________________
३।३६ ]
३ प्रवचनप्रस्तावः
३०५
श्रवणस्यैव सम्भवात् । कुतो वा प्रयासस्य व्यञ्जकत्वमेव न कारकत्वम् ? ततः प्रागपि शब्दस्य भावादिति चेत्; श्रोत्रज्ञानविषयत्वमपि भवेत् तस्य तल्लक्षणत्वादिति व्यर्थ एव प्रयास: स्यात् - तेनापि तस्यैवाभिव्यक्त्यपरनामधेयस्य करणात् तस्य च विनाऽपि तेन सत्त्वात्, सतश्च करणे तदपरिनिष्ठप्रसङ्गात् । तज्ज्ञानयोग्यत्वेनैव प्राक् तस्य भावो न तद्विषयत्वेनेति च ेत्; न; तत्रापि तद्वैयर्थ्याविशेषात् । तथा हि
योग्यः प्रागपि शब्दश्चेत् स्वज्ञानजननं प्रति । प्रयासापेक्षया तत्र किमन्यत् फलमुच्यताम् ।।१७४३॥ स प्रयासव्यपेक्षश्च ेत् स्वज्ञानजननक्षमः । प्रयासाधीनतच्छक्तिस्ततः पूर्वं कथं भवेत् ॥ १७४४॥ शक्तिस्तस्य तदायत्ता न च ेत् किं तद्व्यपेक्षया । व्यक्ता ( क्त्या) ख्यमेव कार्यं च ेत् न स्वशक्तेस्तदुद्भवात् ॥ १७४५॥ केवला सानहेतुश्चत् जह्याच्छक्तित्वमात्मनः । कार्यशून्याऽपि शक्तिश्च ेत् शक्तिः स्याद् व्योमपद्मिनी ॥ १७४६ ॥ जहा नाम कैवल्ये तत्साहित्ये तु नेति चेत् 1
तदैव हि सा शक्तिर्न ततः प्राक्, ततः कथम् ॥ १७४७॥ श्रोत्रवेदनयोग्यस्य शब्दस्य प्रागपि स्थितेः ।
तद्व्यक्तावेव सर्वोऽयं प्रयास इति कथ्यताम् ॥ १७४८ ॥ कुतो वा तस्य प्रयासात् प्रागपि भावः ? ततोऽभिव्यक्तेरिति च ेत्; कस्मान्न निष्पत्तिरेव । प्रागपि ततस्तस्य भावादिति च ेत्; न; परस्पराश्रयात् । ज्ञानात् तर्हि तदा तद्भावः ।
सैव ततः
प्रत्यभि
" शब्दोऽपि प्रत्यभिज्ञानात् प्रागस्तीत्यनुमीयते ।" [मी० श्लो० शब्दनि० श्लो० ३३ ] इति ।
१०
१ प्रयासात् प्रागपि । २ प्रयासेनापि । ३ शब्दः । ५ - स्याप्यभा-आ०, ब०, प० । ६ तदभिव्यक्तेः क - आ०, ब०, प० । ७ शब्दस्य । ८ शब्दनित्यत्वे । ६ शक्तावपि । १० सतीति ता० । ३६
१५
२०
इति च ेत्; किं पुनरिदं प्रत्यभिज्ञानं नाम ? स एवायमिति पूर्वापरयोरेकत्वपरिज्ञानमिति च ेत्; न; सर्वथैकत्वे पूर्वापरभावस्यानुपपत्तेः, तत्र हि पूर्वभाव एव वा भवेत्, उत्तरभाव एव वा ? तत्र पूर्वविकल्पे पूर्वतयैव तस्याभिव्यक्तिरिति न साम्प्रतिकतया २५ प्रतिपत्तिर्भवेत् । पूर्वस्यापि ततः पूर्वभावे न पूर्वतयापि प्रतिपत्तिः, ततोऽपि पूर्वतयैव तत्सम्भवात् एवं तत्रापि वक्तव्यमिति न क्वचिदवस्थिता प्रयासतस्तदभिव्यक्तिर्भवेत् । उत्तरविकल्पे तु प्राग्भावस्याभावात् न प्रयासात् 'तस्याभिव्यक्तिः । कथञ्चिदेकत्वे तु पूर्वस्मा - • दुत्तरस्य श्रोत्रबोधानुपातिनो भेदोऽप्यस्तीति 'तत्कादाचित्कत्वे कारणमभिधातव्यम्, अन्यथा तदयोगात् । तच्च न प्रयासाद् अपरमुपलभ्यत इति कथं तत्कार्यतैव तत्र न भवेत् ? सत्यपि तस्य प्राग्भावे प्रयासोपनीतैर्ध्वनिभिः कथमप्रतीतैरभिव्यक्तिः ? प्रतीतैरेव प्रदीपालोकादिभिः घटादीनां तदुपलब्धेः । न प्रतीतिरभिव्यवतावङ्गं शक्तेरेव तत्त्वात् मन्त्रादिना तन्निषेधे तदालोकादीनामपि अनभिव्यञ्जकत्वात् । न च तस्यामपि पर्यनुयोगः - ' कीदृशी" सा' इति ? कारकशक्तावपि प्रसङ्गात्, तत्रापि अतीन्द्रियत्वेनाप्रतीतेरविशेषात् । न च तावताऽसौ निष्प्रमाणकैव कार्यदर्शनेन कारकशक्तिवत् व्यक्तिदर्शनतो व्यञ्जकशक्तेरप्यवस्थापनात् ।
३५
३०