________________
३२०
न्यायविनिश्चयविवरणे
[३।४४-४५ शब्दार्थयोर्विकल्पेन, [सन्निवेशोऽनुवर्तते ॥४४॥] इति । शब्दो वाचकः तस्य विकल्पो नामाख्यातनिपातोपसर्गादिरूपो भेदः, अर्थो वाच्यस्तस्यापि जातिद्रव्यणुणक्रियादिरूपो भेद एव' विकल्पस्तेन सङ्केतो बहुधा शब्दादेः, तद्विषयस्य विकल्पे तस्यापि विकल्पोपपत्तिरिति भावः । यदि वा तयोविकल्पो भेदाभेदयोर्गुणमुख्यभावाभ्यां ५ परामर्शस्तेन बहुधेति । तत्र गुणभावेन भेदविकल्पे अस्यान्नस्य प्राणा इति वाचकमिति ।
अभेदविकल्पे च इदमन्नं प्राणा इति च सङ्केतः। गुणभूतं चान्नस्य प्राणत्वम् प्राणस्थितिहेतत्वेन प्राणत्वस्य तत्रोपचारात । अतः प्राणशब्दस्य तद्वाचकत्वमपि गणत एव । मख्यतस्तदुभयविकल्पस्तु एषां निःश्वासादीनां प्राणा इति वाचकम्, एते वा निःश्वासादयः प्राणा इति च सङ्केतः।
कथं पुनः सङकेतस्य करणं यस्यायं प्रपञ्चः ? कथन्न स्यात् ? अनुपलब्धस्य शब्दस्य तदयोगात् । उपलब्धस्याप्युच्चरितप्रध्वंसित्वेन सङकेतकालेऽनन्वयादिति चेत् ; मा भूत् प्रत्यक्षतः तत्काले तस्य प्रतिपत्तिः, प्रत्यक्षस्यैव विषयसन्निधिसव्यपेक्षत्वेन तदभावेऽनुपपत्तेः । तदुत्तरकालभाविना तु विकल्पेन भवत्येव प्रतिपत्तिस्तस्य सन्निहितवत् विप्रकृष्टेऽपि
प्रवृत्तेः । तत्प्रामाण्यस्य च द्वितीये व्यवस्थापितत्वात् । एतदेवाह-'शब्द' इत्यादि । शब्दार्थयोः १५ यस्सङकेतोऽयमस्य वाचको वाच्यश्चायमस्येति समयः स विकल्पेन ऊहापरनामधेयेन
प्रमाणेन । यद्येवं सर्वस्यापि शब्दस्य प्रमाणविषये एव सङकेतात् सत्येवार्थे प्रवृत्तिः, नास्ति समयान्तरभेदिनि प्रधानादौ तत्र सङकेतस्यैव तन्नि बन्धनप्रमाणाभावेनासत्त्वात् । तदुक्तम्
"परमार्थंकतानत्वे शब्दानामनिबन्धना।।
न स्यात् प्रवृत्तिरर्येषु समयान्तरभेदिषु ॥” [प्र. वा० ३।२०६] २० इति चेत्, न; विकल्पेनापि प्रमाणेनैव सङ्केत इति नियमाभावात्, मिथ्या— विकल्पेनापि प्रायशस्तत्क्रियादर्शनात् । तद्विकल्पस्य च परपरिकल्पनाया: समयान्तर
भेदिष्वर्थेषु भावात् । ततो 'विकल्पेन' इति सामान्येन ब्रुवतः शास्त्रकारस्यायमभिप्राय:भावाभावतदुभयविषयत्वात् विकल्पस्य तदुपकल्पित-सङ्केतसामर्थ्यादर्थविषयत्वमावहतां
शब्दानामपि तद्विषयत्वमेवोपपन्नम्, न परमार्थंकतानत्वमिति । न च कस्यचित् तस्य २५ परमार्थविषयत्वमिति सर्वस्यापि तत्कल्पनमुपपन्नम्, बुद्धिष्वपि प्रसङगात् । शक्यं हि वक्तु
परमार्थंकतानत्वे बुद्धीनामनिबन्धना ।
न स्यात् प्रवृत्ति रर्थेषु समयान्तरभेदिषु ॥१७९४।। इति । ततो यथा बुद्धित्वाभेदेऽपि सामग्रीगुणदोषाभ्यां भावाभावादिविषयत्वं बुद्धीनां तद्वच्छब्दानामपीति समञ्जसम् । ततो न सङकेतस्याकरणम्, तत्कालेऽपि विकल्पविषयतया ३० शब्दस्यापक्रान्तस्यापि परिस्फुरणात् । एतदेवाह-सन्निवेशोऽनुवर्तते इति । सन्निवेशः सन्दर्भः,
स च वर्णानामेव प्रक्रमादनुवर्तते विकल्पम् तद्विषयत्वेनानुसरति। यदि पुनः शब्दस्य वस्तुनि स्वत एव योग्यत्वं को दोषो येन सङकेतः तत्रापेक्ष्यत इति चेत् ? उच्यते-तत्सर्वविषयम्, नियतविषयं वा ? पूर्वविकल्पे ततो युगपत् सर्वार्थप्रतीतिप्रसङगः । तथा च न ततो नियतविषयः प्रवृत्त्यादिरिति व्यवहारविलोपः । तत आह
___ न सर्वयोग्यता साध्वी सङ्कतान्नियमो यदि। इति । १ एवं श्रा०।