________________
३१५६] ३ प्रवचनप्रस्तावः
३४१ जीवादेः ज्ञानं सद्ज्ञानं तेन यः परिणामः प्रतिसमयं तद्रूपतयैवावस्थानं स एवात्मनो जीवस्य तत्त्वं' स्वरूपं तस्य सम्प्रतिपत्तिः युक्तितो निर्णयः तत इति । न हि तत्तत्त्वनिर्णये विपरीतग्रहः संभवति विरोधात् । ततः सति तस्मिन् क्षय एव तस्य भवति रज्जुनिर्णये सर्पग्रहवत् । ततो यथा वस्थितनिरवशेषजीवादिपदार्थज्ञानपरिणामरूपमात्मानं निश्चिन्वतो मिथ्याभिनिवेशादिदोषकलिलस्य व्यपगमादात्यन्तिकी शुद्धिः बुद्धिमधिरोहति । ५ तत इदं प्रत्युक्तम्
"विशिष्टसुखसंगात् स्यात्तद्विरुद्ध विरागिता। नैराश्ये तु यथालाभमात्मस्नेहात्प्रवर्तते ॥"
[प्र. वा० १।२३४-३५] इति। यथोक्तस्यात्मन एव विशिष्टसुखत्वेन तन्निश्चयवतस्तद्विरोधिनि सुखे वैराग्य- १० नियमेन प्रवृत्त्ययोगात् । कुतस्तहि तथाविधस्यात्मनो मिथ्याभिनिवेशादयो दोषा यतो घोरदुःखकुकूप'कुहरपरि वर्त्तनम् ? न तावत्तत एव; अनिर्मुक्तिप्रसङ्गात्, तेषामविशेषापत्तेश्च । विशिष्टा हि ते पाटवादिगुणतारतम्याधिष्ठानतया प्रतीतेः। नहि कारणाविशेषे तद्विशेषो निर्हेतुकत्वापत्तेः ।
एतेन 'नित्यादात्मादेस्ते' इति प्रत्युक्तम्; ततोऽपि हि न केवलात्तत्संभवः । नाप्य- १५ दृष्टसहायात्; अदृष्टस्यापि तत्कार्यत्वेनाविशिष्टस्यैव सम्भवात्', तद्विशेषाद् दोषविशेषानुपपत्तेः । तद्विशेषस्याप्यन्यतस्तत्कार्यादेव कुतश्चित् कल्पनायाम् अनवस्थाप्रसङ्गात् ।
भवन्तु तर्हि वातादिभ्य एव ते, "वातप्रकृतेर्मोहः पित्तप्रकृतेदे॒षः कफप्रकृते रागः, तथा ये मोहादिमूलाः प्रलापमात्सर्यानुनयादयः सर्वेऽप्युत्तरदोषास्तेऽपीति चेत्, न; व्यभिचारात, मोहादेर्वातादिवत् प्रकृत्यन्तरेऽपि' दर्शनात् । न हि तद्वयभिचारिणस्तत्कार्यत्व- २० मतिप्रसङ्गात् प्रकृत्यन्तरेऽपि प्रकृति सांकर्येण वातादेर्भावादेव मोहादिः, अतो न व्यभिचार इति चेत् तहि प्रतीतवदपरमप्रतीतमपि वातादिकार्य तत्र किन्न स्यात् ? प्रकृत्यन्तरेण वातादेः शक्तिप्रतिबन्धादिति चेत्; प्रतीतमपि ततो न भवेत्, अप्रतीतवत् प्रतीतेऽपि प्रतिबद्ध शक्तिकस्य कारणत्वायोगात् । तन्न वातादिकार्यत्वं मोहादेः। वातादिप्रकर्षाद्यनुविधानाभावाच्च, यद्धि यस्य कार्य तत्तदुत्कर्षाद्यनुविधायि दृष्टं यथा तन्त्वादेः पटादिकम् । र न चैवमत्र, वातादेरुत्कर्षेऽपि मोहादावपकर्षस्य अपकर्षेऽप्युत्कर्षस्य प्रतीतेः। अथ शक्तिस्तत्रकारणं तस्याश्च वाताद्युत्कर्षादावप्यपकर्षादिसम्भवात्, तत्प्रसवे मोहादौ तत्प्रतिपत्तिर्नविरुध्यत इति चेत् ; न; शक्तेः पृथग्भावे तत एव कार्योत्पत्त्या वातादेरहेतुत्वप्रसङ्गात् । अपृथग्भावे च तदुत्कर्षादावप्यपकर्षादरशक्यव्यवस्थापनत्वात् । ततो वातादेरुत्कर्षादौ तदात्मनि शक्तावपि तद्भावात्, तत्प्रभवेऽपि स एव भवेत् । न चैवम्, अतो वाताद्युत्कर्ष- ३०
१ तत्त्वं तस्य श्रा०, ब०, ५०।२-त्वं निर्णये श्रा०, ब०, प०। ३-वस्थितिनि-पा०, ब०, प० । "कहरं विवरं बिलम् ।"-ता०टि०। ५-वर्तिनं श्रा०, ब०, ५०।६-वात्सदविशिष्टादोष-प्रा०, ब. प०। ७तुलना-"नाभ्यासजा रागादयः किन्तु वातादिजाः तथाहि-वातप्रकृतेर्मोहः पित्तप्रक्रतेद्रेषः कफप्रकृते राग इति तदप्यसत् ; व्यभिचारान्न वातादिधर्माः प्रकृतिसकरात् ।”-प्र. वार्तिकाल. ११४८। तत्त्वसं० पृ० ५४८ । ८-पि तद्दर्श-श्रा०, ब०, ५०।९-तीनां कार्येण श्रा०, ब०, प० । १० प्रतीतपरमतमपि श्रा०, ब०, प० । ११-कर्षस्याप्युत्कर्ष-प्रा०, ब०, प० । १२-त्यादेरेव वातादे-पा०, ब०, प० । १३ वातादा उत्कर्षादौ श्रा०, ब०, ता०।