________________
१५
२०
३१८
२५
त्वयापि ममापि
तन्न भेदबुद्धेः नादनिबन्धनत्वम्, तत्त्वतः तद्भेदादेव तदुपपत्तेः । तात्त्विकत्वञ्च ५ तस्य बाधाभावात् । नहि प्रत्यभिज्ञानात् तस्य बाध:, तेन सामान्यविषयतया विद्युदादिवत् तदनुपद्रवात् । अर्थापत्त्या तस्य बाधनम् तया निर्भेदस्यैव प्रतिपत्तेः । सा चेयम् - नित्यः शब्दो दर्शनस्य तदुच्चारणस्य परार्थत्वात् । परप्रतीतये हि तस्योच्चारणम् । न चासावुच्चारितोऽप्यपरिज्ञातवाच्यसम्बन्धः तत्प्रतिपत्तिमावहति; अश्रुतपूर्वादपि शब्दमात्रात्तदापत्तेः । न चानित्यत्वे तत्परिज्ञानम्, अश्रुतस्य तदयोगात् श्रुतस्यापि तत्कालेऽनन्वयात् । ततो यदि १० तत्परिज्ञानम् अवश्यम्भाविनी कालान्तरावस्थितिः । कथमेवमपि नित्यत्वं द्वित्रादिक्षणा - वस्थितावपि तत्परिज्ञानोपपत्तेरिति चेत् ? न; तस्यैव व्यवहारकालेऽपि पुनः पुनरन्वयात् । अन्य एव तत्कालभावी शब्द इति चेत्; कथमन्यस्य सम्बन्धपरिज्ञानमन्यस्य प्रत्यायकत्व - मतिप्रसङ्गात् ? तदुक्तम्
न्यायविनिश्चयविवरणे
व्यञ्जकव्यक्तिभेदाद्भेदोऽप्युपेयते । व्यञ्जकैर्नादेर्भेदव द्धिर्भविष्यति ॥” इति ।
उत्तरमाह
[मी० श्लो० स्फो० २४-२५ ]
[ ३४२
"न दृष्टार्थसम्बन्धः शब्दो भवति वाचकः । तथा चेत्स्यादपूर्वोऽपि सर्वः सर्व प्रकाशयेत् ॥ सम्बन्धदर्शनं चास्य नानित्यस्योपपद्यते । सम्बन्धज्ञान सिद्धिश्चेद् ध्रुवं कालान्तरे स्थितिः॥ अन्यस्मिन् ज्ञातसम्बन्धेन चान्यो वाचको भवेत् । गोशब्दे ज्ञातसम्बन्धे नाश्वशब्दो हि वाचकः ॥'
[मी० श्लो० शब्दनि० २४१-४३] इति । ततस्तदुच्चारणस्य पारार्थ्यान्यथानुपपत्त्या नित्य एव शब्द इति चेत्;
स वर्णपदवाक्यानां कालदेशादिभेदिनाम् । सदृशानां प्रबन्धोऽयं सर्वेषां न विरुध्यते || ४२ ॥ इति ।
स लोकप्रसिद्धः प्रबन्धो वाचकात्मा प्रवाहः न विरुद्धयते । केषाम् ? 'वर्णपदवाक्यानाम् । कीदृशानाम् ? देशकालादिभेदिनाम् । आदिशब्दात् द्रुतविलम्बितादिभेदिनामपि । यद्येवं भेदाविशेषात् गोशब्दे परिज्ञातसम्बन्धे अश्वशब्दोऽपि वाचको भवेदिति ; अत्रोत्तरम् - 'सदृशानाम्' इति । क्वचित् सम्बन्धपरिज्ञाने हि भेदिनोऽपि तत्सदृशस्यैव वाचकत्वोपपत्तेः कुतोऽतिप्रसङ्ग इति भावः । 'लौकिकानामेव सदृशानां न विरुद्धयते न ३० वैदिकानाम्' इत्यत्र समाधानम् - 'सर्वेषाम्' इति । न हि वैदिका नाम लौकिकेभ्यो विशिष्यन्ते । 'य एव लौकिकाः त एव वैदिका:" [ शाबरभा० १|३|३० ] इति प्रसिद्धेः । ततः सादृश्यबलादपि दर्शनस्य पारार्थ्योपपत्तेः न ततः शब्दनित्यत्वप्रतिपत्तिः, अन्यथानुपपत्तेरभावात् । तन्नार्थापत्त्यापि तस्य बाधनम् । 'सर्वेषाम्' इत्यनेन इदमप्यावेदयति । सादृश्य
१ " नित्यस्तु स्यात् दर्शनस्य परार्थत्वात् " - जैमिनिसू० १|१|१८ | न्यायकुमुद० टि० पृ० ७०१ । २ सवर्ण - श्र० ।