________________
३४० न्यायविनिश्चयविवरणे
[३५६ कस्यचिदपि विदुषः तदास्था, द्रव्य एव तद्भावात् । तत्र च न वैराग्यम्, अतो द्रव्यरूपतयैवात्मा दोषपर्यायोपमर्दनेन शुद्धज्ञानादिरूपतया स्थापयितुमास्थीयमानो न दोषाभिनिवेशिनं वैराग्योदयं प्रतिरुणद्धि । कथं पुनरात्मन्यपि रूपान्तरापादानं दोषोपमर्दने
तदव्यतिरेकेण तस्याप्युपमर्दनात्, उपमृदितस्य च दोषवदसम्भवादिति चेत्, न; 'एकान्ता५ व्यतिरेक एव दोषात् । कथञ्चिद् व्यतिरेके च संवेदनस्य विकल्पेतराद्याकारभेदवत् क्रमेण मिथ्याज्ञानादिभेदस्याप्युपपत्तेरुपपन्नमेव तत्र दोषरूपोपमर्दनेऽपि तदन्तरापादनम् । विकल्पेतराद्यात्मनश्च संवेदनस्यानभ्युपगमे न किञ्चित् स्यात् सर्वस्य संसारतत्कारणादिव्यवहारस्य तन्नान्तरीयकत्वादिति 'बहुशो निरूपितत्वात् । ततो निराकृतमेतत्
"न हि तस्यान्यथाभावो नाप्यन्यस्य तथा स्थितिः । 'सर्वात्मनैकदेशेन सर्वथा दुर्घटत्वतः ॥ एकस्य नैकदेशोऽस्ति नैकदेशेऽस्त्यभिन्नता। यस्यैकदेशः सोऽन्यः स्यात्तथा सत्यनवस्थितिः॥ स्यादनन्यः कथञ्चिच्चत्तथाप्यस्त्यनवस्थितिः । परापरविकल्पानां तत्रापरिसमाप्तितः॥"
[प्र. वातिकाल० ११२३८ ] इति । विकल्पेतर-विभ्रमेतरादिभिराकारैरेकस्यैव संवेदनस्य तथा चान्यथा च भावमभ्युपगम्य पुनरेवं ब्रुवतः स्वमतापरिज्ञानदोषोपनिपातात् । तत्संवेदनवदात्मन्ययाकारभेदसंभवेन विरागाविरागयोरप्रतिषेधादिदमपि प्रतिषिद्धम्
"नात्मात्मनि विरक्तः किं यथास्ति स विरज्यते । न तथा न यथा सोऽस्ति तथापि न विरज्यते ॥"
[प्र. वातिकाल० ११२३८ ] इति । तत आत्मादौ विपरीताभिनिवेशवत एवात्मस्नेहसुखतर्षणादिर्न विवेकिनः तस्य तत्त्वनिर्णये विपरीताभिनिवेशनिवृत्तौ कारणाभावात्तदनुत्पत्तेः । एतदेवाह
सज्ज्ञानपरिणामात्मतत्त्वसम्पतिपत्तितः।
पीतदोषास्रवाकारो विपरीतग्रहक्षयः ॥५६॥ इति । आत्मनि योऽसौ विपरीतग्रहः भौतिक एव, अचेतन एव, चेतनोऽप्यविकल्प एव, नित्य एव, अनित्य एवेत्यादिमिथ्याभिनिवेशस्तस्य क्षयो विनाशो विवेकिन इति शेषः । तस्य विशेषणं पीतेत्यादि । दोषाणामात्मस्नेहसुखतर्षणादीनाम् आ समन्तात् स्रवणम् आस्त्रवः स एवाकारः स पीतोऽन्तर्भावितः स्वरूपत्वेनावस्थापितो येन स तथोक्तः । कारणस्य हि परिक्षयः कार्यमपि क्षयरूपतयावस्थापयति, अन्यथा तस्य तत्कार्यत्वानुपपत्तेः । कुम्भकारादिक्षयेण व्यभिचारः, तेन तत्कार्यस्य कुम्भादेरपरिक्षयकरणादिति चेत्, न; उपादानक्षयाभिप्रायेणैवमभिधानात् । विपरीतग्रहोपादाना हि जीवस्नेहसुखतर्षणादयः तत्परिक्षयान्न भवन्तीति । 'सज्ज्ञान" इत्यादिरत्रैव हेतुः । सतो विद्यमानस्य
१ विद्वेषः प्रा०, ब०, प० । २ तदाश्रय द्रव्य-प्रा०, ब०, प० । ३ दोषवेदवदस-श्रा०, ब०, प० । ४ एकान्ताव्यतिरेके च प०। ५ -दिति च ब-श्रा०, २०, ५०। ६ सर्वात्मन्येक-प्रा०, ब०, ५०। ७-पाश्रवा-पा०, ब०, प०।-ताच्छ्रवणं श्रवः श्रा०, ब०, ५०। ९संज्ञाने-श्रा०, ब०, प०। .