________________
३६५] ३ प्रवचनप्रस्तावः
३४६ असत्यपि कुम्भकारे तदुपनिबद्धं घटपरिमाणमिवेति ब्रूमः, कर्मणोऽपि कुम्भकारवत् तत्र सहकारित्वस्यैव भावात् । कथमेवं कर्मकृतमसकलज्ञत्वमपि तदभावे निवर्तते इति चेत्, ? न; सकलज्ञानस्य संसारिण्यपि व्याप्तिज्ञानबलेन व्यवस्थापनात्। केवलं तस्य विशेषाभिमुखनिरोधानमेव कर्मभिः, तच्च तन्निवृत्तौ निवर्तत एव तद्व्यापारत्वात् । ततो युक्तं मुक्तस्यावस्थितमेव परिमाणम् । न चैवं संसारिदशायाम् ; तदा तत्प्रदेशोपसंहारविसर्पण- ५ परिणामसहकारि कारणस्य कर्मास्रवस्यानवस्थितत्वेन सूक्ष्मसूक्ष्मतरादिविकल्पगोचरस्यानवस्थितस्यैव तत्परिमाणस्य सम्भवात् । ततो यदत्र ब्रह्ममीमांसायां सूत्रम्-"अन्त्याऽवस्थितेश्चोभयनित्यत्वादविशेषः" [ब्र० सू० २।२।३६ ] इति, यच्च भाष्यं भागवतम्-'अन्त्यस्य मोक्षावस्थाभाविनो जीवपरिमाणस्य नित्यत्वमिष्यते जैनैः तद्वत्पूर्वयोरपि आद्यमध्यमयोः जीवपरिमाणयोनित्यत्वप्रसङ्गात् अविशेषप्रसङ्गात् एकपरिमाणशरीरतैव स्यात्, न उप- १० चितापचितशरीरान्तरप्राप्तिः” [ब्र० सू० शा० भा० २।२।३६] ; इति; तत्प्रतिविहितम् ; असङ्ख्यातप्रदेशस्य जीवस्य कर्मवशात् प्रदेशानामुपसंहार-विसर्पणातिशयक्रमसम्भवे सति अपचयोपचयातिशयक्रमाधिष्ठानपरापरशरीरप्राप्तेरविरोधात् । यदप्यत्र दूषणं भाष्यकारस्य'तेषां पुनरनन्तानां जीवावयवानां समानदेशत्वं प्रतिहन्येत वा न वेति वक्तव्यम् । प्रतिघाते तावत् न अनन्तावयवाः परिच्छिन्ने देशे सम्मीयेरन् अप्रतिघातेऽपि एकावयवदेशत्वोपपत्तेः १५ सर्वेषामवयवानां प्रथिमानुपपत्तेः जीवस्याणुमात्रत्वप्रसङ्गः।" [ब० सू० शा० भा० २।२।३४] इति; तदपि तस्य जैनमतानभिज्ञत्वमावेदयति; न हि तत्र तेषामप्रतिघात एव, समुद्घातदशायामत्यन्तविसर्पणेन परस्परप्रतिघातवतामेव भावात् । तेषां चासङ्खयातलोकाकाशप्रदेशसमवायित्वेन परिच्छिन्नप्रदेशसमवायित्वाभावात् । नापि सप्रतिघाता एव उपसंहारपर्यन्तप्राप्तावेकप्रदेशसमवायित्वेनैव परमाणुरूपतया मध्ये चानेकविकल्पतया तेषामवस्थानात् । २० ततो युक्त' मुक्तस्यावस्थितपरिमाणत्वम्, अन्यथाभावे हेत्वभावात् । कथमेवं घटादिवदनित्यत्वं न भवेदिति चेत् ? न ; कथञ्चित् तस्येष्टत्वात्, एकान्तनित्यत्वे विनश्वरैकान्तवनिर्वागस्यैवाभावप्रसङ्गात् । एतदेवाह
नित्यस्येच्छा-प्रधानादियोगोऽनित्यः किमात्मनः।
मिथ्याज्ञानादनिर्मोक्षस्तथाऽनेकान्तविद्विषाम् ॥६५॥ इति । यः खलु यौगपरिकल्पितस्यात्मन इच्छाद्वेषादिना, साङख्योपगतस्य शरीरेन्द्रियादिविवर्तिना प्रधानेन, ब्रह्मवादिसम्मतस्य स्वपरविभागादिभेदावद्योतविधायिन्याऽविद्यया योगः समवायादिरूपः सम्बन्धः, कीदृशस्य ? नित्यस्य कूटस्थस्य, परिणामिनोऽनभ्युपगमात्, स किमनित्यः ? नैव । तथा हि
तत्सम्बन्धस्ततोऽन्यश्चेत् तस्येति कथमुच्यताम् । मुक्तात्मवत् परस्माच्चत् सम्बन्धादनवस्थितिः ॥१८२२॥ अनन्यश्चेत् स नित्यः स्यात् नित्यादव्यतिरेकतः । तथा च नित्या एव स्युरिच्छाद्वेषादयोऽपि ते ॥१८.३॥
१ "न हि व्यापारवतो विवृत्तौ व्यापारस्य सम्भवः ।" -ता० टि०। २ -कारणकर्मा -प्रा०, ब९, प०। ३ -णामस्य प० । ४ युक्तमवस्थित-प्रा०, ब०, प०। ५-त्यत्वेन वि-प्रा०, ब०, प० । ६-दिनिवर्तना प० । -दिविवर्तना -प्रा०, ब० ।