________________
३।४३-४४]
३१९
निबन्धनादपि स एवायमित्यभेदसमारोपवतः प्रत्यभिज्ञानादर्थापत्तेर्वा वैदिकानां यदि नित्यत्वपरिकल्पनं प्रत्यागमानामपि भवेत् तदविशेषात् इत्यपौरुषेयतया तेषामपि धर्माद प्रामाण्यात् "धर्मे चोदनैव प्रमाणम्" [मी० इलो० चो० श्लो० ४] ' इत्यवधारणमनवधारणप्रयुक्तमिति न तेषां ततो नित्यत्वप्रतिपत्तिः तदागमवतामनित्यत्वाभ्युपगमेन बाधनात् । न हि वैदिकेष्वपि स्यात् "लक्षणयुक्त बाधासम्भवे तल्लक्षणमेव दृषितं स्यात" [ प्रमाणवातिकालं ० ३।७१] इति न्यायात् तत्रापि तेषां तदभ्युपगमभावाच्च । तन्न प्रत्यभिज्ञानादेः शब्दे नित्यत्वप्रतिपत्तिः । आत्मादौ तु ततस्तत्परिज्ञानमनुपद्रवत्वादिति न किञ्चिदसमञ्जसमासज्यते । कथं पुनरसति नित्यत्वे शब्दस्य प्रामाण्यमिति चेत् ? क एवमाह - तस्य प्रामाण्यमिति, सम्यग्ज्ञानस्यैव तत्त्वात्, शब्दस्य तु तत्त्वं तत्कारणत्वेनोपचारात् । न च तद्धेतुत्वमपि नित्यत्वात् अपि तु तदर्थवेदिपुरुषपूर्वकत्वात् । एतदेव दर्शयन्नाह -
वाचः प्रमाणपूर्वायाः प्रामाण्यम् । इति ।
प्रवचनप्रस्तावः
प्रमाणमिह वागर्थवेदिनः पुरुषस्य ज्ञानं तत्पूर्वाया वाचो वचनस्य प्रामाण्यं न नित्यत्वापरनामधेयादपौरुषेयत्वात् । अत्रैवोपपत्तिमाह
वस्तु सिद्धये । स्वतः सामर्थ्यविश्लेषात् स्रङ्कतं हि प्रतीक्षते ||४३|| इति ।
स पुनर्बहुधा लोकव्यवहारस्य दर्शनात् । इति ।
सङ्केतः । पुनरिति वितर्के । बहुधा कथितेन प्रतिपत्तिप्रकार बहुत्वेन बहुप्रकार इत्यर्थः । कुत एतत् ? तथैव लोकव्यवहारस्य तत्प्रतिरूपस्य दर्शनादुपलम्भादिति ।
साम्प्रतं वाच्यवाचकयोर्विकल्पेनापि सङ्केतस्य भेदं दर्शयन्नाह -
५
१ चोदना लक्षणोऽर्थो धर्मः' - जैमिनि० १|१|२| चोदनैव प्रमाणं चेत्येतद् धर्मेऽवधारितम्' मी० श्लो० । २ एभित्यैभिति च श्रा० ।
१०
वस्तु वागर्थ एव तस्य सिद्धिः ज्ञप्तिः तदर्थं हि यस्मात् सङ्क ेतं समयं प्रतीक्षते वाक्, अतः तत्पूर्वाया एव तस्याः प्रामाण्यम् । तत्प्रतीक्षत्वमपि कुतस्तस्या इति चेत् ? स्वतोऽन्यनिरपेक्षत्वेन सामर्थ्यस्य वस्तुसाधनशक्तेः विश्लेषादभावात् । ननु समयप्रतिपत्तिरपि शब्दस्य शब्दादेव, तस्यापि समयप्रतीक्षत्वे तत्रापि तत्प्रतिपत्तिरन्यतः शब्दात्, तत्राप्यन्यतस्ततः इति परापरशब्दप्रतीक्षायामेव कालोपक्षयान्न प्रकृते तत्प्रतिपत्तिर्भवेत् । तस्य तदन- २० पेक्षत्वे तु सिद्धं स्वतोऽपि सामर्थ्यम्, अन्यथा ततस्तत्प्रतिपत्तेरसम्भवात् । तथा च शब्दान्तरस्यापि तदविरोधाद् व्यर्थं तत्प्रतीक्षणमिति चेत्; न; शब्दादेव तत्प्रतिपत्तिरिति नियमाभावात् । भवति हि बालकादेर्वृद्धव्यवहारदर्शनादपि पदतदर्थादिसम्बन्धप्रतिपत्तिः । कस्यचित् जन्मान्तरसंस्कारोन्मीलनादपि अश्रुतपूर्वस्याख्यानकृतोऽपि दर्शनात् । कस्यचित् स्वबुद्धिबलादपि यथा पाणिने :- 'आदैचो वृद्धि:' इति, अदेङ् गुणः' इति, "वृद्धिरादैच् [पा० सू० २५ १|१|१] इति "अदेङ् गुणः " [ पा० सू० १ १ २] इति च तेनैवाभिधानात् । यथा वा तत्रैव पूज्यपादस्य भगवतः ऐबिति 'एबिति च “आजै” [ जैनेन्द्र० १ १ १५ ] इति “अदेङ प्” [ जैनेन्द्र० १।१।१६ ] इति च तस्यैव वचनात् । तदेवमनेकधा समयप्रतिपत्तिसम्भवेनोपपन्नं तत्प्रतीक्षयैवार्थप्रत्यायकत्वं वचनस्य । तदनेकत्वमेव दर्शयन्नाह -
१५
३०