________________
३।४१] ३ प्रवचनप्रस्तावः
३१७ नित्यादिरूपाः सर्वेऽर्थाः प्रत्यभिज्ञानतो यदा । घटादौ प्रागुपन्यस्तो विशेषः स्यान्निराश्रयः ॥१७८७।। सामान्यविषयात्तत्र प्रत्यभिज्ञा ततो न चेत् । तत्र नित्यादिरूपत्वं शब्देऽप्यस्त्वेष ते नयः ॥१७८८।। तथा च घटवत्तत्र भेदज्ञानाद्विभेदिनी।
नित्यत्वादिविशेषोक्तिस्तव स्यादप्रमाणिका ॥१७८९॥ 'सर्व' इत्यादिकम् । अत्रैवं व्याख्येयम्-सर्वब्यवहारहेतुत्वात् सर्वार्थाः, शब्दाः, तेषां घटा- . दिवदेव अनादित्वम्-पुरुषपूर्वकत्वम् 'अन' इति पुरुषपर्यायत्वात्, तदादित्वञ्च तद्वदेव तद्भावाभावनियमात् तस्मिन् सतीति । शे पूर्ववत् । भेदज्ञानाच्च तत्र भेदाभावे नाभेदोऽपि तज्ज्ञानात्, न सत्त्वादिकमपि तत्प्रत्ययादिति न शब्दो नाम भवेत् । तदाह-'सर्व' इत्यादि । १० स विशेषो निराश्रयो निष्प्रमाणः । कोऽसौ ? यः शब्दघटाद्याख्यः शब्द इति घटादिरिति चाख्यायमानः अवभासते लोके प्रतीयते । घटादिग्रहणं शब्दवत् तत्राप्यभावस्यैवोपपत्तेः । कीदशोऽसौ ? अन्यया अभावादन्येन भावात्मना प्रकारेण सम्भवी। कदा स निराश्रयः ? सर्वार्थानां भेदादिप्रत्ययानां सर्वो भेदादिरों ग्राह्यो येषामिति व्युत्पत्तेः, तेषामादित्वं ग्राह्यादानादिकरणत्वम्, अनादित्वमतद्भावः तस्मिन् सतीति । सिद्धं च तेषां तदनादित्वं १५ सतामपि तद्व्यवस्थापकत्वाभावात् । ततो निष्प्रमाणत्वेन सर्वेषु नीरूपत्वमेवोपस्थितम् । तदनिच्छता चाभेदवत् शब्दे भेदोऽपि तज्ज्ञानात् प्रतिपत्तव्यः । तत्रेदं स्यात्-'सतोऽपि (सत्यपि) भेदज्ञाने न तस्य भेदः, तस्योपाधिनिबन्धनत्वात्, तदपि गव्यक्तिरूपस्य शब्दस्य तव्यक्त्यन्तराविच्छेदेनाभिन्नतयैव प्रतीतेः । तत एवोक्तम्
"तत्र द्रुतादिभेदेऽपि न भिन्ना सम्प्रतीयते । गव्यक्त्यन्तरविच्छिन्ना गव्यक्तिरपरा स्फुटा ॥ तेनैकत्वेन वर्णस्य बुद्धिरेकोपजायते । विशेषबुद्धिसद्भावो भवेद् व्यञ्जकभेदतः ॥"
[मी० श्लो० स्फो० श्लो० २२-२३] तत्रोत्तरम्
शब्दश्चद् व्यञ्जकाद् भिन्नः शङ्खः पीतादिव स्फुटम् । प्रतीयेत कथं तत्र पीतवन्नादविभ्रमः ॥१७९०।। विभिन्नश्च न्न गम्यत न गम्यतैव सर्वथा । गम्यागम्यात्मना तस्य यत्नैरंश्यान्न युज्यते ॥१७९१।। तेनैकत्वेन वर्णस्येत्यादि तस्मादय क्तिमत् । अप्रतीतिपथप्राप्ते तस्मिन्नित्युक्त्यसम्भवात् ॥१७९२॥ तत्प्रतीतिस्ततो वाच्या द्रुतादिभ्रमजिता। तथा चासंगतं प्राप्तं कौमारिलमिदं वचः ।।१७९३।। "यथैव तव गत्यादि गम्यमानं द्रुतादिभिः।
विशेषैरपि नानेकमेवं वर्णोऽपि नो भवेत् ॥ १ श्रादिपदेन व्यापित्वादिपरिग्रहः । २ व्याख्येयम् ता०। ३ कार्यकारणभावनियमादित्यर्थः । ४सतोऽपि प्रा०, ब०, १०, ता०। ५ गोव्यक्ति-प्रा०। ६ पीतवर्णादविभ्रम-पा०।