________________
३३२ न्यायविनिश्चयविवरणे
[ ३५० स्यापि स्यादिति ; सत्यम्; इदमक्रमवर्णवादिनं प्रत्युत्तरं न स्याद्वादिनं प्रति, तेन वर्णस्य तत्त्वतः कथञ्चित्क्रमवत एवाभ्यनुज्ञानात् । तर्हि ज्ञानवत् स्यात्, ज्ञानस्याविभागस्यापि ग्राह्याद्याकारविभागोपप्लवकवलितस्यैव स्वार्थप्रतिपत्तये प्रतिग्रहात्; इत्यपि नोपपत्तिमत्;
तस्यापि 'ग्राह्यानुरागपराङमुखस्यैव नियतविषयनिर्णयनिबन्धनतया प्रथमप्रस्तावे व्यवस्था५ पनात् । तन्न क्रमोपप्लवकलुषिताया एव वाचोऽर्थप्रत्यायनमुपपन्नम्। अतो दुर्भाषितमिदम्
"भेदानुकाराज्ज्ञानस्य वाचश्चोपप्लवो ध्रुवः । क्रमोपसृष्टरूपा वाक् ज्ञानं ज्ञेयव्यपाश्रयम् ॥"
[वाक्यप० ११८७ ] "ज्ञेयेन न विना ज्ञान व्यवहारेऽवतिष्ठते ।
नालब्धक्रमया वाचा' कश्चिदर्थोऽभिधीयते ॥" [ ] इति । अपि च,
विप्लवाद्यदि शब्दस्य विवेकः प्रतिवेद्यते । विप्लवप्रतिभासस्य कथं तत्रावकल्पनम् ।।१८१३॥ न हि पीतविवेकेन शङखः प्रत्यवभाति यः । तत्र पीतभ्रमः क्वापि दृष्ट इष्टोऽपि वा बुधैः ॥१८१४।। नास्त्येव तद्विवेकस्य प्रतीतिर्यदि विप्लवात् । कथं तस्मादभिन्नस्य शब्दस्यापि प्रवेदनम् ॥१८१५।। शब्दस्य तद्विवेकाच्चेत् कथञ्चित् भेदभावतः । निविभागवचस्तत्त्वप्रतिज्ञा ते विलुप्यते ॥१८१६।। किञ्चाविभागसंवित्तौ विभागस्यापि वेदने । तात्त्विकत्वं विभागस्य किन्न स्यादविभागवत् ॥१८१७॥ अविभागेन बाधाच्चेत् विभागेनेतरस्य च ।
प्रतीतेन प्रतिक्षेपान्नोभयं तात्त्विकं भवेत् ।।१८१८॥ उभयातात्त्विकत्वे तु कुतो वाक्यप्रतिपत्तिः अतात्त्विकात्तदयोगादिति चेत् ? किमतः २५ कर्त्तव्यम् ? अविभागस्य शब्दरूपस्य तात्त्विकत्वमिति चेत्; विभागस्यैव कुतो न तक्रिय
ताम् ? अविभागाभावे ततो वाच्यप्रतिपत्तेरभावादिति चेत् ; तस्यापि तहि न तत्कर्त्तव्यं विभागाभावे ततोऽपि तत्प्रतिपत्तेरभावात् , “नालब्धक्रमया" इत्यादिना स्वयमेव तथाभिधानात् । मा वा भू दुभयस्यातात्त्विकत्वात् ततस्तत्प्रतिपत्तिः, तज्ज्ञानात्तु भवत्येव, कथमन्यथा उपप्लुतादपि वर्णभेदक्रमज्ञानादक्रमस्य शब्दतत्त्वस्य प्रतिपत्तिर्यत इदं सुभाषितं भवेत् ?
"असतश्चान्तराले यः शब्दो नास्तीति मन्यते । प्रतिपत्तुरशक्तिः सा ग्रहणोपाय एव सः ॥"
_ [वाक्यप० ११८६ ] इति । न चैवं शाब्दी तत्प्रतिपत्तिर्न भवति शब्दादनुत्पत्तेरिति ववतव्यम् ; ज्ञानादपि शब्दोपसंपृक्तादेव तत्प्रतीतेर्भावेन तत्र शाब्दव्यपदेशस्याविरोधात् । तन्न 'प्रत्यक्षे विभागाव
.१ ग्राह्यादिज्ञानं व्यवहारेऽवतिष्ठतेऽनुराग-प्रा०, ब०, प०। २-या वाचा कश्चिदर्थोऽभिधीयते इति प्र-प्रा०, ब०, प० । ३ उद्ध्ताविमौ-स्फोटसि० पृ० १६२।४-गतः श्रा०, ब०, ०।५प्रत्यक्षो वि-ता।