________________
१५
३१५५] . ३ प्रवचनप्रस्तावः
३३६ ङक्षस्योपकारिण्यपकारिण्यपि क्षमावतस्तन्मनस्कार'विकलस्य तदाभाव (तदभाव) प्रसिद्धेः । स च तन्मनस्कारस्तादात्विकमेवोपभोगं पुरुषार्थतया निश्चिन्वतः चित्ततल्पमुपसर्प स्तदुपभोगोपयोगिष्वनुरागं तद्वयाघातकारिषु विद्वेषं च पोषयति न त्वात्यन्तिकं पुरुषार्थविशेषं पश्यतः, तस्य तत्कारणेष्वेव 'मनस्कारस्य सम्भवात् न तात्कालिकसुखनिबन्धनेषु। तथा च कस्यचिद्विदुषः सुभाषितम्- .
तदात्वसुखसंज्ञेषु भावेष्वज्ञोऽनुषज्यते । हितमेवानुरुद्धयन्ते प्रपरीक्ष्य परीक्षकाः ॥" ..
_] 'इति। तस्मादन्यत्र गुणादिभावेऽपि रागादिकं परित्यज्य निरतिशयज्ञानादिस्वभावस्य पुरुषार्थस्य परिज्ञानात् तदुपाय एव मुनयः प्रवर्तन्ते । तत एवोक्तम्-'मोक्षज्ञानात्' इति । १० "तदुपायेऽप्युपकारित्वादेवानुरागः, तदविशेषात् परत्रापि “कस्मान्न भवतीति चेत् ? न; तत उपकारस्यैवाभावात् । दृश्यत एवेन्द्रियादेरन्यतोऽपि विषयोपभोगादिरुपकार इति चेत् ; न; तस्याऽतत्त्ववेदिभिरुपकारबुद्धया परिगृहीतस्यापि विवेकावलोकविनिवेशितप्रज्ञावैशारद्यैः जातिजरामरणप्रबन्धलक्षणपरितापकारणस्य तृष्णाभिवर्द्धनस्य निबन्धनतया अपकारपक्ष एवोपक्षेपात् । तत इदं प्रत्युक्तम्
"यद्यप्येकत्र दोषण तत्क्षणं चलिता मतिः। तथापि न विरागोऽत्र कामीव वनितान्तरे ॥"
[प्र० वा० ११२४१ ] इति । विवेकवतः पुरुषस्य संयोगसम्बन्धेषु भावेष्वात्यन्तिकस्यैव दोषस्य दर्शनेन सर्वदापि तत्र 'विरक्तिभावस्योपपत्तेः। यद्येवम् आत्मन्यपि वैराग्येण भवितव्यम्, इन्द्रियादेरिव २० तस्याप्युक्तेन वर्मना संसारपरितापकारणत्वस्याविशेषात् । इन्द्रियादिभिविना न तस्य तत्कारणत्वमतो न तत्र वैराग्यमिति चेत् ; इन्द्रियादिष्वपि न भवेत्, तेन विना तेषामपि तत्कारणत्वाभावात् । अत एवोक्तम्- -
"न तैविना दुःखहेतुरात्मा चेत्तेऽपि तादृशाः। निर्दोषं द्वयमप्येवं वैराग्यं तत्र तत्कुतः ॥"
[प्र० वा० ११२२७ ] इति चेत्; सत्यम्; आत्मनोऽपि मिथ्याज्ञानादिदोषपर्यायपरिणतस्य तत्परितापकारणतया परिभाव्यमानस्य वैराग्यविषयत्वेनाभ्युपगमात् । कथमेवं तस्यैव निःश्रेयसे स्थापनायामास्था परत्रेवात्मन्यपि विरक्तिविषये तदनुपपत्तेः ? तदास्थायां वा स एव रागः । सुखेषु स्थापनास्थैव राग आग्रहलक्षणः ।" [प्र. वार्तिकाल० ११२३८ ] इति वचनात् । ततो ३० नात्मनि वैराग्यस्य सम्भव इति चेत्, न; दोषपर्यायापेक्षया तत्सम्भवात्, तत्पर्याये च न ।
१ -नसिकार-पा०, ब०, प० । मनस्कारश्चेतस प्राभोगः अभिमुखीभाव इति यावत् । द्रष्टव्यम्अक० टि० पृ० १५६ । २ तद्भावप्रसिद्धः श्रा०, ब०, प० । ३ -सिद्धिः ता०। ४ तन्मनसिका-पा०, ब०, प० । ५-नुयुज्यते प्रा०, ब०, प०। ६ उद्धृतोऽयम्-न्यायकुमु० पृ० ८४२ । स्या०र० पृ० १११९ । ७ तदुपाये तूप-श्रा०, ब०, १०८ कुतस्तन भ-प्रा०, ब०, १०।६ विरक्तभाव-ता। १० आत्मना । ११ "प्रयत्नः । श्रास्थानी-यत्नयोरास्था" इत्यमरः-ता०टि।