________________
३।४७ ]
३ प्रवचनप्रस्तावः
३२३
शालाशब्दे सम्बन्धपरिज्ञानात् मालादिशब्दस्यापि तदर्थवाचकत्वम्, वर्णमात्रेण सादृश्येऽपि पदरूपतया तदभावात् । यदप्युक्तम्
५
" सादृश्यात् प्रतिपत्तौ च भ्रान्तिज्ञानं प्रसज्यते । धूमे दृष्टेऽग्निसम्बन्धे वाष्पादिव कृशानुधीः ॥” [ मी० श्लो० शब्दनि० श्लो० २६९ ] इति । तत्रोपपन्नं वाष्पादग्निज्ञानं भ्रान्तमिति धूमस्यैव तत्र प्रतिबन्धपरिज्ञानम्, तत्सादृश्यस्य शब्दस्य तु तदन्तरसदृशस्यैव तदर्थे तत्परिज्ञानात् । कुतस्ततः तज्ज्ञानस्य विभ्रमत्वम् ? अपि च, एवं धूमान्तरादपि दहनज्ञानं भ्रान्तं भवेत् तस्यापि सादृश्यादेव गमकत्वात् । सामान्यस्य तदर्थान्तरस्य प्रत्याख्यानात् । अप्रत्याख्यानेऽपि वाष्पादनलज्ञानं भवतोऽपि कुतो भ्रान्तम्, धूमसामान्यस्य तत्राभावादिति चेत् ? न; पाण्डुत्वादेर्भावात् । तद्विशेषस्याभावादिति १० चेत्; ममापि तर्हि सादृश्यविशेषाभावात् भवतु ततस्तज्ज्ञानं भ्रान्तम्, न तद्वतः शब्दात् तदर्थज्ञानमिति समः समाधिः । ततः सूक्तम् - ' तादृशो वाचकः' इत्यादि ।
भवतु तादृशस्य वाचकत्वं शब्दस्य मयापि तथा तदभ्युपगमादिति सौगतः; तन्न तन्मते शब्दस्यैवासम्भवात् । स हि पदादिरूपो न विना वर्णव्यवस्थितिमवस्थातुमर्हति । वर्णक्रमसन्दोहस्य पदत्वात् पदक्रमसङ्घस्य च वाक्यत्वात् । स च वर्णः क्षणक्षीणैकध्वनि - १५ स्वभावः, क्षणपर्यायप्रवृत्ताने कध्वनिरूपो वा प्रकारान्तरानिरूपणात् ? न तावदाद्यो विकल्पः ; अनभ्युपगमात्, क्रमप्रवृत्तासङख्येयध्वनिभागपरिनिष्ठितात्मा ह्येकैकोऽपि वर्णस्तस्याभिप्रेतः । तत्रासङख्येयक्षण निमेषपरिसमाप्तिरिति वार्तिके श्रवणात् । नापि द्वितीयो विकल्पः ; ध्वनिक्षणानां निरन्वयविनाशे हेतुफलभावानुपपत्त्या तन्निबन्धनस्य पौर्वापर्यस्यासम्भवात् । निरूपिता च तत्र तदनुपपत्तिः । सम्भवत्यपि तस्मिन् कथं बहुष्वेकव्यपदेशोऽयमकारो २० गकारो वेति ? तेष्वेकत्वस्य कल्पनात् तद्रूपत्वाच्च वर्णादेरिति चेत्; ननु कल्पनमपि शब्दादेव "विकल्पाः शब्दयोनयः" [ ] इति वचनात् । स शब्दो यदि स एवाकारादिः तर्हि 'विकल्पात्तस्य, ततो विकल्पस्य निष्पत्तिः' इति परस्पराश्रायात् नोभयस्यापि सम्भवः स्यात् । अथान्य एव स शब्दो यतो विकल्प इति; तन्न; तस्यापि तव एव कल्पने तथैव दोषात् । पुनरप्यन्यतः तत्कल्पितादेव शब्दात् तद्विकल्पपरि- २५ कल्पनायामितरेतराश्रयप्रवाहप्राप्तेः । विकल्पान्तरकल्पितात् ततस्तत्कल्पनमित्यपि न युक्तम् ; तदन्तरस्यापि स्वकल्पितादेव शब्दादपरापरस्मादुत्पत्तिपरिकल्पनायां पूर्ववद्दोषात्, तस्यापि तदन्तरकल्पितात् ततस्तत्परिकल्पनायामनवस्थाप्राप्तेः । नायं दोषो हेतुफलभावेनानादित्वात् शब्दाकारावभासिनो विकल्प प्रवाहस्येति चेत्; न; एवमपि तदसम्भवात् । तथा हिअवस्तुसन् यदा वर्णः तदा तत्कल्पनाकरी | बुद्धिस्तन्मात्ररूपत्वात्कथं वस्तुसती भवेत् ॥ १७९९॥ यतः शब्दस्य सा हेतुस्तस्याः शब्दोऽपि वा फलम् ।
न सत्कस्यचिद्धेतुः कार्यं वा व्योमपुष्पवत् ॥ १८००॥
१ " सर्वान्त्योऽपि हि वर्णात्मा निमेषतुलित स्थितिः । स च क्रमादनेकाणुसम्बन्धेन नितिष्ठति ॥ " - प्र० वा० २।४९५ । " स चाक्षिनिमेषकालस्थायी प्रकारादिः अनेकेषामाकाशतमः संशितानां पचममालाद्वयवर्तिनामणूनां सम्बन्धेनाक्रमणेन निमेषकालसंज्ञितेन क्रमाद् भूयः क्षणव्यवधानात् नितिष्ठति परिसमाप्यते ।" - मनोरथन० ।
३०