________________
[३३६
न्यायविनिश्चयविवरणे वृत्तित्वादिति चेत्, न; दत्तोत्तरत्वात् । स्वत एवेति चेत् ; न; तत्रापि 'कथम्' इत्यादे>षात् । तस्यापि पुनः सम्बन्धाद् वर्ण वृत्तिकल्पनायां चक्रकदोषस्यानवस्थाप्रसङगस्य चाविचलनात् । कथमेवं व्यापिन्यप्याकाशे तूलादिसम्बन्धस्याव्यापित्वमिति चेत् ? न; तस्य तत्प्रदेशवृत्तित्वेन तदुपपत्तेः । प्रदेशवत् खल्वाकाशमस्मन्मते प्रसिद्धम्-''आकाशस्यानन्ताः" प्रदेशाः [त. सू० ५।९] इति सूत्रात् । तस्यापि निष्प्रदेशत्वपरिकल्पनायां प्रवृत्तप्रसङगानतिवृत्तेः । तन्नातिशयस्याव्यापिन: सम्भवः । सम्भवेऽपि न तेन वर्णस्य व्यापितयोपलब्धिः । अव्यापिना तु उपलब्धेनापि न किञ्चित् तावन्मात्रस्य अवाचकत्वात् । नायं दोषः, तावन्मात्रस्यापि वर्णतया परिपूर्णत्वात् । न हि तस्यावयवाः सन्ति यतस्तस्य प्रत्याकाशप्रदेशं भागशो
वृत्तिरुपलब्धिर्वा भवेत् तन्निषेधात् । न चैतावता तस्याव्यापित्वम्, एकत्रेवापरतत्प्रदेशे१० ष्वपि तदैव तस्य सर्वत्र सर्वात्मनाऽपि प्रवृत्तेः । तदुक्तम्-----
"यो यो गृहीतः सर्वस्मिन् देशे शब्दो हि विद्यते। न चास्यावयवाः सन्ति येन वर्तेत भागशः ॥ शब्दो वर्तत इत्येवं तत्र सर्वात्मकश्च सः। व्यञ्जकध्वन्यधीनत्वात् तद्देशे स च गृह्यते ॥"
[ मी० श्लो० शब्दनि० श्लो० १७१-७२ ] इति । ततस्तावतोऽपि वर्णतया परिपूर्णत्वात् तथैवोपलब्धत्वाच्चोपपन्नमेव वाचकत्वमिति चेत् ; उच्यते
ध्वनिदेशस्थवर्णस्य देशान्तरगतात्ततः । विच्छेदे व्यापिता तस्य विरोधान्नोपपद्यते ॥१७७१॥ अविच्छेदे तु तेनापि तद्देशे तस्य वर्तनात् । देशान्तराभिसम्बन्धो न शक्यपरिकल्पनः ॥१७७२।। तेनात्मना न चेत्तस्य तत्र वृत्तिः कथं तदा । सर्वात्मनैकदेशेऽपि तस्य वृत्तिः प्रकल्प्यताम् ॥१७७३।। वाचकत्वं यतस्तस
कल्पयेम ततस्तस्य भागेनैव प्रवर्तनम् ॥१७७४॥ न च भागस्योपलब्धस्यापि वाचकत्वम् । वाचकत्वे वा व्यर्थ तत्र व्याप्तिकल्पनम्, वाचकमात्रस्यैव वर्णत्वोपपत्तेः । तावदेव हि वर्णस्य स्वरूपमुपपन्नं यावता तत्प्रतियोजनं नापरं तेन तदभावात् । तथाऽपि तत्कल्पनायां घटादावपि तत्प्रसङ्गात् न कश्चिदव्यापी नाम
भावो भवेत् प्रत्यभिज्ञानस्याविशेषात् । तन्न संस्कारकरणादपि साफल्यं प्रयासस्य । ३० नाप्यभिधेयप्रतिपादनात्; ततस्तद्भावे शब्दकल्पनावैफल्यापत्तेः । तत्सहायाच्छब्दादेव तद्भाव इति चेत् ; न; कूटस्थस्य सहायापेक्षायाः प्रतिक्षेपात् । एतदेवाह
व्यक्त्यावरणविच्छेदसंस्कारादिविरोधतः ॥३६।। इति । . व्यक्तिश्चावरणविच्छेदश्च संस्कारश्च आदिशब्दादभिधेयप्रतिपादनादिश्च तस्य विरोधतः प्रतिपादितप्रकारेण नित्यव्यापिनि प्रयासनिबन्धनस्यासम्भवात् । 'प्रयासोऽनर्थको ३५ भवेत्' इति पदसङगतिः प्रतिपत्तव्या ।
१ चैव तावता आ० ।२-पि तस्य ता०। ३ -गतास्ततः श्रा० । वर्णात् । ४ ताल्वादिप्रयत्नस्य ।