________________
३०२ न्यायविनिश्चयविवरणे
[३।३१-३३ तथा तद्वक्तव्यमविशेषादिति कथं तच्छक्तिरन्यतो न भवेत् यतः सत्यज्ञानशक्तिरपि तथा परतो नावकल्प्येत । स च परः पुरुषस्तदर्थसाक्षात्कार्येव नापरः, ततः तदनवकल्पनस्य वक्ष्यमाणत्वात् । तदेव दर्शयन्नाह--
शास्त्रज्ञानं तथैव स्यात् सामग्रीगुणदोषतः । इति । एवकारो हेतुपदानन्तरं द्रष्टव्यो भिन्नक्रमत्वात् । तदयमर्थः-शास्त्राद्वेदादन्यतो यज्ञानं तदर्थविषयं तत् स्यात् भवेत् । कथम् ? तथा तेन सत्यमिथ्यात्वात्मना प्रकारेण । कुतस्तथा तत् स्यात् ? सामग्री शास्त्रमेव तस्या यौ गुणदोषौ पुरुषविशेषापादितसत्यमिथ्याज्ञानजननशक्तिरूपौ तत एव ताभ्यामेव । दोषग्रहणं निदर्शनार्थम्, यथा दोषतो मिथ्यात्वेन
भावस्तथा सत्यत्वेन गुणत इति । सतोऽपि गुणस्य दोषापाकरण एव व्यापारो न सत्यज्ञाने, १० तस्य शास्त्रादेव भावादिति चेत् किमेवं दोषस्यापि गुणापाकरण एव व्यापारात् मिथ्या
ज्ञानमपि शास्त्रादेव न भवेत् ? दोषतः पूर्व गुणस्यैवाभावादिति चेत् ; गुणतः पूर्व दोषस्याप्यभावात् न ततोऽपि तदपाकरणं स्यात् । सम्भवनियमे वा दोषस्य गुणस्यापि स्यादविशेषात् । ततो युक्तं तज्ज्ञानस्य पुरुषायत्तगुणोपनिबन्ध नत्वेन परत एव प्रामाण्यम्
कि पुनर्वेदे तदर्थदशिना पुरुषेण ? न हि तेन तस्य करणं नित्यत्वात्, नापि तदर्थज्ञानस्य १५ तस्यापि जैमिन्यादिसम्प्रदायपरम्परात एवोपपत्तेरिति चेत् न प्रयत्नसापेक्षत्वेन तत्र नित्यत्वविरोधस्याभिधानात् । तदविरोधेऽपि दूषण माह
अविरोधेऽपि नित्यस्य भवेदन्धपरम्परा ॥ ३१ ॥
तदर्थदर्शिनोऽभावान्म्लेच्छादिव्यवहारवत् । इति।
अन्धवत् अन्धो जैमिन्यादिसम्प्रदायः तस्यातीन्द्रियस्वर्गयागसम्बन्धादिवेदार्थसंस्पर्श२० वैमुख्यात् तस्य परम्परा प्रवाहो भवेत् । कदापि ? अविरोधेऽपि विरोधाभावेऽपि । कस्य ?
नित्यस्य वेदस्य । कुतो भवेत् ? तदर्थदशिनो जैमिन्यादीनां मध्ये तदर्थ वेदार्थ पश्यतीत्येवंशीलस्य कस्यचिदपि अभावात् । अत्र निदर्शनम्-म्लेच्छाः प्रत्यन्तवासिनो बलाकादयः. आदिशब्दादन्येऽपि तादशा व्याधादयः तेषां व्यवहारो मातविवाहादिस्तत्रेव
तद्वदिति । प्रसिद्धं हि परस्यापि मातृविवाहादेः श्रेयोहेतुत्वदर्शिनः कस्याप्यभावात्, अतद्दर्शि२५ सम्प्रदायस्य च तद्विमुखत्वादन्ध प्रवाहत्वं तथा प्रकृतस्यापीत्युपपन्नो दृष्टान्तभावः ।
सत्यपि तदर्थाभि मुख्य अनादिसम्प्रदायत्वे वेदागमस्य भवितव्यं तदर्थदर्शिना पुरुषेणेति प्रतिपिपादयिषुः पूर्वपक्षयति
___अनादिसम्पदायश्चेत् आयुर्वेदादिरागमः ॥ ३२ ॥ इति । सुबोधमिदम् । अत्रोत्तरमाह--
कालेनैतावताऽनाप्तः कथन्न प्रलयं गतः । इति । एतावता अनादिरूपेण कालेन कथन्न प्रलयं गतः तदागमः । कीदृशः ? अनाप्तः अविद्यमानतदर्थ साक्षात्कारिपुरुषः । प्रलयं गतोपपत्त्येव (गत एव उपपत्त्या) रागाद्युपहतचेतस्कतया प्रज्ञाबलवैकल्यादिना च अग्दिर्शिनामनुपदेशान्यथोपदेशादेः अप्रतिवेदनान्यथाप्रतिवेदनादेश्च प्रतिपुरुषमुपक्षीयमाणस्य सर्वत्रापि देशे अनादिना कालेन निर्मू लोन्मूलनस्य सम्भवात् ।
१ तदा प्रा०, ब०, प० । २ 'प्रत्यन्तो म्लेच्छदेशः स्यात्' इत्यमरः । ३ -तदर्थाभिमुखेऽसाक्षाप्रा०, ब०, प०।