________________
५
१५
३०८
न्यायविनिश्चयविवरणे
तस्मात्तात्त्विक एवायं ह्रस्वादिः शब्दगोचरः । मन्दविस्पन्दितं तस्य ध्वनिधर्मत्वकल्पनम् ।। १७६३॥
३०
ततो निराकृतमेतत्
"एवं ध्वनिगुणान् सर्वान् नित्यत्वेन व्यवस्थिताः । वर्णा अनुपतन्तः स्युरर्थभेदावबोधिनः ॥ आनुपूर्वी च वर्णानां ह्रस्वदीर्घप्लुताश्च ये । कालस्य प्रविभागात्ते जायन्ते ध्वन्युपाधयः ॥'
[ मी० श्लो० शब्दनि० श्लो० ३०१ -२] इति । यत्पुनस्ताद्रूप्यविज्ञानस्य हेतोः शब्दत्वेन व्यभिचारित्वमुपदशितम्; तदल्पमति१० विलसितम् ; व्यक्त्यविष्वग्भावेन तत्रापि तत्त्वत एव वृद्ध्यादेर्भावात् । व्यक्तिव्यतिरेकिणश्च शब्दत्वादेर्नित्यसर्वगतस्य च प्रत्याख्यानाद् दर्पणेत्यादिकमपि तादृशमेव । न हि दर्पणस्य अल्पत्वादिना मुखे तत्प्रतिपत्तिः, तत्प्रतिपत्तिसंक्रम एव तस्योपलम्भात् । तस्य च दर्पणाधिष्ठानत्वेन मुखात्तदन्तरत्वात् । मुखमेव भ्रमात् तदधिष्ठानमुपलभ्यत इति चेत्; न; तदानीमेव तदधिष्ठानस्यापि तस्योपलम्भात् । न चैतन्याय्यम्
[ ३३६
अन्योऽन्याभावरूपत्वात् विभ्रमेतररूपयोः ।
युगपत् सम्भवाभावादेकत्र ग्राह्यवस्तुनि ।। १७६४ ॥ सदप्यविभ्रमज्ञानं विभ्रमं चेन्न बाधते । विभ्रमध्वस्तये पुंसां प्रयासोऽनर्थको भवेत् ।। १७६५।।
तन्न मुखस्य तदधिष्ठानत्वम्, दर्पणपरिणामविशेषस्यैव तत्प्रतिसंक्रमापरनामधेयस्य २० तत्त्वात् । तन्न मुखेनापि तस्य व्यभिचारित्वम् औपाधिकस्यात्पत्वादेस्तत्राप्यप्रतिवेदनात् । ततः शब्द एव दीर्घादिः निर्बाधतत्प्रत्ययविषयत्वात् घटादिवत् । अतस्तस्य ताल्वादिव्यापारादुत्पत्ति रेवोपपन्ना नाभिव्यक्तिः ।
कथं वा 'तद्व्यापारस्याभिव्यञ्जकत्वे ततो नियमेन शब्दस्याभिव्यक्ति: प्रदीपादावेवमदर्शनात् ? युक्तः प्रदीपादौ सत्यपि घटादेस्तन्नियमाभावः तस्यानित्यत्वात् अविभुत्वाच्च, २५ न शब्दस्य विपर्ययादिति च ेत्; न; तस्याल्पत्वमहत्त्वादिना भेदवत्त्वेन तद्वत् अनित्यत्वाद्यविशेषात् । प्रत्यभिज्ञानात् 'तन्नित्यत्वादिप्रतिपत्तेः घटादावपि तुल्यत्वात् । वक्ष्यति च तत्"यदि चैवंविधो नित्यः" इत्यादिना । ततः शब्दवत् घटादेरपि चक्रची वरादेरभिव्यक्तिरेवेति गतः प्रसिद्धोऽपि तत्र हेतुफलव्यवहारः । व्यञ्जकान्तरस्य प्रदीपादेस्तत्र' भावादुत्पत्तिरेव ततस्तस्येति चेत्; तर्हि शब्दस्यापि प्रस्तुतप्रयासात् 'सैवास्तु श्रोत्रप्रणिधानतद्योग्यदेशादेर्व्यञ्जकान्तरस्य तत्रापि भावात् । तत्प्रणिधानादौ तथाविधस्य व्यञ्जकत्वस्याभावात्तदन्तरत्वं तत्र नास्तीति च ेत्; तर्हि प्रदीपादावपि तथाविधस्य तस्याभावात् तद्धेतोरभिव्यक्तिरेव प्राप्नुयादिति नित्य एव सोऽपि भवेत् । तन्न अभिव्यक्तिकरणात् प्रयासस्य शब्दे साफल्यम्, अभिव्यक्तेरुपलब्धिरूपायाः श्रोत्रादेरेव भावात् । आवरणविश्लेषकरणात् तत्र तस्य साफल्यमिति च ेत्; न; चक्रचीवरादिव्यापारेऽपि तत एव तत्कल्पनापत्तेः ।
१ ताल्वादिव्यापारस्य । २ शब्दनित्यत्वादि । ३ न्यायवि० श्लो० ३।४० । ४ घटादौ । ५ चक्रचीवरादेः । ६ उत्पत्तिरेवास्तु । ७ न कदाचिद्व्या- श्र० ।