________________
३।४९] ३ प्रवचनप्रस्तावः
३२७ प्रदीपवत् । 'तैजसं च तत् रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् तद्वदेव । ततो गोलकादभिसर्पतस्तत्कलापस्य विषयप्राप्तेः प्राप्यकार्येव चक्षुरिति चेत् ; अत्र यदि गोलकस्य स्वतो रूपप्रकाशकत्वं रश्मिकलापकल्पनस्य वैयर्थ्यम् । तत्कलापद्वारकमेव तस्य तदिति चेत्, कथं तदसिद्धौ तस्य तद्द्वारकं तत्प्रकाशकत्वम् ? तत्सिद्धिश्च यद्यन्यतः; तदेवोच्यतां कि तैजसत्वेन ? तैजसत्वादेवेति चेत् ; तर्हि तस्मात् तत्कलापसिद्धौ तवारकं तस्य रूपप्रकाश- ५ कत्वं ततोऽपि तैजसत्वं सिद्ध यतीति कथन्न परस्पराश्रयः स्यात् ? तन्न तत्कलापसिद्धिरिति न तद्द्वारकमपि चक्षुषः प्राप्यकारित्वम् । कथं वा प्राप्यकारित्वे तस्य व्यवहितविषयत्वं प्राप्त्यभावात् । दृश्यते च शुद्धस्फटिकघटीभित्ति व्यवहितस्यापि वस्तुनस्तेन प्रकाशनम् । - तस्यास्त्येव तेन प्राप्तिः तद्भित्तेनिर्भेदादित्यपि न सङ्गतम् ; तदन्तर्गतस्य जलादेर्बहिरवस्रंसनप्रसङगात् तच्छिद्रानुपलब्धेश्च । न तस्य तेन प्रकाशनं तत्प्रतिबिम्बस्यैव बहिरपक्रान्तस्य १० प्रकाशनादित्यपि मन्दमतेरेव स्पन्दितम् ; अन्तर्गतस्य बहिष्प्रतिबिम्बापक्रमानवलोकनात् । तस्मादप्राप्यकार्येव चक्षुः । तथा चोपपन्नं श्रोत्रस्य प्राप्यकारित्वे तस्य वैधर्योदाहरणत्वं साध्याव्यावृत्तिदोषाभावात् । ततः श्रोत्रं प्राप्यकार्येव उक्तान्न्यायात् । एतदेवाह
तेषां युक्ता हि श्रोत्रगोचराः। इति । तेषां शब्दभागानां मध्ये युक्ताः श्रोत्रेण सम्बद्धा हिरवधारणे श्रोत्रस्य गोचरा १५ विषया अन्यथा प्रत्यासन्नग्राहित्वाभावप्रसङ्गादिति मन्यते । किं पुनरिदं श्रोत्रेन्द्रियस्य प्राप्यकारित्वोपकल्पनम् ? आकाशमिति कश्चित्; तन्न; तस्य विभत्वेन दरभतानामपि शब्दानां प्राप्त्यविशेषेण ग्रहणप्रसङ्गात्, तस्यैकत्वेन सर्वेषामेकश्रोत्रत्वापत्त्या सर्वविषयस्यैकेन एकविषयस्य सर्वैरपि ग्रहणापत्तेश्च । न च तस्य प्रदेशवत्त्वं यतोऽदृष्टविशेषोपनिबद्धसंस्काराधिकरणस्य तत्प्रदेशस्य श्रोत्रत्वात्, तेन च दूरभूतानामप्राप्तेर्न प्रथमो दोषः, नापि द्वितीयस्तस्य प्रतिप्राणिभेदेन श्रोत्रनानात्वस्यैवोपपत्तेरिति व्यवस्थाद्वयं परिकल्प्येत; निष्प्रदेशस्यैव तस्याभ्युपगमात् । कल्पितस्य च तत्प्रदेशस्याकिञ्चित्करत्वात् । तदुक्तं कुमारिलेन
"आकाशश्रोत्रपक्षे तु विभुत्वात्प्राप्तितुल्यता। दूरभावेऽपि शब्दानामिति ज्ञानं प्रसज्यते ॥ श्रोत्रस्य चैवमेकत्वं सर्वप्राणभृतां भवेत् । तेनैकश्रुतिवेलायां शृणुयुः सर्व एव ते ॥ तस्यानवयवत्वाच्च न धर्माधर्मसंस्कृतः। नभोदेशो भवेच्छोत्रं व्यवस्थाद्वयसिद्धये ॥"
_ [ मी० श्लो० शब्दनि० ५६--५९ ] इति । ततः क्षयोपशमविशेषाधिकरणजीवप्रदेशावष्टब्धः कश्चिच्छरीरावयव एव श्रोत्रमिति : स्याद्वादिनः, तत्संस्पर्शेनैव शब्दस्य प्रत्यवभासनात् । शब्दावभासनं हीन्द्रियं श्रोत्रम् । तच्च तदवयव एव युक्तः, तत्सम्बन्धादेव तस्योपलम्भात् तदभावे च विपर्ययात् । तथा च 'पुद्गलपर्यायः शब्द: शरीरावयवसम्बन्धेनोपलभ्यमानत्वात् शीतातपादिवत्' इत्यनुमानविजृम्भणात् नाकाशगुणत्वं तस्य तद्वदेवेति प्रतिपादितं भवति । एतदेव दर्शयन्नाह
१ "तैजसत्वं तु तस्य रूपादिषु मध्ये नियमेन रूपस्यैवाभिव्यञ्जकत्वात् प्रदीपवत्'-प्रश० कन्द० पृ०४०। न्यायकुमु० पृ० ७६ टि०२।२ वैशेषिकः । ३ श्राकाशस्य ।