________________
३।३९] ३ प्रवचनप्रस्तावः
३१३ तदप्यत एव पर्यु दस्तम् ; घ्बनीनामपि कालभेदिनामिव देशभेदिनामपि प्रत्यभिज्ञाप्रत्ययबलादेकत्वनिश्चये व्यापित्वस्यैवोपपत्तेः, तत्त्वतो भिन्नदेशत्वादेरसम्भवात् तदुपधानबलेन शब्दे तत्परिज्ञानस्याशक्यकल्पनत्वात् । तत्राप्यपरतदुपधानवशात् देशभेदादिपरिकल्पनायां चानवस्थानदौःस्थ्यस्य दुस्तरस्यैवोपस्थानात् । तात्त्विक एव ध्वनौ ह्रस्वादिधर्मो बाधकाभावादिति चेत् ; न; शब्देऽपि तुल्यत्वात् । प्रत्यभिज्ञाने तद्वाधस्य ध्वनिवदेव निवार- ५ णात् । ननु यदि ध्वनिधर्मस्य ह्रस्वादेरननुभूतस्यैव स्वप्ने स्वशिरोविशरणादेरिव शब्दे विभ्रमः, तहि सकलस्यापि बहिर्भावस्य स्वप्ने विभ्रमदर्शनात् जाग्रद्दशायामपि तत्कल्पनोपनिपातेन बहिरर्थवाद: प्रध्वस्तो भवेत् । अनुभवास्वादितपूर्वस्यैव तस्य तत्र विभ्रमे क्व सस्यानुभव: ? व्यक्तिविधायिनि ध्वनावेवेति चेत्; तस्यापि तहि श्रोत्रविषयत्वं वक्तव्यम्, अन्यथा तद्धर्मस्य ह्रस्वादेरपि तदनुपपत्तेः । तथा च स एव तत्त्वतस्ताल्वादिस्थानविभाग- १० सन्निपातोपनिपातोपनीतह्रस्वदीर्घादिस्वभावभेदाधिष्ठानतया बुद्धिविषयतामध्यासीनो वर्णतया वर्णयितव्यो नापरस्तदप्रतीतः। तथाऽपि तत्परिकल्पनायां ततोऽप्यपरस्ततोऽप्यपर इति न क्वचिदवस्थिता तत्प्रक्लूप्तिर्भवेत् । 'न चेदृश्यपि नित्यत्वाप (त्यत्वप) रिकल्पनम्, भेदवत्त्वेनाप्यव्यवसायात् । तदुक्तं मण्डनेन
"श्रवणग्राह्यतायां तु मरुतः कोष्ठजन्मनः। ताल्वादिप्रविभक्तस्य शब्दत्वं स च भेदवान् ॥"
] इति । सत्यमयमप्यस्ति परस्य पर्यनुयोगः। तन्न व्यञ्जकधर्मोपधानात् वर्णेषु दीर्घादिभेदप्रतिपत्तिः बाधविरहात् । न हि प्रत्यभिज्ञयाऽपि तस्या बाधोऽस्ति तयाऽपि तदनुविद्धतयैव तेषामनुभवात् । तदन्यथा तत्कल्पनायामनुभवापलापदोषापत्तेः । न चानित्यत्वे तेषां सम्बन्ध- २० दर्शनाद्यनुपपत्तिः; अग्रतस्तदुपपत्तेरवकल्पनात् । ततो युक्तं ताल्वादिसन्निधानेन शब्दस्योत्पत्तेरनित्यत्वमेव दोषस्य कस्यचिदप्यभावात्, न नित्यत्वम्, तत्र सति सर्वदैवोपलब्धिप्रसङगात् । भवतोऽपि तदुपादानस्य प्राग्भाविमः कुतो नोपलब्धिरिति चेत् ? अत्राह- .
उपादानस्य सूक्ष्मत्वाद् युक्तं चानुपलम्भनम् । इति । यत् खलु शब्दस्योपादानं परिणामिकारणं भाषावर्गणात्मकपुद्गलस्कन्धरूपं तस्य २५ युक्तमुपपन्नम् ; अनुपलम्भनं न केवलं शब्दस्य जायमानत्वमेवेति चशब्दः । कुतस्तदुपपन्नम् ? सूक्ष्मत्वात् श्रवणयोग्यपरिणामाभावात् । न चैवं नित्यत्वेऽपि समाधानम् ; तत्र सर्वदा तस्य तद्योग्यस्यैव भावात्। प्रत्यभिज्ञानात् तत्र नित्यत्वमेवोपपन्नं न भेदः, तत्प्रतिपत्तेस्तेनैव प्रतिक्षेपादिति चेत् ; अत्राह-...
सादृश्यान्नैकरूपत्वात् स एवायमिति स्थितिः ॥३६॥ इति ।
भवत्येव तेन तत्प्रतिक्षेपो यदि तत्त्वतस्तस्य तदेकत्वावलम्बनत्वम्, न चैवम्, तत्र 'स्वतन्त्रत्वे तु इत्यादिना' बाधोपदर्शनात् । अतः सत्यपि तत्र स एवायमिति प्रत्यभिज्ञारूपा स्थितिः पूर्वापरयोर्वर्णयोर्यमलकयोरेव (रिव') सदृशपरिणामोपाश्रयतया प्रवर्तमाना न तत्प्रतीतिप्रतिक्षेपायालम् । यदि चायं निर्बन्धः तथाभूतयाऽपि प्रत्यभिज्ञया तत्प्रतिक्षेपात् नित्य एव शब्द इति । तत्राह
१ न चेते दृश्य-प्रा० । २ बाधकविर-पा० । ३ शब्दानाम् । ४ पृ० ३०४ । ५ सहजातयोरिव ।
३०