________________
३१५
३।४०]
३प्रवचनप्रस्तावः इति चेत्, न; अत एव विद्युदादावपि अतो भेदप्रतिपत्तेरभावप्रसङ्गात् ।
अपि च, न जलपात्रेषु सवितुरवेक्षणं तत्र तस्याभावात्, यश्च तत्रावेक्ष्यते तत्प्रतिनिधिः स भिन्न एव प्रतिपात्रमिति कथं तेन व्यभिचारः ? सपक्षेणैव तदनुपपत्तेः । भवेदाकृतं भवतः पात्रावस्थिते पयसि परिस्फुरता भानुमतस्तेजसा चाक्षुषं तेजः प्रति तत्पयः प्रवर्त्यमानं व्योमगतमेव मरीचिमालिनं प्रतिपात्रमनेकधा भिद्यमानमवद्योतयति । न चैवमपि ५ वस्तुतो भेद इति व्यभिचार एवेति ; तदिदं दुराकूतम् ; एवमनुभवाभावात् । न हि जलपात्राणि पश्यतो व्योमगतविवस्वदवलोकनस्यानुभवः, तत्प्रतिबिम्बावलोकनस्यैव तद्भावात् । तथाऽपि तदपह्नवेन इतरपरिकल्पनायां न क्वचिनियता तत्परिक्लृप्तिर्भवेत् । कथं चैवं 'जलयात्रेषु' इत्याद्यविरुद्धम्, स्वदेशगतस्यैव सवितुरवेक्षणे तत्पात्रेषु तदवेक्षणवचनस्यानुपपत्तेः ? ततो यदुक्तम्
"अत्र ब्रूमो वयं तावज्जले सौर्येण तेजसा । स्फुरता चाक्षुषं तेजः प्रतिस्रोतः प्रवर्तितम् ॥ स्वदेशभिन्नं गृह्णाति सवितारमनेकधा। भिन्नमूर्ति यथापात्रं तदाऽस्यानेकता कुतः ।"
[मी. श्लो० शब्दनि. श्लो० १८०-८२] इति । १५ तत्प्रतिविहितम् ; अनुभवप्रत्यनीकत्वात् स्ववचनविरोधाच्च । यदप्यन्यदुक्तम्- .
"अप्सूर्यदर्शिनां नित्यं द्वधा चक्षुः प्रवर्तते । एकमूर्ध्वमधस्ताच्च तत्रोवं सम्प्रदर्शितम् ॥ 'अधिष्ठातृऋजुस्थत्वात् साक्षात् सूर्य प्रपद्यते । पारम्पर्याऽपितं सन्तमवागवृत्या तु बुद्धयते ॥ एवं वृत्तितदेकत्वादवागिव च मन्यते। अधस्तादेव तेनार्कः सान्तरालः प्रतीयते ॥"
मी० श्लो० शब्दनि० श्लो० १८६-८९] इति । तत्रापि योऽसौ चक्षुषोऽवाग्वृत्त्या सूर्यस्यावागवबोधः स चेदभ्रान्तः कथमेतद् 'अवागिव च मन्यते' इति ? विभ्रमविकलात्ततः तथा मन नासम्भवात् । अथ भिन्नमेव २५ तद्बोधात् तथा तन्मननम्, अत एव 'अवाग्वृत्त्या तु बुद्धयते' इत्यतः पृथगेव 'अवागिव च मन्यते' इत्युक्तम् । न ह्यभेदे पृथग्वचनमुपपन्नं पौनरुक्त्यदोषात् । ततोऽन्यदेव तथा तन्मननं न प्रत्यक्षमिति चेत् ; न; तथाऽसम्प्रत्ययात्। न हि प्रत्यक्षमन्यत्- यथाऽवस्थितमरीचिमालिगोचरम्, तदनन्तरं च तदवाग्भावविभावनं मननमवलोकयामः, चक्षुर्व्यापारानन्तरम् अवाचीनस्यैव तिग्मरुचिरूपस्य निरूपणात् । तथाऽपि तत्कल्पनायां सुखं जीवन्तु सौगताः, ३० बहिरन्तश्च निरंशक्षणिकपरमाणुदर्शनस्य तदनन्तरभाविनः स्थूलैकविकल्पस्य च तत्परिकल्पितस्यापि एवमव्याकुलमवस्थितः, "अतोऽयं भ्रान्त एव, न तर्हि 'पारम्पर्याऽपितम्' इत्याधुपपन्नम्, विभ्रमविषयस्य सत्त्वानुपपत्तेः । न सूर्ये तस्य विभ्रमो देशभेद एव तद्भावादिति चेत्; न; तत्रापि बाधाभावात् । सूर्यसम्बन्धिनि बाध एवेति चेत् ; न; सूर्येऽपि तत्सम्ब- ३५ न्धिनि तदविशेषात् । न तन्मात्रे बाध इति चेत् ; न; तस्याप्रतिभासनात् । न हि तन्मा
१ तत्रोर्वाशप्रदर्शितम्-मी० श्लो०। २ प्रतिष्ठातृजलत्वान्नाना सूर्य प्रा० । अधिष्ठानानृजुत्वाच नात्मा सूर्य-मी० श्लो० । ३ ततोऽन्यसदेव श्रा० । ४ यथायं श्रा० ।