________________
३।५४ ]
३ प्रवचनप्रस्तावः
३३७
क्रियाविशेषः तद्व्याधिविशेषस्य, कर्मनिदानरागाद्यास्रवप्रत्यनीकं च तपः, तस्मात्तदपि द्विपक्ष इति । कुतः पुनः कर्माणि कुतो वा तेषां तदास्रवनिदानत्वं यदेवमुच्यते इति चेत् ? आस्तामेतत्, अनन्तरमेव निरूपणात् । तथापि कथं तादृगास्त्रवप्रत्यनीकत्वं तपस इति चेत् ? तत्प्रकर्षविशेषे तदास्रवस्याप' कर्षविशेषात् । न चायं तस्य तत्प्रत्यनीकत्वाभावे सम्भवति, क्रियाविशेषस्य प्रत्यनीकस्यैव सतः प्रकर्षविशेषाद् वातादे रपकर्षविशेषप्रतिपत्तेः ।
भवत्वेवमागन्तूनां तन्निदाननिवारणेनोत्पादप्रतिषेधः कर्मणामुत्पन्नानां तु कथं परिहाणिः ? तपसो हयुत्पादप्रतिषेध एवोक्तेन वर्त्मना सामर्थ्य न चोत्पन्नानां प्रतिषेधे, अविरोधादिति चेत्; का पुनस्तेषां परिहाणिः या तपः सामर्थ्यान्न भवतीति ? उच्यतेस्वरूपप्रच्युतिरिति चेत्; न; तस्यास्तेषामनभ्युपगमात् । आत्मसम्बन्धानां तेषां ततो विश्लेष इति चेत्; सिद्धं तर्हि तत्रापि तपस एव सामर्थ्यम् । सति तत्प्रभावे तदुपश्लेष - १० वाहिनो रागादिस्नेहस्य प्रध्वंसात् तेषां ततो विश्लेषोपपत्तेः । विश्लिष्टानाञ्च फलदान - शक्ति विकलतया कर्मभावप्रच्यवनात् । ततो युक्तमुपात्तकर्मापेक्षयापि तपस एव विपक्षत्वम् । तदेवाह
तपसश्च प्रभावेण निर्जीर्णं कर्म जायते ॥ ५४ ॥ इति ।
तपसो निरूपितरूपस्य यः प्रभावः सामर्थ्य तेनैव चशब्दस्यावधारणत्वात् १५ निजीर्ण निरवशेष गलितं कर्म ज्ञानावरणादि जायते भवति । ततो यदुक्तं धर्मकीर्तिना"असम्भवाद्विपक्षस्य न हानिः कर्मदेहयोः । अशक्यत्वाच्च तृष्णायांस्तद्धेतौ पुनरुद्भवात् ॥ क्षार्थ यत्ने च व्यर्थः कर्मक्षये श्रमः । फलवैचित्र्यदृष्टश्च शक्तिभेदोऽनुमीयते ॥ कर्मणां तापसंक्लेशान्नेकरूपात्ततः क्षयः । फलं कथञ्चित्तज्जन्यमल्पं स्यान्न विजातिमत् ॥ अथापि तपसः शक्त्या शक्तिसङ्करसंक्षये । क्लेशात् कुतश्चिद्धीयेताशेषमक्लेशले देशतः ॥ यदीष्टमपरं क्लेशात्तत्तपः क्लेश एव चेत् । तत्कर्मफलमित्यस्मान्न शक्तेः सङ्करादिकम् ॥” [ प्र० वा० १।२७५-८० ] इति ।
“बाह्यं तपः परमदुश्चरमाचरंस्त्वमाध्यात्मिकस्य तपसः परिबृ ंहणार्थम् ।" [ बृहत्स्व• श्लो० ८३ ] इति वचनात् । ततस्तत्र तन्निबर्हण कारणबुद्ध्या "फलवैचित्र्यदृष्टेः” इत्यादिवचनं जैनमतानभिज्ञत्वमेव ' तस्यावेदयति ।
२०
तत्प्रतिविहितम् ; यथोक्ते तपसि कर्मविपक्षे तदसम्भवस्याभावात् । तत्प्रभावादेव तृष्णाया अपि स्थित्यभावे तद्द्बलेन पुनः कर्मोत्पत्तेरसम्भवात् तृष्णापहारादपरस्य च कर्मक्षयपरिश्रमस्यानभ्युपगमात् । न च कायपरितापरूपं तपः कारणं कर्मनिबर्हणस्य अपि तु ३० उक्त तपः परिबृंहणस्यैव ।
१ – स्याप्रकर्ष - श्रा०, ब०, प० । २-च्च जीवानां तृष्णायां पु- आ०, ब०, प० । “च तृष्णायां स्थितायां पुन - " प्र० वा० । ३ संवर- रूपतपः परिवर्धनस्यैव कारणमित्यर्थः । उक्तं तपः- ता० टि० । ४ धर्मकीर्तेः ।
४३
२५