________________
३॥५०-५१] ३ प्रवचनप्रस्तावः
३३३ भासिनः शब्दतत्त्वस्य प्रतिपत्तिः । नाप्यविभागावभासिनः शब्दतत्त्वस्य प्रतिपत्तिः; तस्यैवाप्रतिवेदनात् । ततस्तदप्रतिपत्तौ च कुतस्तत्र 'साक्षित्वमनुमानस्य यतः “स खलु" [
] इत्यादि सूक्तमवकल्प्येत । ततो न परपरिकल्पिता निरवयवनित्यस्फोटात्मानः पदवाक्यादयः शब्दाः, तेषां प्रत्यक्षानुमानाभ्यामिवागमादप्यनध्यवसायात् । तदागमस्य "साक्षात्कृतधर्माण ऋषयो बभूवुः" [निरुक्त० ११२० ] इत्यादेः प्रमाणान्तरप्रतिक्षिप्तार्थ- ५ तया प्रामाण्याभावात् । ततो वर्णा एव क्रमविशेषसम्बन्धोपाधयः शब्दाः तद्व्यतिरिक्तानां तेषामभावात् । एतदेवाह
- अभावादतिरेकिणाम् । इति । अतिरेकिणः पुद्गलस्कन्धपरिणामविशेषेभ्योऽर्थान्तरभूता नित्या वर्णपदादयस्तेषाम् । उक्तन्यायेन अभावात् तद्विशेषा एव ध्वनय इति । साम्प्रतं प्रकरणार्थमुपसंहृत्य दर्शयन्नादितः शब्दानामपौरुषेयत्वे दोषमावेदयति
वाचामपौरुषेयीणामाविर्भावो न युज्यते ॥५०॥ इति । वाचां वर्णात्मनां पदादिस्फोटात्मनां चापौरुषेयीणां नित्यानाम् , अनित्यानामपौरुषेयत्वायोगात् , आविर्भावो व्यक्तिर्न युज्यते न घटते । स्वतोऽनाविर्भावात् , सहकारिप्रतीक्षायाश्च तत्र प्रतिक्षेपात् । अतो ध्वनयो न तदात्मान इति शेषः । कथम् ? नियतं यथा १५ भवति तथा। नियतत्वं चात्र विप्लवविवेकेन स्वरूप एवावस्थानम् । विप्लवस्य वर्णेषु ह्रस्वदीर्घादेः पदेषु च वर्णक्रमस्य पुरुषप्रयत्नोपनीतनादाभेदनिबन्धत्वेन पुरुषनिरपेक्षत्वे शब्दस्यासम्भवात् । न च तथा कश्चिदपि चायमुपलभ्यते (?) ह्रस्वाद्युदात्तादिभेदोपरक्तस्यैव वर्णस्य वर्णक्रमोपसंपृक्तस्यैव पदस्य तत्क्रमाद्युपश्लिष्टस्यैव च वाक्यादेः प्रतीतिपथप्रस्थायिनः प्रत्यवलोकनात् । ततो नापौरुषेयस्य निरवयवात्मनः शब्दस्य वाचकत्वम् अप्रतीतेः । २०
पौरुषेयस्यापि वाचकत्वमभिमतवदनभिमतस्यापि किन्न स्यादिति चेत् ? अत्राह
सम्यगज्ञानाङ्कुशः सत्यः पुरुषार्थाभिधायकः।
इति [अत्रापौरुषेयत्वं जातु सिद्धमनर्थकम् ॥५१॥] इति । न हि सर्वोऽपि पौरुषेयः शब्दः पुरुषार्थस्य 'श्रेयस्तत्कारणस्याभिधायकोऽपि तु सत्यो २५ विप्रतिसारविकलः । न च सर्वोऽप्यसौ तद्विकल एव अपि तु सम्यक् ज्ञानाङकुशः सम्यग्ज्ञानं तत्प्रणेतुः पुरुषस्य तदर्थविषयं निरुपप्लवं ज्ञानं तदेवाङकुशो नियामको यस्य स एव, स चायमेव स्याद्वादामोघलाञ्छनो वचनप्रबन्धो नापरः, तत्प्रणेतृणां तज्ज्ञानाभावस्य निवेदनात्। न च वमपौरुषेयत्वमेव शब्दस्याविप्रतिसारतया नियामकमिति शक्यमुपपादयितुम् ; अपौ- - रुषेयस्यापि दहनादेर्नीलोत्पलादौ विपर्पयोपर्शितत्वेन विप्रतिसारप्रतिपत्तेः । एतदेवाह- ३० .
अत्रापौरुषेयत्वं जातुसिद्धमनर्थकम् । इति । अत्र दहनादौ यदपौरुषेयत्वं तद् जातु कदाचिन्नीलोत्पलादिसन्निधानवेलायां सिद्धं निर्णीतम् । कीदृशम् ? अनर्थकमविद्यमानार्थ तदुपदर्शितपीताद्याकारस्य वस्तुतो नीलोत्प. . . १ सापेक्षित्व-श्रा०, ब०, प० । २-त् नित्यत्वन्चात्र प्रा०, ब०, ५०, । ३-नीतध्वनिभेद-भा०, ब०, प० । ४-दपि नयन्नुपल-प्रा०, ब०, प०,। ५-निःश्रेयसस्तत्का-प्रा०, ब०, प० ।