________________
३३० न्यायविनिश्चयविवरणे
[३५० वत्तिन्योः, धारेति राधेति च प्रवाह-नक्षत्रविशेषयो: 'तदतत्क्रमाधिष्ठानतया तद्वर्णानामेव तद्भावभेदप्रतिपत्तेः प्रतीयमानत्वात् । एकवक्तृकत्वं तु तेषां तद्भावनिमित्तमिति नायं नियमः भिन्नवक्तकत्वेऽपि तत्क्रमभावे पदभावेन प्रत्यायकत्वप्रतिपत्तेः । प्रतीयते हि भिन्न
वक्तकपूर्वापर भागादपि पद्यादेस्तच्छाविणां तदर्थप्रतिपत्तिः । वर्णानां पदत्वे कथम शब्दादर्थ ५ प्रतिपद्यामहे' 'इति ? कथञ्च न स्यात् ? तेषां बहुत्वेन तद्वाचिनः शब्दशब्दाद् बहुवचनस्यैवोपपत्तेरिति चेत् ; न; तत्साधारणस्य वाचकत्वसामान्यस्य तदभिधेयत्वात्, तस्य चैकत्वेनैकवचनस्यैवावकाशात् । यद्येवं कथम् ‘गकारौकारविसर्जनीयाः शब्दः' इति तद्व्यक्तिवाचिभिस्तस्य सामानाधिकरण्यं तदव्यक्तीनां तेनानभिधानादिति चेत? न:
उपसर्जनभावेन तासामपि तेन प्रत्यायनात्, अन्यथा तत्सामान्यस्य तेन तदनुपपत्तेः, तद्व्यक्ति१० सङख्यानुपादानं तु मुख्यतस्तत्सामान्यस्यैव तेनावद्योतनात् । ततो ‘युक्तम् 'शब्दादर्थ प्रतिपद्यामहे' इति, न 'अनुपाश्रितव्यावृत्तयो व्यक्तयो जात्यात्मना"; निषेधात् ।
अपि च, अयं पदादिस्फोटात्मा शब्दो नित्यो निरवयवश्च त्वदभिप्रेतः; ० स यदि स्वत एवेन्द्रियसम्प्रयोगात् प्रतीतिप्रेयसीसम्पर्कमुपसर्पति पौरुषेयः प्रयासो विफल: स्यात् ।
न विफलस्तस्य तदभिव्यक्तिनिबन्धनत्वात् । स खलु प्रयासः परापरसमयभावी प्रयत्नापरनामा १५ तादृशमेवानेकध्वनिभेदमाविर्भावयति, ततश्च तस्याभिव्यक्तिः । सापि नावयवंशो निरवयव
त्वात् । नापि प्रथमत एव नादात् तस्य सर्वात्मनाऽभिव्यक्तः नादान्तरकल्पनावैफल्यम् ; अभिव्यक्तिविशेषोपपत्तेः । अपरिस्फुटा हि तस्य प्रथमान्नादादभिव्यक्तिः, तदुपजनितभावनासहायात्तु द्वितीयस्मात्ततो विलक्षणा, तावदेवं यावदन्त्यो ध्वनिः, ततस्तु प्राक्तननिरवशेष
ध्वनिविशेषोपजनितप्रत्ययोपनिबद्धभावनानिवहसचिवसद्वितीयाद् अत्यन्तपरिस्फुटतमा तदभि२० व्यक्तिराविर्भाव बित्ति । न च तावता तस्य प्रत्यभिव्यक्ति भेदः; आवृत्त्या भेदेऽप्यनुवाकादेरिवोपलब्धिभेदेऽपि तस्यैकतयैव प्रत्यवभासनात् । उक्तं चैतत्
"यथानुवाकः१ श्लोको वा सोढत्वमुपगच्छति। आवृत्त्या न तु स ग्रन्थः प्रत्यावृत्ति निरूप्यते ॥ प्रत्ययरनुपाख्येयैर्ग्रहणानुगुणस्तथा।। ध्वनिप्रकाशिते शब्दे स्वरूपमवधार्यते ॥
नादै राहितबीजायामन्त्येन ध्वनिना सह । ___ आवृत्तिपरिपाकायां बद्धौ शब्दोऽवभासते ॥"
[ वाक्यप० १।८३-८५] इति चेत् ; उच्यते
१२स व्यक्तः प्रथमान्नादादर्थप्रत्ययकृद्यदि ।
व्यर्थः परापरो नादस्तद्व्यक्त्यै परिकल्पितः ।।१८०६।। १ पूर्वापरविपर्यस्तवर्णरूपेण प्रतीयमानतयां। २ तदभाव-श्रा०, ब०, ५०। ३-भाविप -श्रा०, ब०, प०। ४-दनर्थ श्रा०, ब०, प०। ५'प्रयोगः' इति सम्बन्धः। ६ वर्णवाचिनः । ७ “अथ गौरित्यत्र कः शब्दः ? गकारौकारविसर्जनीया इति भगवानुपवर्षः"-शाबरभा० ११०५। ८ यदुक्तं श्रा०, ब०, प० । 'इति युक्तम्' इति सम्बन्धः । "न चानुपाश्रितव्यावृत्तयो व्यक्तयो जात्यात्मना निर्दिश्यन्त इति साम्प्रतम्' -स्फोटसि० पृ० ७४ । १० 'नित्यत्वमविकल्प्यं तु सत्वादेवास्य जातिवत् ।" -स्फोटसि० का० ३४ । ११ अनुवाको वैदिकः, श्लोकस्तु लौकिकः, सोढत्वं जितत्वं वशतामिति यावत् । १२ सम्बक्त्वः प्रा०, ब०, प० ।