________________
३३६ न्यायविनिश्चयविवरणे
[३३५४ विवेकज्ञानान्तरात्तद्रूपवत्प्रतिभासनपरिकल्पनायामनवस्थापत्तेः । अपि च
मिथ्याज्ञानाद् विवेकश्चत् स्वभावो जीववस्तुनः । कथं स्ववेदिनस्तस्य तत्राज्ञानं प्रवर्तताम् ॥१८१९।। अस्वसंवेदने तस्य परसंवेदनात्ययात् । कथं भोगोऽवकल्प्येत संसारी यदसो भवेत् ॥१८२०॥ तस्मान्निरंशरूपस्य तस्य स्वग्रहणात्मनः ।
तद्विवेकाग्रहाभावान्मिथ्याज्ञानमयुक्तिमत् ॥१८२१॥ ततो यदुक्तम्
"सर्पहारादिभावानामबुद्धा रशना यथा। कारणं जगतस्तद्वदबुद्धं तत्त्वमेव हि॥ भान्ति रज्वामसन्तोऽपि सर्पहारादयो यथा।
चिद्धातोस्तद्वदाकाराः स्वरूपस्याग्रहादमी ॥"[ ] इति । तत्प्रतिविहितम्; स्वरूपस्याग्रहात् सिद्धत्वात् । स्यान्मतम्-नैकान्ततस्तस्य स्वाग्रहः कथञ्चिदेव तद्भावात्, ततो मिथ्याज्ञानविवेकस्याग्रहणेऽपि भेदादिरूपस्य ग्रहणाद्भोगोपपत्ते१५ रुपपन्नमेव संसारित्वमिति; तर्हि सिद्धं तद्विवेकापरिज्ञानस्य सत्कृतस्यापि कुतश्चिन्निवर्तनम्,
अन्यथा जीवस्य निःश्रेयसाभावापत्तेः, तद्वदास्रवादेरपि स्यादविशेषात् । ततो युक्तम्आत्मन्यास्रवादिसत्कारपुरस्सरमेव निःश्रेयसाथिनस्तदपाये' प्रवर्तनम्, अन्यथा तदनुपपत्तेः ।
- अत्र चोद्यम्-'कर्मक्षयान्मोक्षः' इति मतं तदनुपपन्नम्, कर्मणां विपक्षासम्भवेन क्षयस्याभावात् । अशक्यक्रियश्च तत्परिक्षयः, तृष्णायां तद्धतौ पुनरपि तेषामुत्पत्तेः । अथ कर्म२० वत्तृष्णाया अपि कुतश्चित् परिक्षयः, तहि स एवास्तु व्यर्थः कर्मक्षये परिश्रमः, तृष्णापरिक्षये
हि सतामपि कर्मणामकिञ्चित्करत्वेन संसारानुत्पत्तेः । कथं पुनः कर्मणामविपक्षत्वं यावता कायपरिक्लेशरूपं तप एव तेषां विपक्ष इति चेत् न; ततोऽप्येकरूपात् विचित्रशक्तीनां कर्मणां परिक्षयायोगात् । अवगतं हि विचित्रशक्तित्वं कर्मणां फलवैचिन्यदर्शनात् अन्यथा तदयोगात् ।
ततो भवन्नपि तपसा कर्ममलस्य प्रतिरोधः तज्जातीयस्यैव स्यान्न विजातीयस्य। २५
स्यादयमाशयः-तपस एव शक्त्या कर्मशक्तयः सङकीर्णाः क्रियन्ते परिक्षीणा वा, ततो निःशेषस्यापि कर्ममलस्याक्लेशात् तपोलेशतोऽपि चैकरोमोत्पाटनादिलक्षणात् परिक्षयो भवतीति; भवत्ययं शोभनो यदि तत्तपः क्लेशादर्थान्तरम् । तथा चेद्व्यर्थस्तहि 'तप्तवनशिलारोहणादिपरिक्लेशः तदन्यतस्तपस एव कर्मक्षयोपपत्तेः । क्लेशादव्यतिरिक्तमेव तप इति
चेत् ; न तर्हि ततः कर्मशक्तीनां सङ्करादिः तस्य कर्मफलत्वेन ततस्तदसम्भवादिति । तत्राह३०
तत्त्वज्ञानप्रभावेण तपःसंवरणं नृणाम् ॥ इति । तत्त्वं जीवादिः तस्य ज्ञानं याथात्म्यनिर्णयस्तस्य प्रभावो भावनया प्रकर्षगमनं तेन यत् संवरणं बाह्याभ्यन्तरशुभाशुभरूपव्यापाराणां निवारणम् औदासीन्यापरनामधेयं तदेव तपः, तस्याल्पसत्त्वपुरुषापेक्षया तापत्वेन प्रतिभासनात्, तच्च मृणां मनुष्याणां न तिर्यग्जीवा
दीनां भव्यानामपि तेषां तदसम्भवात् । तदेव च तपो विपक्षः कर्मणां तन्निदानप्रत्यनी३५ कत्वात् । यो यन्निदानप्रत्यनीकः त तस्य विपक्षो यथा व्याधिविशेषनिदानवातादिप्रत्यनीकः
१ तदुपा-श्रा०, ब०, प० । श्रास्त्रवादिनाशे। २ कथं क-पा०, ब०, प०। ३-ये स-ता। ४"तपोवन इति पा०"-ता०टि०।५-नाच प्रा०, ब०, ५०।