________________
३।४८ ]
३ प्रवचनप्रस्तावः
३२५
१०
क्षणिकत्वसाधनमुपपन्नम् । कथञ्चित् तत्साधनेन विरुद्धत्वादनैकान्तिकत्वाच्च । व्यभिचारि ही दमनुमानं भावनादिना, तस्यात्मगुणविशेषस्याक्षणिकत्वेऽप्यस्मदादिप्रत्यक्षत्वे सि विभुद्रव्यविशेषगुणत्वात् । न चायमपि क्षणिक एव कालान्तरे तदभावेन तत्फलस्यानुदयप्रसङ्गात् । न चैवम् । भावनाधर्माधर्माणां भवान्तरेऽपि फलदायित्वेन परस्यापि प्रसिद्धेः । नापि तत्र हेतुविशेषणम् 'अस्मदादिप्रत्यक्षत्वम्' असिद्धम् ; मानसेन प्रत्यक्षेणास्मदादि ५ भिरपि तस्य प्रत्यक्षीकरणात् । कथमन्यथा ‘यावान् कश्चिद् गुणः स सर्वोऽपि गुण्याश्रितः' इति साकल्येन व्याप्तिप्रतीतिः ? यतः “ द्रव्याश्रिता बुद्धयादयो गुणत्वात् रूपादिवत्" [ ] 'इत्यनुमानमुदयवदवबुद्धयेत यत आत्मसिद्धिः । यदि पुनरेवं विशेषणम् -'अस्मदादिबाह्येन्द्रियप्रत्यक्षत्वे सति' इति, न चैवं व्यभिचारो भावनादौ तदभावादिति; न तर्हि सुखादिवदिति निदर्शनमुपपन्नं साधनवैकल्यात्, तदपि तद्विशेषणकस्य विभुद्रव्यविशेषगुणत्वस्य तत्राभावात् । कुतो वा श्रोत्रस्य बाह्येन्द्रियत्वं यतस्तद्विषयस्य शब्दस्य बाह्येन्द्रियप्रत्यक्षत्वमवकल्प्येत ? अनन्तःशरीरवृत्तेरिति चेत्; न; कर्णशष्कुल्यवगुण्ठितत्वेन तदन्तर्वर्तिन एवाकाशस्य श्रोत्रत्वोपगमात् । आत्मना तस्या - संयोगादिति च ेत्; न तर्हि नयनादेर्बाह्येन्द्रियत्वं तत्र तत्संयोगभावात्, अन्यथा आत्मनोऽसर्वगतत्वप्रसङ्गो मूर्तैरपि नयनादिभिरनभिसम्बन्धात्, तत्सम्बन्धलक्षणत्वाच्च व्यापित्वस्य' । भवतु तर्हि मनोऽधिष्ठितत्वादेव नयनादेरिव श्रोत्रस्यापि बाह्येन्द्रियत्वमिति चेत्; तदधिष्ठाने को दोषो यतस्तत्परिकल्पनम् ? युगपद्ज्ञानोत्पत्तिरेव, रूपादीनां युगपदपि सन्नि - धानसम्भवादिति च ेत्; न; तदुत्पत्तिक्रमनियमस्यादृष्टवशादपि शक्यकल्पनत्वात्, सत्यपि मनसि तस्यावश्यापेक्षणीयत्वात्, अन्यथा सर्वकार्येषु तस्य साधारण हेतुत्वानुपपत्तेः । न चैवं मनस इव नयनादेरपि वैयर्थ्यम्; तस्य गोलकादिरूपस्य दृष्टत्वेनाशक्यप्रतिषेधत्वात् । शक्तिरूपस्य शक्य एव प्रतिषेधः, तत्प्रसवाभिमतस्य रूपादिज्ञानभेदस्यादृष्टभेदादेवोपपत्तेरिति चत्; यद्येवं प्रतिपद्यसे न किञ्चिदनिष्टं तद्भेदस्यैव क्षयोपशमविशेषापरनामधेयस्य साक्षान्नयनादित्वेनास्माभिरभिधानात् गोलकादेस्तदधिष्ठानतया गवाक्षस्थानीयस्यैवोपचारादेव रूपादिज्ञानहेतुत्वपरिकल्पनात् । ततः श्रोत्रस्य बाह्येन्द्रियत्वानुपपत्तेः अस्मदादिप्रत्यक्षत्वमेवावशिष्यत इति तदवस्थो व्यभिचारः तद्विशेषणस्य हेतोर्भावनादौ साध्य- २५ विपर्ययेऽपि भावात् ।
१५
३०
असिद्धश्चायं हेतुः विभुद्रव्यविशेषगुणत्वादिति, आकाशे तस्य तत्कार्य तया समवायाद्धि तद्गुणत्वम्, न चासौ तस्यास्ति अनुपरमप्रसङ्गात् । निरूपितं च तत्"कारणस्याक्षये" "इत्यादौ । एतेन सुखादेरप्यात्मकार्यत्वेन तद्विशेषगुणत्वं प्रतिषिद्धं बोद्धव्यम् । ततो नातः क्षणिकत्वप्रतिपत्तिः शब्दस्य असिद्धत्वात्, निदर्शनस्य साधनवैकल्याच्च । तन्न यौगमतेऽपि सम्भवः शब्दस्य । स्वमते तु तत्सम्भवं दर्शयन्नाह
शब्दभागाः स्वहेतुभ्यः समानोन्नयहेतवः || ४८ || इति ।
श्रोत्रग्रहणयोग्याः परिणामाः शब्दाः त एव प्रतिदिशमनेकरूपतया विभज्यमानत्वात् भागास्ते समानस्य सदृशस्य प्रतिश्रोत्रमात्मप्रापणस्य उन्नयस्य हेतव इति । कुतः
२०
१ “सुखादयः क्वचिदाश्रिता गुणत्वाद्रूपादिवत्" - प्रश० व्यो० पृ० ४०६ । २ सर्वमूर्तमद्रव्यसंयोगित्वं व्यम् । ३ श्रदृष्टस्य । ४ श्रदृष्टविशेषस्यैव । ५ न्यायवि० श्लो० १।१०६ । पृ० ४१० ।