________________
३१४ न्यायविनिश्चयविवरणे
[१४० यदि चैवंविधो नित्यो नित्यास्ते विद्युदादयः । इति । एवंविधस्ताल्वादिव्यापारोपरचितस्वरूपनिष्पत्तिरपि शब्दो यदि चेत् नित्यः 'च' इत्यवधारणे, तदा नित्या अविचलितरूपास्ते तव मीमांसकस्य विद्युदादयः आदिपदात्
प्रदीपादयोऽपि भवेयुः, तत्रापि तादृशप्रत्यभिज्ञासम्भवादिति भावः । यदि च कालभेदेऽपि ५ शब्दस्य तद्बलादेकत्वं देशभेदेऽपि स्यात् तदविशेषात् । अभिमतमेवैतत्-देशभेदतस्तद्भेदानुमानस्य प्रत्यक्षात्मना तदभेदप्रत्यभिज्ञानेनैव बाधोपपत्तेन तेन तस्य । तथोक्तम्- .
"देशभेदेन भिन्नत्वमित्येतच्चानुमानिकम् । प्रत्यक्षं तु स एवेति प्रत्ययस्तेन बाधकः ॥ पर्यायेण यथा चैको भिन्नान् देशान् व्रजन्नपि। देवदत्तो न भिद्येत तथा शब्दो न भिद्यते ॥ ज्ञातैकत्वो यथैवासौ दृश्यमानः पुनः पुनः । कालभेदेन नानेकस्तथा शब्दोऽपि देशतः ॥"
[ मी. श्लो. शब्दनि० श्लो० १९७-२००] इति चेत् ; न; विद्युदादावप्येवंप्रसङगात् । शक्यं हि वक्तुम्१५
यथा देशादिभेदेऽपि देवदत्तो न भिद्यते। ज्ञातैकत्वस्तथैवासौ विद्युदादिर्न भिद्यते ॥१७८५।। तत्राप्येकत्वसंवित्तेस्तद्वत्प्रत्यवमर्शनात् ।
तद्भेदानुमितेश्चापि तेनैव प्रतिबाधनात् ।।१७८६॥ इति । ततो विद्युदादौ तद्भेदानुमानमेव ‘स एवायम्' इत्यस्य बाधकं निश्चिताविनाभावा२० ल्लिङ्गादुत्पत्तेः, नेदम्, तस्य सादृश्यदर्शननिबन्धनत्वेन विभ्रमत्वात्, तथा शब्देऽपीति
प्रतिपत्तव्यम् । अस्ति हि तत्रापि तदनुमानम्, तथाहि-यदेकेन युगपद्भिन्नदेशतयोपलभ्यते तदभिन्नमेव यथा विद्यदादि, तथोपलभ्यते च शब्द इति । न चात्र क्रमेण भिन्नदेशतयोपलभ्यमानेन देवदत्तादिना व्यभिचारः; युगपद्विशेषणात् । ततो नेदमुपपन्नम्-"पर्यायेण यथा चैकः"
इत्यादि । नापि 'बहुभिर्नानादेशतया प्रतीयमानेन सूर्यादिना; 'एकेन' इति विशेषणात् । तत २५ इदमप्यसङ्गतम्
"प्राग्भागो यः सुराष्ट्राणां मालवानां स दक्षिणः । प्राग्भागः पुनरेतेषां तेषामुत्तरतः स्थितः ॥ तेन सूर्योदितर्देशी भिन्नावुभयवासिनाम् । दृष्टौ सवितुरेकत्वेऽप्यतोऽनैकान्तिको भवेत् ॥"
[मी० श्लो० शब्दनि० इलो० १६३-६५ ] इति । सवितुरेकेनैव भिन्नदेशत्वेन प्रतीतेरभावात् । एवमपि व्यभिचार एव जलपरिपूर्णेष शरावेषु युगपदेकस्यापि सवितुरेकेनैव भिन्नदेशतयोपलम्भनात् । अत एवोक्तम्
"जलपात्रेषु चैकेन नानकः सवितेक्ष्यते । युगपन्न च भेदेऽस्य प्रमाणं तुल्यवेदनात् ॥"
[ मी० श्लो० शब्दनि० श्लो० १७८] १ पुरुषैः । २ सूर्योदयादित्यर्थः । ३ पुरुषेण ।
१०