________________
३१३३-३५]] ३ प्रवचनप्रस्तावः
• ३०३ दृश्यते हि इदानीन्तनानामपि नैपथ्यादिव्यवहाराणां बहुजनपरिगृहीतानामपि निर्मूलप्रलयः किं पुनस्तथा तदागमस्यादिकालीनस्य न भवेत् । न च वम्, ततो यत्सिद्धं तदाह
सिद्ध श्रुतेन्द्रियातीतं त्रिकालविषयं स्फुटम् ।।३३।। इति। .. 'शास्त्रज्ञानम्' इत्यनुवृत्तम् । शास्त्रस्यायुर्वेदादेः ग्रन्थतोऽर्थतश्च यज्ज्ञानम् उच्छेदगतस्य पुनःप्रवृत्तिनिमित्तं तत् सिद्धं क्वचित् पुरुषे निश्चितम्, अन्यथा तत्प्रलयगमनाभावा- ५ नुपपत्तेः । तच्च श्रुतातीतम् उपदेशानपेक्षत्वात् अन्यथा भवेत्' इत्यादिदोषात् । इन्द्रियातीतं च तदधीनत्वे तज्ज्ञानत्वानुपपत्तेः। अत एव त्रिकालविषयम् इन्द्रियद्वारतयैव तस्य कालनियमसम्भवात् । आवरणपरिक्षयाच्च स्फुटमिति स्पष्टमिति । तर्हि तथाविधस्य तज्ज्ञानस्य सुगतादिष्वेव भावात् त एव तद्वेदादेः प्रवर्तका' इति चेत्। अत्राह
____तथा न क्षणिकादीनां सर्वथाप्तगुणात्ययात् । इति।
क्षण इति क्षणभङ्गवाद उच्यते विषयिणि विषयोपचारात्, तद्वत्त्वेन क्षणिकः सुगतः आदिशब्दादीश्वरादयस्तेषां तथा तेनोक्तप्रकारेण न शास्त्रज्ञानम् । कस्मात् ? आप्तस्य यो गुणः अज्ञानरागादिदोषाभावलक्षणः "आप्तिं दोषक्षयं विदुः" [ इति वचनात्', तस्यात्ययात् अभावात् । भवतु नाम क्षणभङ्गादौ प्रमाणपथातिवतिनि तेषां तदत्ययो न नीलादौ तस्य तदनतिवर्तिन एव तैरु पदेशादिति चेत्। न ; तस्यापि क्षणभङ्गाद्य- १५ व्यतिरेकेण तदतिवतित्वाविशेषात् । अत एवोक्तं 'सर्वथा' इति । ततो न तेषां तत्प्रवर्तकत्वं भगवत एव तदुपपत्तेः । उपसंहरन्नाह
तद्विरम्य विरम्यैतद् युक्तं शास्त्रप्रवर्तनम् ॥३४॥ इति । तत्तस्मादुक्तरूपात् ज्ञानात् एतत् प्रतीयमानं शास्त्रस्यायुर्वेदादेः प्रवर्तनं युक्तमुपपन्नम् । कथम् ? विरम्य विरम्य वीप्सया अन्तराऽन्तरा विच्छेदं गत्वेति दर्शयति । २० प्रसिद्धश्च परस्यापि तथा तद्विच्छेदः, विच्छिन्नस्य पुनः कुतश्चित् तदर्थदर्शनवतः प्रवर्तनं च । 'वामदेवेन दृष्टं 'साम कठेन प्रोक्तम्' इत्यादिव्यवहारात्, स्वयं प्रतिपन्नस्य प्रथमोक्तस्य च दृष्टत्वप्रोक्तत्वोपपत्तेः । तत्तेस्मैव (तत्तेऽस्त्येब) तदर्थदर्शी पुरुषः तदभावे शास्त्रस्यैव प्रलयप्रसङगात् ।। तदेवं तस्य शास्त्रं प्रत्युपयोगमभिधाय तत्र प्रवृत्तेरर्थवत्त्वं प्रत्यभिधित्सुराह- १
__तादृशोऽभावविज्ञाने शास्त्रे 'वृत्तिरनर्थिका । इति । तादृशोऽतीन्द्रियदर्शिनो वीतदोषस्य च पुरुषस्य प्रणेतुः अभावविज्ञाने शास्त्र आयुर्वेदादौ या वेदवादिनां प्रवृत्तिः सा 'अनथिका निष्प्रयोजना भवेदिति शेषः । नैतदस्ति, शास्त्रात्तदर्थप्रतिपत्तेस्तत्प्रयोजनत्वादिति चेत् ; न; शास्त्रस्याबोधकत्वेन ततस्तत्प्रतिपत्तेरनुपपत्तेः, अन्यथा यतः कुतश्चित् तत्प्रसङ्गेन शास्त्रस्यैव वैयर्थ्यापत्तेः। भवतु बोधकादेव ३०
१ 'भवेदन्धपरम्परा' इत्यादिदोषात् । २ -कारिति प्रा०, ब०, प० । ३ स्फुटितः ता० । ४ "प्राप्तं दोषक्षयाद्विदुः - सांख्यका० माठर० पृ० १३ । यश० उ०...""| प्राप्तस्व......| ५ साधुकण्ठेन श्रा०, ब०, ५०। ६ ऐतरेयोपनिषदि (२।५) प्रोक्तं यत् वामदेवो गर्ने वसन्नेव सर्वमहं वेद इत्युवाच । ७ तते स्मैव ता०1८-नर्थका ता०। ९-वे त-ता० ।