SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३२१ ३।४५-४६] ३ प्रवचनप्रस्तावः सर्वार्थे शब्दस्य या योग्यता सा न साध्वी इति निवेदिताद् दोषात् । नायं दोषः, तस्याः सङ्केतात् विषयनियमोपपत्तेः। एतदेवाह 'सङ्कतान्नियमो यदि'। इति । अत्रापि तदेव दूषणम्-तदन्तरस्यानभिधानात् । तथा हि-यदि सत्यामपि योग्यतायां सङ्केतस्यापेक्षा स एव हि-शब्दस्य तदर्थप्रत्यायने शक्तिरिति न स्वतो योग्यता साध्वी। ५ द्वितीयेऽपि विकल्पे दोषमाह सम्बन्धनियमेऽन्यत्र समयेऽपि न वर्तताम् ॥४५॥ इति । - सम्बन्धस्य योग्यतारूपस्य नियमो नियतविषयत्वम् तस्मिन् अन्यत्र अर्थान्तरे समयेऽपि शब्दो न वर्तताम् न प्रवर्तेत । वर्तते च उर्वश्यादिशब्दस्य देवगणिकादौ प्रसिद्धस्य दादावपि सङ्केतवशात् प्रवृत्तिप्रतिपत्तेः । तन्न शब्दार्थयोरपौरुषेयः सम्बन्धः सम्भवति । १० तदेवाह ततः शब्दार्थयोर्नास्ति सम्बन्धोऽपौरुषेयकः । इति । सुबोधमेतत् । कस्तहि तयोः सम्बन्धः ? इत्याह स हि शब्दार्थसम्बन्धो यतोऽर्थः सम्प्रतीयते ॥४६॥ इति ॥ यतो यमाश्रित्य शब्दादर्थप्रतिपत्तिः स एव तयोः सम्बन्धो भवितुमर्हति । स च सङ्केत १५ एव, तद्बलादेव शब्दार्थप्रतिपत्तेरुपलम्भात् न स्वतो योग्यत्वम् । यद्येवं शास्त्रकारेण कथमन्यत्र प्रतिपादितम् ? "योग्यः शब्दो विकल्पो वा सर्वः सर्वत्र चेत्स्वतः । मिथ्यात्वं परतस्तस्य चक्षुरादिधियामिव ॥" [सिद्धिवि० परि० ५ ] इति । २० इति चेत् ; न; यतो न हि तत्रापि स्वतो योग्यत्वेन तस्य तात्पर्यम्, अपि तु तदभ्युपगमेन शब्दस्यार्थविषयत्वमिति निवेदन एव तत्रापि तात्पर्यम्, अन्यथा कथमत्रेदमभिदध्यात्-'स्वतः सामर्थ्य विश्लेषात्' इति ? कथं चेदम् 'वाचः प्रमाणपूर्वायाः प्रामाण्यम्' इति ? स्वतः शब्दस्य योग्यत्वे प्रामाण्यस्य स्वत एवोपपत्तेः, सतोऽपि पुरुषस्य गुणस्य तन्मिथ्यात्वापाकरण एव व्यापारात् । तन्न शास्त्रकारस्य तत्र तात्पर्यम्, सङ्केत एव २५ तच्छक्तित्वेन तात्पर्यात् । --- स्यादाकूतम्-व्यवहाराय सङ्केतः, न चानित्यत्वे शब्दस्य ततो व्यवहारः, कृतसङ्केतस्य तस्य तत्समयेऽनन्वयात्, अन्यस्य तदा सम्भवतोऽप्यकृतसङ्केतत्वेनार्थवत्त्वापरिज्ञानादिति ; तन्न; सङकेतस्य विकल्पावभासिशब्दोपदर्शनद्वारेण देशकालानविच्छिन्नसकलतत्सदृशशब्दविषयतयैव ईदृशमीदृशस्य गमकमितिवत् वाचकमिति च प्रतिपादनेन लिङ्गान्त- ३० रस्येव शब्दान्तरस्याप्यर्थवत्त्वपरिज्ञानात् कुतो न व्यवहाराय सङकेतः स्यात् ? ततो निषिद्धमेतत् "शब्दं तावदनुच्चार्य सम्बन्धकरणं कुतः । न चोच्चरितनष्टस्य सम्बन्धन प्रयोजनम् ॥ १ द्रष्टव्यम्-पृ०३१९ ।
SR No.007280
Book TitleNyayvinischay Vivaran Part 02
Original Sutra AuthorVadirajsuri
AuthorMahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year1954
Total Pages538
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy