________________
३३४ न्यायविनिश्चयविवरणे
[३३५२ लादावभावात् । ततो निषिद्धमेतत्"वेदे कर्तुरभावात्तदोषाशकैव नास्ति नः।” [
1 इति । असत्यपि कर्तरि दहनादिवत्तत्र तच्छङ्काया अनिवृत्तः, सदोष एव हि दहनादिरपौरुषेयोऽपि, अन्यथा ततो मिथ्याप्रतीतेरनुत्पत्तेः । किं पुनः तत् सत्यं यदभिधायित्वेन शब्दः सत्य उच्यते इत्यत्राह
सर्वार्थानामनेकात्मपरिणामौ व्यवस्थितौ ।
मार्गस्तद्विषयश्चेति मतं सत्यं चतुर्विधम् ॥५२॥ इति । ___ अनेकश्चासावात्मा च अनेकात्मा युगपद्भावी नानारूपो वस्तुस्वभावः, स च परिणामश्च प्राच्याकारपरित्यागाजहद्वत्तोत्तराकारोपादानलक्षणो विवर्त्तस्तावनेकात्म
परिणामौ द्वौ सत्यौ, तौ च सर्वेषामेव जीवादीनामर्थादीनां व्यवस्थितौ तद्विकलानामवस्तु१० त्वापादनात् । तत्रानेकात्मनः प्रागुपादानम्, परिणाम प्रति तस्य साधनत्वात् । प्रतिपादितं
हि विप्रतिपन्नं प्रति तस्य तत्साधनत्वमवश्याभ्युपगमत्वञ्च अन्यथा निष्कलस्याऽप्रतिपत्तेः सर्वाभावप्रसङ्ग इति । तथा मार्गो निःश्रेयसप्राप्त्युपायः, स च सम्यग्दर्शनादिविकल्पत्रयात्मक एव एकशस्तस्य तदनुपायत्वात् । न हि सम्यग्दर्शनस्यैव तदुपायत्वं सम्यग्ज्ञानाभावे तत्त्वार्थ
विषयस्य तदभिनिवेशलक्षणस्य तस्यैवासम्भवात् । नापि तद्विशिष्टस्य तत्त्वार्थाधिगम१५ लक्षण'सम्यग्ज्ञानस्यैव तत्कारणत्वमुपपन्नम्, उत्पन्नतत्त्वज्ञानस्यापि शरीरेन्द्रियादिसम्बन्धा
परिच्युतेः, अन्यथा न कस्यचिदप्युपदेष्टुत्वं प्रत्युत्पन्नतत्त्वज्ञानस्य शरीरपातेन तदनुपपत्तेः । अपरिपतितशरीरस्यापि तत्त्वपरिज्ञानाभावात् । एवं च निर्विषयैवेयं श्रुतिः स्यात्''आचार्यवान् पुरुषो वेद" [छान्दो० ६।१४।२ ] इति । आत्मविषयश्च सम्यग्दर्शनाद्यभ्यासो
विफल: स्यात्, अनुपसम्पृक्ततदभ्यासादपि “तत्त्वमसि' [छान्दो० ६।८।७] इत्यादि वाक्य२० सामोपनीतादात्मज्ञानादात्मनोऽपि निःश्रेयसोपपत्तेः।
कश्चिदाह-"निश्चितेऽपि वस्तुनि विपर्ययानुवृत्तिरुपलभ्यते यथा चन्द्रादौ द्वित्वादिः, तद्वदागमप्रामाण्यानिणों तेऽप्यात्मनि नित्यशुद्धादिरूपेण विपर्ययोपश्लेषसंभवात् तन्निवृत्तिपरस्तदर्शनाद्यभ्यासः "आत्माऽयं द्रष्टव्यः" [ वृहदा० २।४।५] इति, इत्यादिना वेद्यमानो न वैफल्यदोषाय कल्पते।" [
] इति; तत्प्रतिषिद्धम् ; न तत्त्वज्ञान२५ मेवादरोपाधिकं निःश्रेयसनिमित्तम्, अपि तु चारित्रसव्यपेक्षमिति । आत्मादितत्त्वाभ्यास
स्यैव चारित्रतयाऽस्माभिरभ्यनुज्ञानात् । ततः समुदित एव सम्यग्दर्शनादिनिःश्रेयसस्याङ्गम्, अन्यतमापायेऽपि तदनुपपत्तेः। अत एव सूत्रे “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" [ त० सू० १।१] इति समुदायरूपेण सम्यग्दर्शनादेरेकीभूतस्य निःश्रेयसनिमित्तत्वनिवेदनार्थमुत्तरपदमेकवचनान्तमेवोपर्शितम् ।।
तस्य मार्गस्य विषयो गोचरस्तद्विषयः। स च सप्तधा-"जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ।" [त. सू० १।४] इति सूत्रात् । तस्य च तद्विषयत्वं श्रद्धेयत्वादिना न प्राप्यत्वेन, 'ततो मोक्षस्यैव तत्त्वात् । चशब्दः समुच्चये । ताविमौ द्वौ सत्यौ प्राच्यावुभौ इति एवं मतमभ्युपगतं सत्यं चतुविधं चतुःप्रकारं सर्वस्यापि सत्यस्यात्रैवान्तर्भावात् । तत'
एतत्सत्यचतुष्टयप्रतिपादनात् प्रवचनं सत्यमवगन्तव्यम्, जीवादीनां च मार्गविषयत्वप्रतिपादन३५ मपरिज्ञाततद्रूपस्य प्रेक्षावतो मोक्षार्थायाः प्रवृत्तेरनुपत्तेः । अत एव आह
१-णस्यैव स-ता० । २-ह सुनि-प्रा०, ब०, प० । ३-ये तद-प्रा०, ब०,प० । ४ प्राप्यदृष्ट्या। ५ तत एव तत्स-पा०, ब०, प० ।