________________
३१३७]
३ प्रवचनप्रस्तावः ___मा भूदेवं वर्णसंस्कारो विचारप्रदीपव्यापारदुरुपपादत्वात्, श्रोत्रसंस्कारस्तु न दुष्यति श्रोत्रस्य भागवत्त्वेन प्रदेशतः संस्कारसम्भवादिति चेत् ; न; तत्संस्कारादपि वर्णस्य व्यापिन एवोपलब्धिर्भवेत् नाव्यापिनस्तस्याभावात् ।।
असतोऽप्युपलब्धिश्चेत् भ्रान्तिरेव प्रसज्यते । श्रोत्रबुद्धिः समस्ताऽपि व्योमपद्मादिबुद्धिवत् ॥१७७५।। संस्कृतादपि च श्रोत्राद्यथैकस्योपलम्भनम् ।। वर्णस्य तद्वदन्येषां तद्देशत्वात् प्रसज्यते ॥१७७६।। • न हि चक्षुर्घट द्रष्टु तद्वताऽपितसंस्क्रियम् । तदेशस्तम्भकुम्भादि न पश्यति पुर:स्थितम् ॥१७७७।। यथा चाशेषवर्णानां सर्वदा युगपद्गतेः । तदेकैकप्रतीतिस्ते प्रसिद्धाऽपि न सिद्धयति ॥१७७८॥ एकैकस्यैव संवित्तौ श्रोत्रं यदि च शक्तिमत् ।
कथं सङग्रामरङगादौ जनकोलाहलश्रवः ॥१७७९।। एकहेलया बहुविधानेकशब्दसन्दोहश्रवणं हि कोलाहलश्रवणं प्रसिद्धम् । न चैतत् एकैकवर्णश्रवण एव संस्कृतस्यापि श्रोत्रस्य सामर्थ्य शक्यसम्भावनमिति दूरापसारितस्तद्व्यव-, हारः स्यात् । तत्रापि क्रमवदेव तच्छ्रवणम्, योगपद्याभिमानस्तु तदाशुभावनिबन्धनाद्विभ्रमा- .. देवेति चेत् ; तदसारम् ; अतिप्रसङगात् । तमेव दर्शयन्नाह
वंशादिस्वरधारायां संकुलापतिपत्तितः।
क्रमेणाशुग्रहेऽयुक्तः सकृद्ग्रहणविभ्रमः ॥३७॥ इति । कोलाहलश्रवणदशायां यः सकृद्ग्रहणे विभ्रमः शब्देषु अयम् अयुक्तोऽनुपपन्नः । २० कस्मिन् निमित्ते सति भवन्नसा [व] युक्तः ? क्रमेणाशुग्रहे परिपाट्या शब्दानां शीघ्र- - मुपलम्भे सति । वंशेत्यादिरत्र हेतुः । वंश आदिर्यस्य वीणारावणहस्तादेस्तस्य स्वरः षड्जादिस्तस्य धारा कालकृता दीर्घता। सा च षड्जस्य चतुःश्रुतिः, एवं प्रत्येकं पञ्चममध्यमयोद्विश्रुतिः, निषादगान्धारयोः ऋषभधैवतयोस्तु त्रिश्रुतिः । तदुक्तम्
"चतुश्चतुश्चतुश्चैव षड्जपञ्चममध्यमाः ।
द्विद्विनिषादगान्धारौ त्रिस्त्रिश्चर्षभधवतौ ॥" [ ] इति। तस्यां सङकुलं सङकुलत्वं भावपरत्वान्निर्देशस्य तस्य अप्रतिपत्तितः । 'क्रमेणाशुग्रहे' इत्यत्रापि योज्यम् । एतदुक्तं भवति
आशुग्रहेण शब्देषु यौगपद्यभ्रमो भवन् । वंशादिस्वरधारायामपि स्यात्तदभेदतः ॥१७८०।। तथा चादिश्रुतावेव द्वितीयादेः प्रवेशनात् ।। चतुःश्रुत्यादिभेदेन स्वरभेदग्रहः कथम् ॥१७८१।। तदभावे च गीतस्य स्वरभेदावलम्बिनः ।
प्रसिद्धस्यापि ते बुद्धया जीवनं पश्य नश्यति ॥१७८२॥ ततो न प्रतीत्याशुभावात् शब्देषु यौगपद्यविभ्रमः, सत्यपि तस्मिन् वंशादिस्वर- ३५ धारायां तदभावात् । न चेदमत्र वक्तव्यम्-आशुभावस्तत्प्रतीतौ तादृशो नास्ति यतस्तद्विभ्रम.. इति; तदतिशायिनः तद्भावस्य' प्रतीतेः ।
१-स्याप्र-पा० ।