________________
३२८
२०
न्यायविनिश्वयविवरणे
परिणामविशेषा हि भावानां भावशक्तयः ||४६|| ध्वनयस्तत्समर्थानाम् [अभावादतिरेकिण। म्] ।। इति ।
[3189-40
ध्वनयो वर्णादिरूपाः शब्दाः, सामान्यवचनादपि ध्वनिशब्दात् क्रमवशेन तेषामेव प्रतिपत्तेः । तेन नित्या नाप्यन्यहेतुकास्तत्र दोषाभिधानात् अपि तु परिणामविशेषाः परि५ णामाः श्रवणज्ञानयोग्या विवर्तास्त एवान्येभ्यश्छायातपादिपुद्गलविवर्तेभ्यो विशिष्यमाणत्वाद्विशेषास्ते च तद्विशेषाः । केषाम् ? तत्समर्थानां तत्र परिणामविशेषेषु ये समर्थास्तद्रूपावाप्तास्तेषाम् अतत्समर्थानां तदनुपपत्तेः । अहङ्कारस्यैव तर्हि ते तद्विशेषा भवन्तु शब्दतन्मात्रस्याहङ्कारिकत्वेन पारमर्षैः प्रतिज्ञानादिति च ेत्; न; तस्य चिद्रूपस्यामूर्तत्वेन मूर्त तद्विशेवासम्भवात् । अचिद्रूप एवाहङ्कारोऽप्यनित्यत्वात् कलशादिवदिति च ेत्; न; १० स्वतस्तत्र चिद्भावस्य प्रतिपत्तेः । चित्सम्पर्कोपनिबन्धना तत्र तत्प्रतिपत्तिर्न स्वतश्च तन्यादिति च ेत्; न; तत्सम्पर्केऽपि स्वयं तत्परिणामविकले तदयोगात् । अन्यथा परिणाम - विशेषेष्वपि तत्प्रसङ्गः तेषामपि व्यापिना चैतन्येन सम्पर्काविशेषात् । अहङकारे विशिष्टस्तत्संपर्क इति च ेत्; स ' कोऽपरोऽन्यत्र ताद्रूप्पादिति ? ततश्चिद्रूप एवाहङकारो निर्बाधात् तत्प्रत्ययात् । न चानुमानेन तस्य बाधः ; विषयानुभवे चिद्रूपेऽप्यनित्यत्वस्य भावेन व्यभि - १५ चारात् । सोऽप्यचिद्रूप एवेति चेत्; कथं तत्र चिद्व्यवहारो यतः इदमुच्येत - "बुद्धयध्यवसितमर्थ पुरुषश्चेतयते " [ ] इति । चिच्छायासक्रमादिति चेत्; तेन तर्हि व्यभिचारः चिद्रूपत्वेऽपि तस्यानित्यत्वात् । तत्रापि तत्सङक्रमान्तरात्ताद्रूप्यकल्पनायामनवस्थाप्रसङ्गत् । तन्नाहङ्कारविवर्त्तत्वं शब्दानामित्यपर्यालोचितवचनमेतत्“अभिमानोऽहङ्कारस्तस्मात् द्विविधः प्रवर्त्तते सर्गः । ऐन्द्रिय एकादश स्तन्मात्र पञ्चकश्चापि ॥"
[ सांख्यका० २४ ] इति ततस्तत्सामर्थ्य पुद्गलविशेषाणामेव तत्र तद्व्यवस्थापनात् । कुतः पुनस्तेषां तद्विशेषत्वमेव नैकान्तनित्यत्वादिकमिति चेत् ? उत्तरम् - 'भाव' इत्यादि । भावः स्वपरज्ञानादेः कार्यस्योत्पादः तत्र शक्तिर्येषां ते भावशक्तयः ध्वनयो हि यस्मात्ततस्ते तद्विशेषा एव नैकान्त२५ नित्यादयः तत्र तच्छक्तित्वायोगस्य निरूपणात् ।
परिणामविशेषोऽपि 'गौरश्वः' इत्यादौ कः शब्दो यत्रार्थप्रत्यायकत्वेन पदव्यपदेशः कप्येत ? पश्चाद्भावी विसर्जनीय इति चेत्; न; तस्य केवलस्याप्रत्यायकत्वात्, पूर्ववर्णानामपार्थकत्वापत्तेः । तर्हि तैः सम्भूय तस्य प्रत्यायकत्वमिति चेत्; न; नियतक्रमवत्तनां तेषां यौगपद्याभावेन सम्भूयकारित्वानुपपत्तेः । तदनन्तरोपलब्धिविशिष्टस्य तस्य प्रत्यायकत्व - ३० मित्यपि न प्रातीतिकम् ; केवलतदुपलब्धेस्तदनन्तरोपलब्धेश्च तत्काले वर्णाभावेन परस्परतो भेदानुपपत्तेः । नहि निरन्वयप्रध्वस्तानामनुत्पन्नानां च तदा तेषामभावः परस्परतो भिद्यते यतस्तदनन्तरोपलब्धिरर्थप्रतीतेरङ्गभावमनुभवतिं न केवलोपलब्धिरिति प्रतीमः । "तस्माद्वर्णव्यतिरेकी वर्णेभ्योऽसम्भवन्नर्थप्रत्ययः स्वनिमित्तमुपकल्पयति तदेव पदं स्फोटाख्यं न
१ सांख्यः प्राह । २ “भूतादेः तमोबाहुल्यात् गौणीभूतसत्त्वरजसः भूतादिनाम्नः पूर्वाचायैर्निरूपितादहङ्कारात् तन्मात्रः शब्दादिपञ्चको गणो जायते ।" - सांख्यका० २५ । माठरवृ० । ३ अहङ्कारस्य | ४ कोपिपरो - श्र० । ५-शेषेऽपि श्र० ।