________________
३।३६] ३प्रवचनप्रस्तावः
३०९ किञ्च, यद्यावरणं व्यवधानात् ; तन्न कालतः; नित्यत्वात् । नापि देशतः; विभुत्वात् । नाप्युपलम्भस्य प्रतिबन्धात्; तज्जन्मनि शब्दस्यासामर्थ्य दैवादेव तदभावात् । न ततस्तत्प्रतिबन्धेनापि; सामर्थ्ये सति तस्मिन् नित्यत्वेनाशक्यप्रध्वंसे तत्कार्यस्यावश्यकात्। आवरणमपि तत्प्रतिबन्धे योग्यमेवेति चेत्; उपलब्धेस्तहि युगपद्भावाभावोपनिपातात्तदैवोपलब्धोऽनुपलब्धश्च शब्द इति प्रतीतिपथातिवतिनी भवन्मतिप्रवृत्तिरापद्येत । तन्न ५ शब्दस्यावरणं नाम । सतोऽपि तस्य प्रयासाद् विश्लेषे शब्दस्योपलब्धिर्यदि व्यापकेन रूपेण; व्याप्यमपि जगत् तया प्रतिपत्तव्यम्, तत्प्रतिपत्तिमन्तरेण व्यापकप्रतिपत्तेरनुपपत्तेः । तथा च श्रोत्रव्यापारस्यैवाशब्देऽपि जगति प्रवृत्तिमभ्युपगच्छन् कथमिदमभिदध्यात् "न रूपे श्रोत्रवृत्तितः" [ मी० श्लो० चोदना० श्लो० ११४ ] इति। व्याप्यमप्रतिपद्यापि व्यापकप्रतिपत्तौ तु सकलं जगदप्रतियतोऽपि कस्यचित् तद्विषयज्ञानवतः प्रतिपत्तिसम्भवात् १० "सर्वज्ञोऽयमिति ह्येवम्" [ मी० श्लो० चोदना० श्लो० १३४ ] इत्यादि परस्य पर्यालोचितवचनतां परित्यजेत् । अथ न तद्रूपेण तस्योपलब्धिरकारादिरूपत एव तद्भावादिति; तन्न; निरंशस्योपलभ्येतरस्वभावतया भेदानुपपत्तेः। तदुपपत्तौ वा सांशतया वृद्धिह्रासादेरपि सम्भवात् असम्भवदर्थमेतदापद्येत
"वर्णोऽनवयवत्वात्तु वृद्धिह्रासौ न गच्छति । व्योमादिवदतोऽसिद्धा वृद्धिरस्य स्वरूपतः ॥"
[ मी० श्लो० शब्दनि० श्लो० २१३ ] इति । ततो नावरण विश्लेषादपि किञ्चित्, यतस्तत्करणेन प्रयासस्य साफल्यमवकल्प्येत । भवतु तहि संस्कारकरणात् तस्य तदवकल्पनमिति चेत्; उच्यते
न तावदावृतिध्वंसः संस्कारस्तस्य दूषणात् । नाभिन्नातिशयाधानं कौटस्थ्ये तदसम्भवात् ॥१७६६॥ भिन्नस्त्वतिशयस्तस्य शब्दस्येति कथं भवेत् ? तेनाप्यतिशयाधानमनवस्थानमुद्वहेत् ॥१७६७॥ सन्नप्यतिशयस्तस्य यदि व्यापी तदा भवेत् ।। यावव्योमप्रवृत्तस्य शब्दस्य श्रवणं जनैः ॥१७६८॥ न चैवमस्ति कस्यापि प्रतीतिः शब्दवस्तुनि । प्रत्यासन्नाल्पदेशस्य सर्वैस्तस्योपलम्भनात् ।।१७६९॥ अव्यापी यदि तेनापि वित्तिरव्यापिनो भवेत् ।
न हि ते तादृशो वर्णः कश्चिदस्ति मनीषितः ॥१७७०।। यद्ययमव्याप्येवाऽतिशयः प्रदेशवृत्तित्वात् न वर्णे भवेत्, तद्वृत्तिविषयस्य तत्प्रदेश-३० स्याभावात् । उपाधिवशादस्त्येव तद्भाव इति चेत्, न; उपाधिनाऽपि व्यापिना तदसम्भवात् । अव्याप्येव सोऽपि प्रदेशवृत्तित्वादिति चेत् ; न; तत्रापि 'न वर्णे भवेत्' इत्यादेरावृत्त्या चक्रकात् अनवस्थापत्तेश्च । न तत्प्रदेशवृत्तित्वात् अव्यापित्वमतिशयस्य; अपि तु स्वत एवेति चेत्; तथाऽपि कथमसौ वर्णे भवेत् ? सम्बन्धादिति चेत् ; न; तेनापि व्यापिना तस्याव्यापित्वानुपपत्तेः । अव्याप्येव सोऽपीति चेत् ; कुतस्तस्याव्यापित्वम् ? प्रदेश- 1
१ शब्दशून्येऽपि । २-लब्धेतर-प्रा०।३ स्वीकृत इति यावत् ।