________________
३१५३]
३ प्रवचनप्रस्ताव
३३५
अहं ममास्रवो बन्धः संवरो निर्जरा क्षयः।
कर्मणामिति सत्कृत्य प्रेक्षाकारी समीहते ॥५३॥ इति । समीहते संसारविनिवृत्ति प्रति यतते । कः ? प्रेक्षाकारी विचारकरणशीलः । कथं समीहते ? सत्कृत्य सादरं निश्चित्य । निश्चयप्रकारं च 'अहम्' इत्यादिना दर्शयति । प्रत्येकमत्र इति शब्दस्य सम्बन्धो मम शब्दस्य चास्रवादिभिः । अहमिति, ममास्रव इति, मम ५ बन्ध इति. मम संवर इति, मम कर्मणां निर्जरेति, मम तेषां क्षय इति च । तत्रात्मानमहमिति निद्दिशति अहम्प्रत्ययवेद्यत्वात् । तस्यासत्कारे कस्य संसारो मोक्षो वा ? को वा तदुपाये . प्रवर्तेत ? क्षणक्षीणचित्तप्रवाहस्य प्रतिक्षेपात् । तथा तस्यास्रवोऽपि कायवाङमनकर्मलक्षणः सत्कर्त्तव्य एव, तदभावे बन्धनिवर्त्तनाय समीहानुपपत्तेः । सत्कृते हि बन्धकारणे तस्मिन् तस्य तत्प्रत्यनीकानुष्ठानेन निवर्त्तने निवर्तितो भवति बन्धो नान्यथा, कारणानिवर्त्तने कार्यनिवृत्ते- १० रनुपपत्तेः।
'तन्निवर्तनाय प्रकृतिरेव समीहते नात्मा बन्धतत्कारणयोरपि तत्रैव भावादिति चेत् ; न; "कैवल्यार्थ प्रवृत्तेश्च" [सांख्यका० १७ ] इत्यनेनात्मन्येव तत्प्रतिपादनात्, अन्यथा तत आत्मव्यवस्थापनानुपपत्तेः। न हि अन्यव्यापारादन्यव्यवस्थापनमतिप्रसङ्गात् । नापि तत्रौपचारिकी समीहा; ततः परमार्थतः आत्मसिद्धरसम्भवात् । अन्यतस्तथा तत्सम्भवे १५ तत्प्रतिपादनवैयर्थ्यात् । प्रकृतिगतमेव बन्धं निवर्तयितु प्रवृत्तिरपि तस्येति चेत् तदनिवर्त्तने 'किं तस्य स्यात् ? अन्यथा मुक्तवत्प्रवृत्तेरयोगात् । दुःखप्राप्तिरिति चेत् ; सिद्धस्तहि बन्धादे. स्तत्रैव सत्कारो भावान्तरसत्कृतात्ततस्तस्य तत्प्राप्तेरयोगात् । सापि विभ्रमादेव न तत्त्वत इति चेत् ; न; आत्मनि 'तदभावात् । सोऽपि विभ्रमादेवेति चेत् ; न; तस्याप्यात्मन्यभावात् । सोऽपि विभ्रमादेवेति चेत् ; न; अनवस्थाप्रसङ्गात् । तात्त्विक एव तत्र विभ्रम २० इति चेत् नः तस्य नित्यत्वे निर्मोक्षभावप्रसङ्गात् । अनित्यत्वे तु सिद्धस्तत्रैव बन्धादेः सत्कारः तदभावे विभ्रमानुपपत्तेः । तथा कर्मनिर्जरापरिक्षययोरपि तदेकदेशसकलविश्लेषलक्षणयोः, अन्यथा तदुपाये संवरे तस्याप्रवृत्तेः। नहि प्रेक्षावतः कस्यचित् परपरिशुद्धये स्वशरीरप्रक्षालनमुपलब्धम् । कथं पुनरास्रवादेः "सत्कर्तव्यत्वे कुतश्चिद् विनिवर्तनं सत्कृतस्य तदयोगात् आत्मवत् । अस्ति च विनिवर्त्तनं तस्य अन्यथा तन्निबन्धनस्य संसारस्याप्य- २५ निवृत्त्या निःश्रेयसाभावापत्तेः। अतो रज्जुसर्यादिवत् असन्नेवास्रवादिरिति चेत्; असतः कुतस्तस्य प्रत्यवभासनम् ? आत्मन इति चेत् ; न; तस्य तत्त्ववेदित्वेन तदनुपपत्तेः, रज्जुतत्त्ववेदिनस्तत्र सर्पप्रतिभासस्यानक्लोकनात् । प्रसिद्धं च तस्य तत्त्ववेदित्वम्-"सत्यं ज्ञानमनन्तं ब्रह्म" [ तैत्ति० २।१।१] इत्यादेः श्रवणात् । तन्नात्मनस्तस्यावभासनम् । जीवत इति चेत्, न; तस्यापि तत्त्वज्ञानरूपत्वे तदनुपपत्तेः । मिथ्याज्ञानरूपत्वे तस्य तद्रूपं तत्प्रसवप्रबन्धश्च ३० यदि सन्नेव सन्नेवास्रवादिः तस्यैवास्रवादित्वात् । असन्नेवेति चेत्; कथमसौ जीवस्य ? असतस्तद्रूपत्वानुपपत्तेः। इत्थमेतत्, केवलमविवेकज्ञानादतद्रूपमपि तद्रूपमिव प्रतिभातीति चेत्, न; अविवेकज्ञानस्यापि तत्त्वतस्तद्रूपत्वे स एव प्रसङगः तात्त्विक एवास्रवादिरिति, तज्ज्ञानतत्प्रसवप्रवाहस्यैवास्रवादित्वात् । तस्याप्यतात्त्विकत्वे तद्रूपत्वाव्यवस्थितः । तस्याप्य
१ विचारेण करण-ता० । २-हप्रति-ता०। ३ सांख्यः प्राह । ४ तस्यैवेति प्रा०, ब०, प० । ५ किन्न स्यात् श्रा०, ब०, प०।६ पुरुष एव । ७ पुरुषस्य । ८ तदावा-श्रा०, ब०, प० । विभ्रमाभावात् । ९ विभ्रमोऽपि । १० 'तत्रैव सत्कारः' इति सम्बन्धः । ११ तत्क-श्रा०, ब०, प० ।