________________
३०७
३।३६]
३ प्रवचनप्रस्तावः व्यंङग्यानां चैतदस्तीति' मुखे नैकान्तिकं ततः । दर्पणेऽल्पमहत्त्वे च दृश्यते न तु तन्मुखें।"
[मी० श्लो० शब्दनि० श्लो० २१३-१६ ] इति । तदयमत्यन्तपरामर्श पराङमुखस्यैवोल्लासः; ध्वनिधर्मत्वेऽल्पत्वादेस्तद्वदेवाप्रतीतिप्रसङ्गात् । अप्रतीताश्च "न च पर्यनुयोगः" [ मी० श्लो० शब्दनि० श्लो० ४३ ] इत्यादिना ५ ध्वनयः प्रतिपादिताः । न चाप्रतीतौ विभ्रमः, विभ्रमस्य प्रतीतिरूपत्वात् । प्रतिपाद्यत एव तेषामपि कैश्चित् प्रतीतिः-"ध्वनीनां श्रोत्रगम्यत्वं तस्मात् केचित् प्रचक्षते ।" [मी० श्लो० शब्दनि० श्लो० २२३ ] इति वचनादिति चेत् ; अतद्गम्यत्ववादिनां तहि कथं तत्प्रतीतिः यतः - शब्दे तद्विभ्रमः ? न हि दर्पणाल्पत्वादेरप्रतीतौ वदने तद्विभ्रम इति तद्विकलस्यैवावर्णादेस्तदा तद्गम्यत्वं प्राप्नुयात् । न चैवं सर्वदा तदुपश्लिष्टविभ्रमस्यैव तस्योपलम्भात्। १०
___ अपि च, ध्वनीनां श्रोत्रगम्यत्वेऽपि यदि वाचकशक्तिः, व्यर्थ तव्यङग्यस्य शब्दान्तरस्य परिकल्पनं तत्प्रयोजनस्य ध्वनिभ्य एव निष्पत्तेः । अवाचकत्वे तद्धर्मस्य वृद्धिह्रासादेरपि वाचकत्वं न भवेत । तथा च
वृद्धयादिव्यतिरेकेण शब्दस्याप्रतिवेदनात् । 'अवाचकं जगत्प्राप्तं ततः किं केन कथ्यताम् ॥१७५४॥ न हि वृद्धयादिशून्यस्य प्रत्यभिज्ञाऽपि वेदिका । वाचकत्वं यतस्तस्य कल्पयेम निराकुलम् ॥१७५५।। वृद्धिह्रासादितादात्म्यं विभ्रतश्च तया गतौ । अवाचकत्वं वृद्धयादेरशक्यपरिकल्पनम् ॥१७५६॥ अन्यथा सर्वकार्येऽपि सर्वभेदविवर्जितम् । सन्मानं प्रत्यभिज्ञेयमुपयोगीति कल्पनात् ॥१७५७।। स्वर्गादावपि तस्यैव कारणत्वव्यवस्थितेः । यजनादिक्रियाभेदे प्रवृत्तिय॑थिका भवेत् ।।१७५८।। भेदात्मनस्ततो यद्वत् सतोऽर्थकरणं तथा । ह्रस्वाद्यात्मैव शब्दोऽपि वाचकत्वाय 'कल्पते ॥१७५९।। अन्यथा तस्य संस्कारं पाणिनिप्रमुखाः कथम् ।
वाचकं शब्दमुद्दिश्य प्रवृत्तं कुर्वते बुधाः ॥१७६०॥ सत्यम्, ह्रस्वाद्यात्मन एव शब्दस्य वाचकत्वम्, तत्तु तदात्मत्वं ध्वनिधर्मस्यैव ह्रस्वादेरनुपातात् न तत्त्वतः, इति चेत् कथमतात्त्विकेन तद्रूपेण वाचकत्वं वर्णस्य स्वरूपेणापि तथाविधेनैव तत्प्रसङगात् । एवं च
अतात्त्विकस्य वर्णस्य नित्यत्वादिप्रसाधनम् । वन्ध्यास्तनन्धस्येव सौरूप्यगुणवर्णनम् ॥१७६१।। संवृत्या वाचकं शब्द कल्पयन्नपि याज्ञिकः ।
कल्पयेत कारकं तद्वदिति बौद्ध मतं भवेत् ।।१७६२।। १ व्यंगाना-प्रा० । २ कालो नै-पा० । ३ दृश्यते प्रा० । ४ तन्मुखम् आ० । “व्यङ्गयानां चैतदस्तीति लोकेप्चैकान्तिकं न तत् । दर्पणाल्पत्वमहत्त्वे हि दृश्यतेऽनुपतन्मुखम् ॥ -मी० श्लो० । ५ श्रोत्रगम्यत्वम् । ६ प्राध्वाचकं जगद्व्यापं श्रा० । ७ कल्प्यते प्रा०