________________
३३८ न्यायविनिश्चयविवरणे
[३।५५ __ यदपीदं प्रज्ञाकरस्य-"न च क्लेश एव तपस्तस्य कर्मफलत्वात् । न च कर्मफलमेव तपः शोतातपसेविनां पश्वादीनामपि तापसत्वप्रसङगात्" । [प्र. वार्तिकाल• १।२७७ ] इति; तदपि तादृशमेव; क्लेशस्य मुख्यवृत्त्या तपोभावानभ्युपगमात्। तया तत्त्वज्ञान
प्रभावोपनीतसंवरणस्यैव तदभ्युपगमात् । तत्र च न सौगतस्य विवादः । नापि तस्य ५ कर्मनिर्जराकारणत्वे । तत एवोक्तम्
"तत्रैव तद्विरुद्धार्थतत्त्वाकारावरोधिनी। हन्ति सानुचरा (रां) तृष्णां सम्यग्दृष्टिः सुभाविता ॥ त्रितोर्नोद्भवः कर्मदेहयोः स्थितयोरपि । एकाभावाद्विना बीजे ना (जं ना) ङकुरस्येव सम्भवः ॥"
____[प्र. वा० ११२७३-७४ ] इति । कथं पुनर्जीवादिज्ञानस्य तत्त्वज्ञानत्वे तत्प्रभावात् संवरणम्, सति तत्र जीवस्नेहादेरास्रवस्यैवोपपत्तेः । तथाहि-यस्तावज्जीवं विद्यमानतयाऽवलोकयति तस्य तत्रावश्यम्भावी स्नेहः, तस्य तत्सत्तावलोकनमात्रनिबन्धनतयैव बालपश्वादावप्यपलब्धः । जीवे च स्निह्यन्
तत्सुखसाधनेष्वभिलाषी सतोऽपि तदोषांस्तिरोधाय गुणानेवारोप्य पश्यति । तद्गुणदशी १५ च तानि ममेदंबुद्धया परापराणि सुखोपभोगायादत्त एवेति न संसारोपरतिः कदाचिदपि ।
तन्न जीवतत्त्वज्ञानात् संवरणम् । नाप्यजीवतत्त्वज्ञानात् ; तत्रापि सत्यात्मदर्शिनस्तदुपकारिषु स्रक्चन्दनादिषु तदपकारिषु चाहिविषादिषु परिग्रहद्वेषयोस्तत्प्रतिबद्धानां चानुपग्रहोपपा(घा)तादीनामशेषदोषाणामवश्यम्भावेन प्रादुर्भावात् । तदुक्तम्
"यः पश्यत्यात्मानं तत्रास्याहमिति शाश्वतस्नेहः । स्नेहात् सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते॥ गुणदशी परितृष्यन् ममेति तत्साधनान्युपादत्ते।। तेनात्माभिनिवेशो यावत्तावत्स संसारी ॥ आत्मनि सति परसंज्ञा स्वपरविभागात्परिग्रहद्वेषौ । अनयोः सम्प्रतिबद्धाः सर्वे दोषाः प्रजायन्ते ॥"
[प्र. वा. १।२१९-२२ ] इति । ततोऽयुक्तं तत्त्वज्ञानेत्यादीति चेत् ; अत्राह
रागद्वषो विहायैव गुणदोषवतोस्तयोः ।
मोक्षज्ञानात् प्रवर्त्तन्ते मुनयः समबुद्धयः ॥५५॥ इति ॥ । समा सदृशी वासीचन्दनयोर्बुद्धिर्येषां ते समबुद्धयः मुनयः प्रवर्तन्ते निःश्रेयसो३० पायानुष्ठाने प्रवृत्ताः भवन्ति । किं कृत्वा ? तयोः स्वपरविभागबुद्धिविषययो: रागद्वेषौ
प्रीत्यमषौं विहायव परित्यज्यैव न कदाचिदप्यविहायेत्येवकारः । कथम्भूतयोः ? गुणदोषवतोः
गुणश्चोपकारो दोषश्चापकारस्तौ विद्यते ययोस्तयोरिति । अथ मतम्-गुणदोषावेव - निबन्धनं रागद्वेषयोस्तद्भाव भावप्रतिपत्तेः, अतो न यत्र तौ भवतु नाम तत्र तयोः परि
त्यागः, यत्र तु स्तः तत्र प्रवर्तनमेव कारणभावादुपपन्नं न परिवर्जनमिति ; तन्न युक्तम् ; ३५ यस्मान्न ह्युपकारापकारावेव तयोनिमित्तम्, अपि तु 'तन्मनसिकारोऽपि । अत एव निराका
१ ततो यदुक्तं प्रा०, ब०, प० । २ -दावामा -प्रा०, ब०, प० । ३ तदिच्छा ।