________________
३१२
न्यायविनिश्चयविवरणे
[३३८ अथवा, वंशवद्वंशोऽक्षरसमाम्नायः समस्तस्यापि वाङमयस्य तत्प्रभवत्वात्, तस्यादिस्वरः अवर्णस्तत्प्रथमत्वेन लोके तस्य पाठात्, तस्य धारा मात्राद्यवच्छिन्नकालानुवृत्तिः तस्यां संकुलाप्रतिपत्तित इति व्याख्येयम् । अत्रापीदमैदम्पर्यम्-आशुप्रतिपत्त्या शब्देषु यौगपद्यभ्रमकल्पनायाम् अवर्णस्याप्यतिसूक्ष्मसमयावच्छिन्नाद्यश्रुतावेव उत्तरोत्तरसमयसमनुयायिनीनामपि श्रुतीनामाशुभावेन अनुप्रविष्टतया प्रतीत्युपस्थानात् संकुलप्रतिपत्त्या भवितव्यम् । एवम् इवर्णादावपि वक्तव्यम्, आदिस्वरग्रहणस्योपलक्षणत्वात् । एवं चैकमात्रादिभेदेन अचामर्धमात्रतया हलामपि प्रतिपत्तेरभावात् प्रसिद्धोऽपि व्यक्तवाग्व्यवहारः प्रध्वस्तो भवेत्, तस्य अच्-हल्विभागप्रतीतिपुरस्सरतया तदभावेऽनुपपत्तेः । . .
आशुग्रहेण शब्देषु यौगपद्यभ्रमं ब्रुवन् । व्यक्तवाग्व्यवहाराय देहि भद्र जलाञ्जलिम् ॥१७८३॥ तदभावे च वेदस्य तद्विशेषस्य लुप्तितः ।
तत्प्रामाण्यं कथं धर्मे भवता परिचिन्त्यताम् ॥१७८४।। तन्न प्रतिपत्त्याशुभावनिबन्धनत्वेन कोलाहलश्रुतेविभ्रमत्वमुपपन्नं बाधारहितत्वेन तात्त्विकत्वस्यैवोपपत्तेरिति । भवतु नाम बहुजनताल्वादिव्यापारप्रेरितोपसर्पदनेकभेदाभिध्वानजनितनानारूपसंस्काराधिकरणदेशभेदाधिष्ठानतया श्रोत्रस्य कलकलश्रुतिवेलायां युगपदनेकशब्दोपलब्धिनिबन्धनत्वं न पुनरेकाभिध्वानोपजनितसंस्कारक्रोडीकृतकप्रदेशस्य, तस्यैकशब्दोपलब्धावेव निमित्तभावोपपत्तेरिति चेत् ; अत्राह
ताल्वादिसन्निधानेन शब्दोऽयं यदि जायते ।
को दोषो येन नित्यत्वं कुतश्चिदवकल्प्यते ॥३८॥ इति । २० ताल्वादेरादिशब्दाज्जिह्वामूलादेर्यत् सन्निधानं कार्योत्पत्तौ आनन्तर्य तेन शब्दोऽयं
प्रतीयमानो यदि जायते निष्पद्यते को दोषो येन दोषेण नित्यत्वं कौटस्थ्यं कुतश्चित् प्रत्यभिज्ञानादन्यतो वा शब्दस्यावकल्प्यते सम्भाव्यते इति । तात्पर्यमत्र ताल्वादिसन्निधानात् यदि शब्दस्य व्यक्तिः; समानदेशस्य सर्वस्यापि श्रोत्रविषयस्य स्यात् तन्निबन्धनस्य श्रोत्र
संस्कारस्यापि तथैवोपपत्तेः; इन्द्रियान्तरे तथैव प्रतिपत्तेः । न चैवम्, अतो व्यञ्जकधर्मान२५ पलब्धेः जनकत्वमेव तस्योपपन्नमिति, तज्जनकत्वे कार्यत्वेन शब्दस्यानित्यत्वात कथं
सम्बन्धोपदर्शनं यतो वाचकत्वेन व्यवहारोपयोग इति चेत् ? नित्यत्वेऽपि कथं 'पूर्वो ह्रस्वः परो दीर्घः' इति भेदप्रतिपत्तिः ? व्यञ्जकध्वानस्य तद्धर्मणस्तत्रोपधानात् न तत्त्वभावादिति चेत; तस्यापि तत्त्वतो ह्रस्वादिभेदधर्मत्वे कथं स एवायं देवदत्तस्य ध्वनिरित्येकत्वप्रतिपत्तिः,
यतः स्वरेण पुत्रप्रतिपत्तिरानुमानिकी ? तत्रापि ध्वन्यन्तरोपधानाधीनप्रादुर्भावैव तद्भेद३० प्रतिपत्तिरिति चेत् ; न; ध्वन्यन्तरेऽपि प्रकृतप्रसङगानतिवृत्तेरनवस्थापत्तेश्च । यदप्यक्तम
"ध्वनीनां भिन्नदेशत्वं श्रुतिस्तत्रानुरुद्धयते । अपूरितान्तरालत्वात् विच्छेदश्चावसीयते ॥ तेषां चाल्पकदेशत्वात् शब्दस्याविभुता मतिः । गतिमद्वेगवत्त्वाभ्यां ते चायान्ति यतो यतः ॥ श्रोता ततस्ततः शब्दमायान्तमिव मन्यते ।"
[ मी० श्लो० शब्दनि० श्लो० १७४-७६ ] इति । १-निवा॑नस्य प्रा०।