________________
३०४ . न्यायविनिश्चयविवरणे
[३।३५-३६ ततः प्रतिपत्तिरिति चेत्, न; स्वतो बोधकत्वस्य प्रत्याख्यानात् । परतश्च त्; कस्तहि स परः अन्यत्रातीन्द्रियज्ञानादिसम्पन्नात् पुरुषोत्तमात्, तत्सम्प्रदायादेव तस्य यथार्थप्रतीतिनिबन्धनत्वोपपत्तेः । जैमिन्यादिसम्प्रदायादेव तस्य तन्नि बन्धनत्वमिति चेत्; न; तत्रान्धपरम्परादोषस्य भाषितत्वात् । ततः शास्त्रस्य तदर्थज्ञानं प्रति साफल्यमभ्युपगच्छता तदर्थोपदेशकारी निर्दोषोऽनक्षार्थसाक्षात्कारी च वक्तव्यः, अन्यथा ततोऽयथार्थस्य तस्य ज्ञानस्यापत्त्या प्रवृत्तिवैफल्यापत्तेः । एवमपि कि शास्त्रेण पुरुषादेव तादृशात् हेयोपादेयतत्त्वपरिज्ञानभावादिति चत; न; ततोऽपि शास्त्रमुखेनैव तदुपपत्तेः, तबद्धयैव विनेयानां तदसम्भवात् । भवति स वक्तव्यो यदि कुतश्चित्तादृशस्य पुरुषस्य निश्चयो भवेत्, न चायमस्ति, तत्र बाधकवत् साधकस्याप्यसम्भवन संशयस्यवोपपत्तरिति चत; अत्राह
सन्देहेऽपि च सन्देहस्ततस्तत्वं निरूप्यते ॥३१॥ इति । सन्देहेऽपि च तादृशः पुरुषस्य सन्देहः शास्त्रेऽपि किमिदं तेन पौरुषेयमत नेति, किमस्य तद्गुणतः प्रामाण्यमुत स्वत इति, किमिदमेव धर्म प्रमाणमुत सोऽपीति च संशयः प्राप्नुयात् । न चायं परस्य पथ्यः । सति संशय "यद्वा कर्तुरभावेन" [मी० श्लो० चोदना०
श्लो० ६३] इत्यादेः "स्वतः सर्वप्रमाणानाम्" [मी० श्लो० चोदना० श्लो० ४७] १५ इत्यादेः; "धर्मे चोदनैव प्रमाणम्" [ ] इत्यवधारणस्य च विलोपसम्पातात् । ततः तस्मा- दुक्तन्यायात् तत्त्वं तस्य तादृशस्य भावः निरूप्यते विचार्यते, तदपरीक्षायामुक्तदोषानतिवृत्तः ।
तदेवं वेदाऽवयवत्वेनायुर्वेदादेः नित्यत्वे दोषमभिधाय साम्प्रतं शब्दमात्रस्य नित्यत्वे तं दर्शयन्नाह
___ स्वतन्त्रत्वे तु शब्दानां प्रयासोऽनर्थको भवेत् । इति । २०
स्वतन्त्रत्वमन्यानपेक्षत्वमनेन नित्यत्वं दर्शयति सत्येव तस्मिन् तदुपपत्तेः तस्मिन् सति। केषाम् ? शब्दानां लौकिकानामन्येषां च प्रयासः ताल्वादिपरिस्पन्दरूपः प्रयत्नोऽनर्थको विफलो भवेत् । तु शब्दादवधारणं प्रतिपत्तव्यम् । नानर्थकस्तेषां तेन व्यक्तेरिति चेत्; न ; प्रयासदेश एव तत्प्रसङ्गात्, प्रदीपाद्यालोकदेश एव घटाद्यभिव्यक्ते
रप्युपलम्भात् । तथा च न परेण शब्दस्य श्रवणम् अश्रोत्रप्राप्तस्य तदसम्भवात् । अथ २५ प्रयासाद् व्यञ्जका वायवः श्रोतु: श्रोत्रप्रदेशं यावदभिसर्पन्तस्तत्रापि तदभिव्यक्ति कुर्वन्ति
प्रयासस्य तु तत्कारित्वोपकल्पनं तद्द्वारकमेव न साक्षात् । न चैवं सर्वत्र तदभिव्यक्तिः; व्यञ्जकानां सर्वत्राभावादिति। तन्न सत्यम्, एवमभिव्यक्ताऽनभिव्यक्तरूपतया तत्र भेदापत्तेः । नायं दोषः क्वचिदभिव्यक्तरेव अन्यत्रानभिव्यक्तित्वेन तल्लक्षणस्य रूपान्त
रस्या भावादिति चेत् ; कथमेवमन्यत्रानभिव्यक्तिरेव क्वचिदभिव्यक्तिरपि न भवेत्, तथा ३० च व्यवस्थितमिदं भवेत्-'प्रयासो निरर्थको भवेत्' इति, अनभिव्यक्तिवत् तद्रूपायामभिव्य
क्तावपि प्रयासस्यानुपयोगात् । कथं पुनरनभिव्यक्तिः अभिव्यक्तिः, अभावस्य भावरूपत्वानुपपत्तेरिति चेत् ; अभिव्यक्तिरपि अनभिव्यक्तिर्न भवेत् भावस्यापि अभावरूपत्वायोगात् । देशभेदापेक्षया तस्य ताद्रूप्यस्येतरत्रापि तुल्यत्वात् । ततो निरवयवस्य क्वचिदभिव्यक्तौ सर्वत्राभिव्यक्तिरेवेति नष्टो दूरादश्रवणव्यवहारो दिक्पारतिभिरपि व्यापिनि तत्र'
१ज्ञानस्योपपत्त्या प्रा०, ब०, ५०। २ शास्त्रं कि-पा०, ब०, प० । ३ चोदनैव प्रमाणञ्चेत्येतद् धर्मेऽवधारितम् -मी० श्लो० चोदना० श्लो० ४ । ४ तूत्तरकारित्वोपकल्पनं तद्बाधकमेव श्रा०, ब०, प० ।५ शब्दे । ६-स्य भा-श्रा०, ब०, प०।७ शब्दे ।