसम्भवात् । तथा च न सुभाषितमिदम्
"आत्मदर्शनबीजस्य हानादपुनरागमः ।" [ प्र० वा० १।१४३ ] इति । तन्न अभ्यासस्यापि मोहादिकारणत्वम् । कर्मणां तु पौद्गलिकानां तदुपपन्नं प्रमाणभावात् । तथा हि१० यथावस्थितस्व' परपरच्छिदात्मनो जीवस्य स्वविषये - मोहादिः शरीरेन्द्रियव्यतिरेकि जीवोपश्लिष्टपुद्गल परिणामपूर्वकः, तत्त्वात् धत्तूराद्युपयोगिनस्तन्मोहादिवत् । कर्म पुद्गलोपश्लेषोऽपि जीवस्यापरमोहादिपूर्वकः, तत्त्वात् धत्तूरादिरसोपश्लेषवदिति सिद्ध आस्रवो बन्धरच, तदुपश्लेषस्य बन्धत्वात् तद्धेतोश्च मोहादेरास्रवत्वात् । एतदेवाह -
१५
रागादयः सजातीयपरिणामाभिवृद्धयः ।
सूचयन्ति हि कर्माणि स्वहेतुप्रकृतीनि च ॥ ५७ ॥ इति ।
सजातीयः सदृशः परिणामः परापरविवर्त्तः स एवाभिनवा पूर्वापेक्षया 'प्रत्यग्रत्वात् अभ्यधिका कालोपचयवत्त्वादृद्धिर्येषां ते तथोक्ताः । ते चैवम्भूता रागादयो रागः स्नेहात्मा मोहविशेषः तदादयो द्वेषादयः । किं कुर्वन्ति ? सूचयन्ति हि स्फुटम् । कानि ? कर्माणि निरूपितरूपाणि । कीदृशानि ? स्वहेतुप्रकृतीनि स्वस्य रागादेर्हेतुः कारणं प्रकृतिः स्वभावो २० येषां तानीति । चराब्दो हेतु' परत्वमस्यावद्योतयति । यतो रागादीनां हेतुप्रकृतीनि कर्माणि ततः सूचयन्ति, कार्यात् कारणप्रतिपत्तेरव्यभिचारात् । अथवा स्वे रागादयो हेतु - प्रकृतयो येषामिति व्याख्येयम् । कथं पुनरत्र व्याख्याने तेषां तत्सूचकत्वम् कारणानामवश्यम्भाविकार्यत्वाभावादिति चेत् ? सत्यम्; तत्र सापेक्षत्वे तन्नियमाभाव:, अपेक्ष्यासन्निधाने कार्यानुत्पत्तेः । न चैवम्, रागादीनां स्वत एव तद्धेतुत्वस्य प्रकृतिग्रहणेन ज्ञापनात् । २५ एवं हि ते प्रकृत्या तद्धेतवो भवन्ति यदि तत्र नापरमपेक्षेरन्, आपेक्षिकस्य हेतुभावस्थ प्राकृतत्वानुपपत्तेः । प्राकृते च तद्भावे नियम एव कार्यस्य तृष्णायामिव कर्मणः । तथा चालङ्कारवाक्यम्—
३०
"अथ तृष्णास्ति नैवास्ति कर्मणोऽस्य परिक्षयः । तृष्णस्यास्य हि भवेत् पुनः कर्म परापरम् ॥' [प्र० वार्तिकालं० १।१९० ] इति । कथमेवं कारणस्याप्यव्यभिचारिणो लिङ्गत्वसम्भवात् कार्यादिभेदेन लिङ्गत्रैविध्यकथनम् ? इति चेत्; सत्यम्; अस्त्ययं सौगतस्य तद्वादिनो दोष:, कारणलिङ्गस्य स्वभा
१ एव न मो-आ०, ब०, प० । २ मोहाधिकरणत्वं आ०, ब०, प० । ३ प्रमाणाभावात् श्र०, ब०, प० । ४ - स्वपरस्य स्ववि- श्रा०, ब०, प० । स्वपरस्य वि - प० । ५ पुद्गलश्लेषो - श्रा०, ब०, प० । ६ प्रत्यक्षत्वा श्रा०, ब०, प० । ७ -का वा का श्रा०, ब०, प० । ८ पदत्वमध्याव - श्रा०, ब०, प० । ९ प्र० वा० ३।१ ।