________________
३२४ न्यायविनिश्चयविवरणे
[३।४७-४८ रूपं यदपि सत्तस्याः स्ववेदनमभीप्सितम् ।
न तस्य निर्विकल्पत्वात् शब्दकारणकार्यता ॥१८०१॥ तन्न शब्दस्यावस्तुसत्त्वे विकल्पसम्भवः यतस्तत्कल्पनमित्ययुक्तमिदम्-"विकल्पयोनयः शब्दाः" [
] इति । तन्न सौगतमते शब्दस्य सम्भवः, वर्ण५ स्यैवानवस्थितौ तत्क्रमात्मनः पदादेरप्यव्यवस्थितः । एतदेवाह
क्रमेणोच्चार्यमाणेषु ध्वनिभागेषु केषुचित् ॥४७॥
न वर्णपदवाक्याख्या अविकारेष्वसम्भवात् । इति । न हि सूक्ष्मसमयावसायितयोपजायमानेषु केषुचिन्नादरूपेष्ववयवेषु वर्णादिव्यपदेशा: सम्भवन्ति; तेषामेव निरन्वयविनश्वरतया चिकार विकलानां हेतुफलभावानधिश्रयतया १० व्योमारविन्दमकरन्दप्रख्यानामप्रख्याभूमित्वेन तत्र तत्त्वतः कल्पनया च वर्णादिव्यवस्थापनानुपपत्तेः ।
एतेनैतदपि प्रत्युक्तं यदुक्तं केनचित्'-"क्षणिकः शब्दः अस्मदादिप्रत्यक्षत्वे सति विभुद्रव्यविशेषगुणत्वात सुखादिवत् ।।
- 1 इति; तथा हि शब्दस्याप्रतिपत्तावाश्रयासिद्धिः लिङगस्य । प्रतिपत्तौ तत्र तस्य कारणत्वं वक्तव्यम् "अर्थवत् प्रमाणम्" १५ [ न्यायभा० १।१।१.] इत्यत्र कारण [त्व ] स्यैव विषयत्वव्याख्यानात् । तस्य च न
सहजन्मनस्तत्कारणत्वं तस्य तत्प्रतिपत्त्या युगपनिष्पन्न याऽनपेक्षणात्। न प्रागधिगतजन्मनोऽपि तदुत्पत्तिसमयमप्राप्य निवृत्तस्य ; 'अनधिगतजन्मनोऽपि तस्य तद्धेतुत्वप्रसङगात् । न हि किञ्चिदत्र निबन्धनं यदुत्पद्याभूतमेव कारणं नानुत्पद्याभूतमिति नीरूपत्वस्योभयत्राप्य
विशेषात् । ततस्तत्समयप्राप्तस्यैव तस्य' तत्कारणत्वम् । तथा च न क्षणिकत्वं प्रागिव २० पश्चादपि तस्य समयान्तरप्राप्तेरवश्यम्भावात्, अन्यथा प्रागपि तदभावोपनिपातात् ।
एतेन क्षणषट्कस्थायित्वं क्षणिकत्वमिति प्रत्युक्तम् । यत:
___ क्षणात् क्षणान्तरं गच्छन्नित्यो यद्युक्तमार्गतः।
क्षणषट्कक्रमस्थायी सुतरां नित्यतां व्रजेत् ॥१८०२॥ - कथमेवं चलत्वं कस्यचिच्छब्दस्य यदि तस्यापि समयान्तरप्राप्तिरावश्यकात्त२५ (वश्यिका त) दभाव एव तदुपपत्तेरिति चेत् ; न; तत्प्राप्तावनुपलभ्यत्वेनापि तदुपपत्तेः ।
न चोपलभ्येतरयोरेकत्वानुपपत्तिः; युगपदिव क्रमेणापि तदविरोधात् । अस्ति च युगपत्तयोरेकत्वम्, उपलभ्यस्यैव शब्दस्य क्षणक्षयात्मनाऽनुपलभ्यत्वात् । तेनाप्युपलभ्यत्वे प्रकृतस्यानुमानस्य वैफल्यात् । विप्रतिपत्तिनिवर्तनार्थत्वान्नेति चेत् ; कुतस्तस्य तदर्थत्वम् ? निश्चय
रूपत्वादिति चेत्, न; प्रत्यक्षस्यापि तद्रूपस्यैव भवतां प्रसिद्धः । तथापि तद्विषये विप्रति३० पत्तावनुमानविषयेऽपि स्यादिति पुनस्तन्निवर्तनार्थ प्रमाणमन्यदन्वेषणीयम्, तत्राप्येवमन
वस्थितेर्न कदाचिदपि तन्निवृत्तिर्भवेत् । ततोऽनुपलभ्यतद्रूपविज्ञानार्थत्वमेव तस्योपपन्नमिति सिद्धमुपलभ्येतरस्वभावयोरेकत्वं युगपत् । एवं कमेणापि श्रावणस्य तत्स्वभावपरिहारेण शब्दपरिणामिनो भावस्य पुनरवस्थितिसम्भवात् । तन्न प्रकृतादनुमानादेकान्ततः शब्दे
१ -रविकल्पानाम् श्रा०। २ वैशेषिकेण। ३ विभुद्रव्यमाकाशम् । ४ अनुत्पन्नस्यापि । .५शब्दस्य प्रतिपत्तिकारणत्वम् । ६ समयान्तरप्राप्यभावे एव चलत्वोपपत्तेः। ७ चलत्वोपफ्तेः । ८शब्दस्य लक्षण-श्रा० ।