________________
३१६
न्यायविनिश्चयविवरणे
[३४०-४१ त्रस्य बोधे प्रत्यवभासनम्, अननुभवात् । 'अप्रत्यवभासित्वे च बाधतदभावयोः कश्चिन्नावकाशः । ततो देशभेदवत् सूर्येऽपि विभ्रमस्यैवोपपत्तेः 'पारम्पर्य' इत्यादेरशक्यापाकरणैवानुपपत्तिः । कथं वा विभ्रमात्मना भानुमद्देशभेदोपलम्भेन शब्दविषयव्यावणिततदुपलम्भ
व्यभिचारः ? प्रत्यभिज्ञानेऽपि प्रसङ्गात् । शक्यं हि वक्तुम्-न घटादिषु प्रत्यभिज्ञानादेकत्व५ प्रतिपत्तिः, लूनपुनरुत्पन्नरोमनखादिप्रत्यभिज्ञानेन व्यभिचारादिति । तदेवाह
प्रत्यभिज्ञाऽप्रमाणं स्यात् युगपद्भिन्नदेशयोः ॥४०॥ इति । प्रत्यभिज्ञा 'स एवायं गकारो योऽन्यत्र श्रूयते' इति प्रत्यवमर्शः । सोऽयं युगपत् अक्रमेण भिन्नदेशयोर्वर्णयोः प्रवर्तमाना तदेकत्व सिद्धौ अप्रमाणं स्यात् भवेत् व्यभिचारभावादिति भावः । ततो भेदवदभेदस्यापि वर्णेष्वव्यवस्थितेः तदभाव एव प्राप्तो भेदाभेदविकलस्य वस्तुन एवाप्रतिपत्तेः । न च विभ्रमतोऽपि जलपात्रेषु भिन्नदेशतयोपलब्धिर्गभस्तिमालिनः; निविभ्रमतया तत्प्रतिसङक्रम एव तत्प्रतिपत्तेः । तथाऽपि तत्र तत्कल्पनायामव्यवस्थैव, ततोऽष्यन्यत्र पुनस्ततोऽप्यन्यत्र प्रक्लुप्तेरनिवारणात् ।
भवतु तत्प्रतिनिधेरेव तत्रोपलब्धिस्तथाऽपि व्यभिचारः तस्याप्यभिन्नस्यैव भिन्नदेशतया प्रतीतः, अभेदस्य समानबुद्धिगम्यत्वेन व्यवस्थापनात् । अत एवोक्तम्
"अनेकदेशवृत्तौ वा सत्यपि प्रतिबिम्बने । समानबुद्धिगम्यत्वान्नानात्वं नैव बुद्धयते ॥"
[मी० श्लो० शब्दनि० श्लो० १९०] इति चेत् ; तन्न; जलतत्पात्राणामप्येवमभेदापत्तेः समानबुद्धिगम्यत्वस्य भावात् । इदमेवाह-'प्रत्यभिज्ञा' इत्यादि । प्रत्यभिज्ञा समानबुद्धिः सा युगपद्भिन्नदेशयोर्जलयोस्त. २० पात्रयोश्च प्रवर्तमाना तदेकत्वसाधनं प्रमाणं स्यात् । नायं दोषः, तत्र न्यूनाधिकभावेन
तबुद्धिगम्यत्वाभावादिति चेत् ; न; प्रतिबिम्बेऽपि तुल्यत्वात्-तस्याप्यल्पमहतोरधिकरणयोरल्पमहत्त्वेनैव प्रत्यवलोकनात् । प्रतिबिम्बरूपतया अस्त्येव तत्रापि तद्बुद्धिगम्यत्वमिति चेत् ; न; जलादावपि जलत्वादिना तदविशेषात् । भवतु ततस्तत्रापि अभेदप्रतिपत्तिरिति चत्; अत्राह
सर्वार्थानामनादित्वे स विशेषो निराश्रयः ।
योऽन्यथासम्भवी शब्दघटाद्याख्योऽवभासते ॥४१॥ इति । शब्दश्च घटादिश्च तयोराख्या कथनं यस्यासौ शब्दघटाद्याख्यः शब्दे घटादौ च कथ्यमान इत्यर्थः । कोऽसौ ? विशेषः 'तयोरेव वैलक्षण्यम् । कथम्भूतः ? अन्यथासम्भवी शब्दादन्येन प्रकारेण घटादौ सम्भवी, स चानित्यत्वमव्यापित्वमनेकव्यक्तिकतयासामान्याधिष्ठानत्वमित्यादिः, घटादेरप्यन्येन प्रकारेण शब्दे सम्भवी, सोऽपि नित्यत्वं व्यापित्वमेकव्यक्तिकत्वेन सामान्यवैकल्यमित्यादिः, योऽवभासते मीमांसकस्य च तसि परिस्फुरति । निराश्रयः प्रमाणात्मन आश्रयान्निष्क्रान्तो भवेत् । कदा? सर्वेषां शब्दवत् घटादीनामपि अर्थानाम् अनादित्वे प्रत्यभिज्ञानबलात् नित्यत्वे स्थापिते सति। उपलक्षणमिदं तेन व्यापित्वेऽपीति । तथा हि
१ अप्रत्यवभासते च प्रा० । २ नगरादिषु आ० । ३-मानमित्य-पा०।४ तयोवल-पा० ।