________________
५
१०
१५
न्यायविनिश्चयविवरणे
[ ३।३६
तस्मादिन्द्रियगोचरातिपातिन्यैव शक्त्या तादृशीमेव शक्तिं श्रोत्रेन्द्रियस्यादधाना ध्वनयः शब्दाभिव्यक्तेर्हेतव इत्युपपन्नमुत्पश्यामः । तदुक्तम्—
" न च पर्यनुयोगोऽत्र 'केनाकारेण संस्कृतः (तिः) । उत्पत्तावपि तुल्यत्वात् शक्तिस्तत्राप्यतीन्द्रिया ॥ नित्यं कार्यानुमेया च शक्तिः किमनुयुज्यते । तद्भावाभावमात्रं हि प्रमाणं तत्र गम्यते ॥ 'अतोऽतीन्द्रिय एवैते शक्त्या शक्तिमतीन्द्रियाम् । इन्द्रियस्यादधानाः स्युः शब्दाभिव्यक्तिहेतवः ॥ " [ मी० श्लो० शब्दनि० श्लो० ४३-४५ ]
२०
३०६
शब्दस्यैव स्वभावश्चेदल्पत्वादिस्तदा कथम् । "तद्भेदे तवैकत्वप्रकल्पनम् ।।१७४९।। प्रत्यभिज्ञानशक्तेश्चेत् घटेष्वपि न तत्कथम् । घटो घटोऽयमित्येवं व्यक्तं तत्रापि तद्दृशेः || १७५०।। व्यक्तिरेव कुलालादेस्तेषामपि तथेत्यतः । कारकव्यवहारोऽयं क्वापि न स्थितिमाप्नुयात् ॥१७५१॥ वैलक्षण्याद्विशेषाणां भेदस्यैवोपपत्तितः । 'जात्येकत्वनिमित्तं चेत् तत्र प्रत्यवमर्शनम् ॥ १७५२॥ अवर्णेष्वपि सैवेयं प्रक्रिया परिकल्प्यताम् । तत्राप्यल्पादिरूपेण व्यक्तिभेदव्यवस्थितेः ॥। १७५३॥
२५
arrat' शब्दधर्मो न भवति ध्वनिधर्मत्वात् । शब्द एव तद्धर्मा तथाप्रतीतेरिति चेत्; न; अतर्द्धामणि शब्दत्वेऽपि तथाप्रतिपत्तिभावेन व्यभिचारात्, व्यक्तिगतस्यैव अल्पत्वादेस्तेनानुविधानात् । तत्र तत्प्रतिपत्तिर्विभ्रमादिति चेत्; न; शब्देऽपि तदविशेषात्, ध्वनिगतस्यैव तेनापि तस्यानुविधानात् । ततः शब्द एवात्पत्वादिः तद्रूपतया विज्ञानादिति न साधुसाधनं शब्दत्वेनानेकान्तात् । मुखेन च दृश्यते हि मुखेऽपि व्यञ्जकाल्पत्वादिना ३० तद्रूपविज्ञानमतत्स्वभावेऽपि । तदुक्तम्
इति च ेत्; उच्यते - तस्थात्पत्वमहत्त्वादिभिर्विशेषैरुपश्लिष्टस्य, अनुपश्लिष्टस्य वा 'तेऽभिव्यञ्जकाः कल्प्यन्ताम् ? न तावदनुपश्लिष्टस्य ; अप्रतीतेः । न हि तादृशः क्वचिद् व्यक्तोऽव्यक्तो वा शब्दः प्रतीतिपथमुपसर्पति यत्राल्पत्वादीनामन्यतमस्यापि विशेषस्यानुपश्लेषः, सर्वदा तदुपश्लेषिण एव तस्य प्रतीतेः । भवन्तु तदुपश्लेषिण एव तस्य ते व्यञ्जका इति चेत्; 'अत्रापि -
“अथ ताद्रूप्यविज्ञानं
हेतुरित्यभिधीयते । तथाऽपि व्यभिचारित्वं शब्दत्वेऽपि हि तन्मतिः ॥ व्यक्त्यल्पत्वमहत्त्व च तद्यथानुविधीयते । तथैवानुविधाताऽयं ध्वन्यल्पत्वमहत्त्वयोः ॥
१ - यागो - ता० । २ कार्यः कारणसंस्मृतेः ता० । ३ नित्या आ०, ब०, प० । ४ ततो आ०, ब०, प० । ५ ध्वनयः । ६ अत्राह - ता० । ७ अल्पत्वादिभेदे सति श्रकारादिवर्णेषु एकत्वकल्पनं कथम् । ८ घटत्वादिजाति । ६ अल्पत्वादिः । १० एवोपाधिः श्रा० ।