________________
३१५०] ३ प्रवचनप्रस्ताव:
३२९ वर्णास्तत्समुदायो वा" [स्फोटसि० पृ० २८] इति मण्डनः; सोऽपि न स्फोटमण्डने पण्डितः; वर्णानामेव क्रमविशेषाधिष्ठानानां पदत्वेन प्रत्यायकत्वोपपत्तेः पदान्तरकल्पनावैफल्यात् । तेषामितरेतरकालपरिहारवतां कथमेकस्यां प्रत्यायनक्रियायामुपयोगः सहकारित्वानुपपत्तेरिति चेत; इतरेतरदेशपरिहारवतां कर्मकादिकारकाणामपि कथं क्वचिदेकत्र कार्ये व्यापारः ? एककालगतत्वादिति चेत् ; वर्णानामप्येकबुद्धिगतत्वादिति किन्न स्यात् ? नहि प्रतिवर्ण ५ तद्बुद्धिभेदः कारकेष्वपि तद्वत्तदर्थभेदेन युगपदप्यनेकतत्प्रतिपत्तेरभावापत्तेः । न च तदभ्युपगमो न्याय्यः प्रतीतिविरोधात् । ततो युगपद्भाविना कारकाणामिव क्रमभुवां वर्णानामप्येकस्यां बुद्धौ विषयभावेनोपनिपातादुपपन्न एव तेषामेकत्र विषयप्रत्यायने व्यापारः। ततो यदुक्तम्-"इदं तावदयं वर्णवादी प्रष्टव्यः गौरश्व इति वा केवलोच्चारणे वा को विसर्जनीयस्य भेदो यत्कृतोऽर्थधीभेदः, प्रत्ययभावाभावौ च ? नन्वेवं विशेषः क्वचिदसहायः क्वचिद्वर्ण- १० विशेषसहाय इति । क्व पुनरत्र सहायता यदा विसर्जनीयसमयेन वर्णान्तरोपलब्धिरस्ति । कार्ये खलु व्यापारवतः सहायता, न चासतस्तदा' व्यापतिरस्ति।" [स्फोटसि० पृ० ३३] इति ; तत्प्रतिविहितम् ; विसर्जनीयसमये गकारादीनामभावेऽपि स्वसमये भावेन सत्सहायतोपपत्तेः, अन्यथा दण्डादीनामनधिगतचक्रदेशानां तत्सहायत्वाभावप्रसङ्गात् , तदानीमसतामिव तत्रासतामपि व्यापारानुपपत्तेः ।
दण्डाद्यभिन्नदेशा अप्येकं चेत् कर्म कुर्वते । भिन्नकालाः कथं तद्वद्वर्णा अपि न कुर्वते ॥१८०३॥ सर्वत्रैवं प्रसङ्गश्चेत्कालभेदाविशेषतः । भवेदेवं यदा न स्यात् प्रत्यासत्तिनियामिका ॥१८०४॥ अन्यथा देशभेदेऽपि कार्यकारित्वमिच्छतः ।
वादिनोऽप्येष दोषः किं मूर्धानं नाधिरोहति ॥१८०५॥ प्रत्यासत्तिश्च प्रतिपादितव। क्रमविशेषाधिष्ठानत्वे सत्येकबोधोपारोहितत्वमिति । न चे दमप्यत्र चोद्यम्-अक्रमो हि बोधः कथं तदुपारोहिणां वर्णानां क्रम इति ? 'कथं न हि तदुपारोहित्वं नाम तेषां तदनुप्रवेशः अपि तु तद्विषयत्वम्, तच्च अतत्कालानामप्यतद्देशानामिव सम्भवतीति क्रमानुपद्रवात् । निवेदितं च तत् “यदा यत्र” इत्यादिना' तत इदं २५ प्रत्याख्यातम्-"न चैकं प्रत्याख्यानं (प्रख्यान) नानावर्णावयवात्मनि पदे भिन्नम् अवध्यवधिमद्भावमवेक्षिक्षमते।" [स्फोटसि. पृ०६८] इति ; देशकृतस्येव प्रासादस्तम्भेषु कालकृतस्यापि वर्णेषु पौर्वापर्यस्यावध्यवधिमद्भावस्यावेक्षणं प्रतिप्रख्यानस्यैकस्यापि प्रत्यभिज्ञानविकल्पस्य सामोपपादनात् । यदि वर्णा एव पदं तदा तेषामने कवक्तृकतया यौगपद्येऽपि . वर्णत्वस्याप्रच्युतेः किन्न पदत्वमिति चेत् ? न; क्रमवतामेव तेषां पदत्वेन सम्प्रदायात्, ३० तत्प्रधानत्वाच्चार्थप्रत्यायनस्य । क्रमान्तरपरिग्रहे 'तहि पदत्वम् अक्रमत्वाभावादिति चेत् ; न; तस्मिन्नर्थे तत्क्रमस्यैव पदभावाङ्गत्वात् । अर्थान्तरत्वे तु क्रमान्तरस्यापि तदङ्गत्वान्न निषेद्धयत एव, राकेति कारेति पौर्णमासी-बन्धनागारयोः, नादीति दीनेति नादवत्-कृच्छ
.
२०
१ तदानीं व्या-श्रा० । २ कथमिति पदमधिकं भाति। ३ न्यायवि० श्लो० १४२। ४ 'न चैकस्मिन् नानावर्णावयवात्मनि...-स्फोटसि० पृ०६८।५ प्रतिपक्ष्याख्यान-श्रा०, ब०, प०।६ तर्हि न पदत्वं क्र-प्रा०, ब०, प० । ७ निषिध्यत आ०, ब०, प० । 'पदत्वं न निषेध्यते' इति सम्बन्धः ।