________________
29
[३४७
न्यायविनिश्चयविवरणे तेनासम्बन्ध' (म्बद्धय ) नष्टत्वात् पूर्वस्तावदनर्थकः। उत्तरोऽकृतसम्बन्धो विज्ञायतार्थवान् कथम् ॥"
[ मी० श्लो० शब्दनि० श्लो० २५५-२५६] ___निवेदितेन न्यायेन सङकेतकरणस्योत्तरशब्दार्थवत्परिज्ञानस्य च भावात् । लिङ्गेऽपि ५ विद्युदादावस्य प्रसङ्गाच्च । शक्यं हि तत्रापि वक्तुम्
लिङ्गं तावदनादर्य सम्बन्धकथनं कथम् । न च दर्शितनष्टस्य सम्बन्धन प्रयोजनम् ।।१७९५।। तेनासम्बन्ध्य (म्बद्धय)नष्टत्वात् पूर्व तावदनर्थकम् ।
परं चानुक्तसम्बन्धं विज्ञायेतार्थवत् कथम् ।।१७९६॥ इति । यदप्यन्यदुक्तम्
"अर्थवान् कतमः शब्दः श्रोतुर्वक्त्रा च कथ्यताम् । यदा पूर्व श्रुतं शब्दं नासौ शक्नोति भाषितुम् ॥ न तावदर्थवन्तं स ब्रवीति सदृशं वदेत् । नार्थवत्सदृशः शब्दः श्रोतुस्तत्रोपपद्यते ॥ अर्थवद्ग्रहणाभावात् न चासावर्यवान् स्वयम् ।”
[मी० श्लो० शब्दनि० २६०-६२] इति । तदपि तादृशमेव । तथा हि
अर्थवत् कतमल्लिङ्गं ज्ञातुर्वक्त्रा प्रदर्श्यताम् । पूर्व ज्ञातं यदा नासौ लिङ्ग दर्शयितु क्षमः ॥१७९७।। नार्थवद् दृश्यते तेन सदृशं दृश्यते यदि । नार्थवत् सदृशं लिङ्गं ज्ञातुस्तत्रोपपद्यते ॥१७९८।।
अर्थवद्ग्रहणाभावात् न स्वयं च दमर्थवत् । इति । ततो यथा लघुविनाशिन्यपि विद्युदादौ विकल्पावभासिनि सम्बन्धप्रतिपत्तौ परापरकालभाविनि तत्सदृशे सर्वत्रापि तत्प्रतिपत्तेः, पूर्वोपलब्धस्य अनुपदर्शनेऽपि परस्योपदर्य२५ मानस्य अर्थवत्त्वप्रतिपत्तिः, अन्यथा ततो वातादिसाध्यप्रत्यायनानुपपत्तेः। अस्ति चे दम्
“वाताय कपिला विद्युदातपायातिलोहिनी। पीता वर्षाय विज्ञेया दुभिक्षाय सिता भवेत् ॥"
[पामहा० २।३।१३ ] इति प्रसिद्धः । तथा शब्दस्यापीति न तत्राप्ययं दोषो भाषितव्यः । ततो युक्तं ३० परापरस्यापि शब्दस्य वाचकत्वम् । इदमेव कारिकाखण्डेन दर्शयति
तादृशो वाचकः शब्दः सङ्कतो यत्र वर्तते । इति । । यत्र यस्मिन् शब्देऽर्थे वा सङ्केतोऽयमस्य वाचको वाच्य इति समयः प्रवर्तते तादृशस्तत्समानः शब्दो वाचकः तादृशस्यार्थस्य तादृश इति षष्ठ्यन्तस्याप्यावृत्त्या सम्बन्धात् । सादृश्याच्च वाचकत्वं वर्णस्य वर्णान्तरेण पदस्य पदान्तरेण एवं वाक्यादावपि । ततो न
१ असम्बद्धयेति सम्बन्धमगत्वा इत्यर्थः ।