________________
३५० ]
F
३ प्रवचनप्रस्तावः
अर्थावगतये तस्मात्तद्व्यक्तिरभिवाञ्छिता ।
साचादिव्यक्तितः सिद्धा व्यक्त्या किं परया ततः ।। १८०७ ॥ सोऽर्थप्रत्ययकृन्नो चेत् कुत एतदशक्तितः । पश्चादपि न तत्कृत्स्यादिति तत्कल्पनं वृथा ॥ १८०८ ।। सङ्केतविरहाच्चेन्न सोऽर्थसंवित्तिकृन्मतः । प्रतीतिभावे सङ्केतः स एव न कुतो भवेत् ॥ १८०९ ॥ अव्यक्तत्वात्प्रतीतेश्च `न्नासौ सङकेत्यतेऽनया । तयैवासौ कथं तर्हि सिद्ध इत्यपि कथ्यताम् ॥१८१०॥ सिद्धत्वाय समर्थोऽसौ सङ्केतायैव नेत्ययम् ।
स्वरुच्या कल्पितो भेदो विद्वद्भयो नाभिरोच्यते ॥ १८११ ॥ आदावेव ततो व्यक्तौ सङकेतस्यापि सम्भवात् ।
अर्थप्रतीतेः व्यक्तिः सा विफलैवोत्तरोत्तरा ॥ १८१२॥
३३१
५
१०
अपि च, अयमन्त्यायां बुद्धाववधार्यमाणो न तावदखिलविपर्यासविकल एवावधार्यंते, परमर्षीणामेव तथा तदवधारणस्य तदन्येषां तैस्तत्सम्प्रदायस्य चोपगमात् । अत एवोक्तम्
"अपरदर्शित विषयास्तु परमर्षयः साक्षात्कृतधर्माणोऽव्याहतान्तः प्रकाशा विधूतविपर्यासं १५ वाक्तत्त्वं प्रतिपेदिरे प्रतिपादयामासुः प्रतिज्ञायते " [ स्फोटसि० पृ० १५४ ] इति । भवतु तत्रापि सविपर्यासस्यैव तस्यावधारणं संवेदनवत् । यथैव हि संवेदनस्याविभागस्याप्याबोधिमार्गावतारात् ग्राह्याद्याकारविभागविपर्यासोप रक्तस्यैव प्रकाशनमन्यथा तदनवलोकनात् तथा तादृशस्य शब्दात्मनोऽपि विभ्रमोपदर्शितगकारादिवर्णक्रमविपर्यासोपश्लेषिणा' गौरित्याकारेण प्रतिपत्तिः आपरमर्षिपदप्राप्तेः, अन्यथा तस्याप्यप्रतिवेदनात् । अत एवोक्तम्"ज्ञानस्येव च वाचोऽयं लोके ध्रुवमुपप्लवः ।"
[ स्फोटसि० पृ० १५० ]
१ - श्लेषेण गौ- आ०, ब०, प०, । २ - दः प्र - आ०, ब०, प० । ३ - टावलम्बन मिव आ०, ब०, प० । स्फोटबिम्बमिव-स्फोटसि० ।
इत्यपि नातीव चतुरस्रमुत्पश्यामः । एवं हीदमसङ्गतं स्यात् - " पश्चिमस्तु पुरस्तनध्वनिनिबन्धनाव्यक्तपरिच्छेद' प्रभावितसकलभावनाबीजसहकारी परिस्फुटतर विनिविष्टस्फोट' लम्बमेव प्रत्ययमभिव्यक्ततरपरिच्छेदमुद्भावयति ।" [ स्फोटसि० पृ० १३० ] इति ; २५ विपर्यासोपश्लिष्टतत्प्रत्ययस्याभिव्यक्ततरपरिच्छेदत्वानुपपत्तेः । न हि पीतादिविप्लवोपालिङगितशङ्खादिप्रत्ययस्य तत्परिच्छेदत्वं प्रतियन्ति प्रेक्षावन्तः, तदन्यतत्प्रत्ययस्यैव तैस्तत्प्रतिपत्तेः । तदयमभिव्यक्ततरप्रत्ययत्वं तस्याभिधाय पुनर्वप्लवोपश्लिष्टप्रत्ययगोचरतयाऽन्यथात्वमप्याचक्षाण: स्वोक्तमपि न प्रत्याकलयति इति कथन्नाम मण्डनः पण्डितगोष्ठ्यां पाण्डित्यरूढि दृढमुद्रोढुं परिवृढतामुपढौकेत ? कथं चासौ शब्दो भेदरूपविपर्या- ३० सोपरक्तप्रतिभास एवार्थप्रतिपत्तये प्रेक्षावद्भिराद्रियेत ? न हि सर्पोपप्लवप्रत्ययविषयभावमनुभवन्त्येव रज्जुर्बन्धन कार्याय कैरप्युपादीयमानोपलभ्यते, विनिवृत्ततदुपप्लवप्रतिभासाया एव तस्यास्तदर्थमुपादानोपलम्भनात् । वर्णवत्स्यादिति च ेत्; स्यान्मतं यथा वर्णवादिना वर्णस्याक्रमस्याप्यनेकक्षणक्रमालिङ गितप्रतिभासगोचरस्यैव तदर्थप्रतिपत्तये प्रत्यवेक्षणम्, एवं शब्द
२०