________________
३२६. न्यायविनिश्चयविवरणे
[१४९ पुनस्ते स्वयं भवन्तस्तदुन्नयस्य हेतव इति चेत् ? स्वहेतुभ्य एव। स्वहेतवश्च तेषामुपादानतया पुद्गलविशेषाः, सहकारितया च ताल्वादिस्थानप्रयत्नभेदास्तेभ्य एव। कथमेवमपि युगपत् समानानेकवर्णोत्पत्तिरिति चेत् ? यौगपद्येन बहुभिरुपलम्भादेव । न चायमेकत्वे वर्णस्य सम्भवति, एकश्रोत्रप्रविष्टस्य तदैव तदन्तरप्रवेशासम्भवात् । एकस्यापि व्यापिनः सम्भवत्येव युगपदनेकतत्प्रवेश इति चेत् ; न; तथापि समग्रस्य तदसम्भवात्, असमग्रोपलब्धस्य च वाचकत्वानुपपतेः । एतदेवाह- ..
सकलाग्रहणात् [तेषां युक्ता हि श्रोत्रगोचराः । इति। सकलस्य समग्रशब्दपरिणामस्य यद् अग्रहणम् एकत्वाभ्युपगमे प्राप्तं तस्मात् समानोन्नयहेतव एव त इति । यद्येवं कथमेक एव शब्दोऽस्माभिरधावीति तदुपलब्धिमतां १० संवाद इति चेत् ? न; सादृश्यादपि तदुपपत्तेः। दृश्यते हि ततोऽपि तथासंवाद:-यथैक
एवाहारः पङिक्तगतानामिति । ततो यगपत सकलाकारतया भिन्नदेशव्यवस्थितानेकप्रतिपत्तगोचरत्वादनेक एव शब्द।
श्रोत्रस्याप्राप्यकारित्वेनै कस्यापि शब्दस्य तथा तद्विषयत्वोपपत्तेः नातस्तन्नानात्वप्रतिपत्तिरिति च त् ; न; तत्प्राप्यकारित्वस्यानुमानतः प्रतिपत्तेः। प्राप्यकारि श्रोत्रं प्रत्यासन्न१५ ग्रहणात् साधयेण घ्राणवत्, वैधयेण नयनवत् । न चैवं दिग्विभागस्य दूरादिभावस्य
चाप्रतिपत्तिरेव; श्रोत्रं प्रति शब्दस्याभिपतनविशेषादेव प्राच्योऽयमुदीच्योऽयं प्रत्यासन्नोऽयमन्यथा वेति तत्र प्रतिपत्तेः सम्भवात्, प्राप्यकारिण्यपि घ्राणेन्द्रिये तत एव तद्भावात् । कथमन्यथा पिपीलिकादीनां गन्धाभिपतनदिगभिमुखतया प्रत्यासन्ने दूरे वा गन्धद्रव्ये प्रवृत्तिः ? एवं तहि दूरत्वस्यासत एव तत्र प्रतिभासनात् श्रोत्रज्ञानं कथमभ्रान्तमिति चेत् ? न; शब्दरूपस्य सत एव तत्र प्रत्यवभासनात् । भ्रान्तेतरात्मकत्वमेकत्र विरुद्धमिति चेत् न, दृष्टत्वात् । कथमन्यथा साकारज्ञानवादिनस्तवाप्ययं न दोषः-ज्ञानान्तर्गतत्वेनादूरस्यैव नीलादेर्दू रतया प्रत्यवभासनात् । न हि तद्विषयं ज्ञानमपि दूरमेव शरीरस्य निर्ज्ञानत्वापत्तेः। ज्ञानान्तरेण तस्य सज्ञानत्वमिति चेत् ; न; तस्य निर्विषयस्याभावात्, सविषयस्य पूर्ववद्
रत्वापत्तेः, पुनरपि ज्ञानान्तरेण तस्य सज्ञानत्वकल्पनायामव्यवस्थितिप्रसङ्गात् । तन्न शरीराद् २५ बहिनिकल्पनमुपपन्नं निःशरीरस्य ज्ञानस्याप्रतिवेदनात् । ततो दुष्परिहरमेवाप्राप्यकारि
थोत्रादिकं अवतोऽपि तज्ज्ञाने विभ्रमेतरात्मकत्वमिति न तेन वयं पर्यनुयोक्तव्याः । ततो युक्तं श्रोत्रस्य घ्राणादिवत् प्राप्यकारित्वम्, अन्यथा नयनादिवत् प्रत्यासन्नग्राहित्वाभावप्रसङ्गात् । अस्ति च तत्रेदम्-कोटकध्वानादेः कर्णविवरान्तर्वतिनोऽपि तेन प्रतिवेदनात् । न चैतदप्राप्यकारिणि चक्षुषि दृष्टं तदन्तर्गतस्याञ्जनादेस्तनाप्रतिपत्तेः । तथा च कस्यचित् । सुभाषितमपि “न स्वमलमक्षि पश्यति शशिनि कलङ्घ निरूपयिष्यति" [ ] इति ।
___चक्षुरपि प्राप्यकार्येव 'बाह्येन्द्रियत्वात् त्वगादिवदिति चेत् ; अत्र चक्षुर्यदि गोलकमेव न तर्हि तत्र प्राप्यकारित्वसाधनमुपपन्नम्, तत्पक्षस्य अनुष्णाग्निपक्षवत् प्रत्यक्षेण बाधनात्, विषयविप्रकृष्टस्यैव हि गोलकस्य प्रत्यक्षेण प्रवेदनं न तत्प्राप्तस्य । रश्मिद्वारेण तत्प्राप्तस्या, स्त्येव तस्यानुमानतः प्रतिपत्तिः । तच्चेदमन मानम्-रश्मिकलापालङकृतं चक्षुः तैजसत्वात्
.१ "चक्षु-श्रोत्रे प्राप्याथं परिच्छिन्दाते बालेन्द्रियत्वात् त्वगिन्द्रियवत्" -न्यायवा० ता० पृ० ७३ । न्यायकुमु.द्वि. पृ० ७५ टि. २।
२०